vet Flashcards
स्वरति
स्वृ स्वृ शब्दोपतापयोः भ्वादिः परस्मैपदी अकर्मकः वेट् to sound to be ill to irritate to trouble
स्वरिता , स्वर्ता
स्वरिष्यति
अस्वरिष्यत्
1 स्वरिता-स्वर्ता-त्री, स्वारयिता-त्री; सिस्वरिषिता-त्री, सुस्वूर्षिता-त्री, सेस्व्रीयिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकपिपर्त्तिवत् (1044) ज्ञेयानि ।
2 स्वृतः-स्वृतम्, निस्वृत्, स्वरितव्यम्-स्वर्तव्यम्, निस्वारी,
3 स्वरः,
4 अनुस्वारः,
स्वरितुम्-स्वर्तुम्,
5 स्वरणः,
6 स्वरमाणः,
7 सिस्वरिषुः-सुस्वूर्षुः,
8 स्वरिष्यन्,
9 संस्वरमाणः,
10 स्वरुः इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः ।
सूते
सू षूङ् प्राणिगर्भविमोचने अदादिः आत्मनेपदी सकर्मकः वेट् to procreate to give birth
(सूतः सूतवान् ) इत्यत्रानेन वा "यस्य विभाषाऽऽ इति वा इडभावः ( सूत्वा ) श्र्युकः कितिऽऽ इतीण्निषेधः प्रसूय सुवितम् सोतुम् सवितव्यम् सोतव्यम् सविता सोता सविष्यते , सोष्यते सावकः सवः सव्यम् सवनीयम् सवनम्
7 सुषूतिः, -विषूतिः-निःषूतिः-दुःषूतिः, 8 प्रसूनम्-प्रसूतम्, सुषवी, 9 प्रसवी, 10 प्रसवः, 11 सन्तानसूः, 12 सूनुः, सूतकम्, सूतका-सूतिका, इति विशेषरूपाणि ।
सूयते
१६३
सू षूङ् प्राणिप्रसवे दिवादिः आत्मनेपदी सकर्मकः वेट् to procreate to conceive to give birth
( सूत्वा, सूनः, सूनवान् ) “स्वादय ओदितःऽऽ इत्योदित्त्वाद् “ओदितश्चऽऽ इति निष्ठानत्वम् अयमसूयार्थोऽपि तेन देव दत्ताय सूयत इति “क्रुधद्रुहऽऽ इति चतुर्थी भवतीत्यात्रेयः अत्र प्राणिग्रहणमतन्त्रम् तेन प्रसूनास्तरव इति भवति अन्ये तु “सर्वं भावास्सचेतनाऽ इत्यत्र प्राणित्वमाहुः तथा च “प्रसूनं कुसुमं समम्ऽ इत्यत्र सुभूतिचन्द्रः, षूङः प्राणिप्रसवे, क्षपणकमतेन वृक्षस्यापि प्राणित्वमिति अनुक्तं सूतिवत् ३४
सुवति
१७१
सू प्रेरणे तुदादिः परस्मैपदी सकर्मकः सेट् to inspire to put to work to make something fly
सूतः सूतवान् प्रसूय सुवितम् सवितव्यम् सविता सविष्यति सावकः सवः सव्यम् सवनीयम् सवनम्
(सूत्वा सूतः सूर्यः) “राजसूयऽऽ इत्यादिना क्यपि रुडागमः सूर्यस्य स्त्री देवता ( सूर्या ) [सूर्याद्देवतायां चाब्वक्तव्यः] इति चाप् पुंयोगङीषोऽपवादः अदेवतायां तु ङीषेव ( सूरी मानषी ) इति ( सूत्रम्) “सूर्यतिष्यऽऽ (इति सूत्रम्) इति तद्धिते ईति च भसंज्ञानिमित्ते यलोपः सूर्यस्येदं (सौर्यम्) इत्यत्र [सूर्यस्य छे च ङ्यां च] इति नियमान्न लोपः यद्यप्यत्र “यस्येति चऽऽित्यल्लोपस्य यलोपविधिम्प्रति न स्थानिवदिति स्थानिवत्त्वनिषेधाद्यकारो नोपधस्तथापि “असिद्धवदत्राभात्ऽऽित्यसिद्धत्वादुपधात्वादस्ति लोपप्रसङ्गः, (सौरी बलाका) इत्यत्र तु “तेनैदिक्ऽऽित्यणि ङीप्यणो “यस्येतिऽऽ इतिलोपस्य पूर्ववदसिद्धत्वादुपधायकार इति तस्य लोपः, इकारपरत्त्वात् न चाणि यो यस्येतिलोपस्तस्यासिद्धत्वादनुपधात्वमिति शङ्क्यम् अण्यल्लोपा यलोपस्त्वीतीति व्याश्रयत्वेनासिद्धत्वाप्रसङ्गात् न च स्थानिवद्भावेनोपधात्वभङ्ग यलोपविधौ तस्य निषेधात् नन्वेवमपि यकारः सूर्यस्योपधा न भवति किन्त्वणन्तस्येति लोपो न स्यात् नैष दोषः नात्र सूर्यादिभिरुपघां विशेषयिष्यामः किन्तु भसंज्ञकेन, भस्योपधा यो यकारो वस्तुतः सूर्यादिसम्बन्धीति एवं च सौरीयमित्यत्रापि अणन्ताच्छे पूर्ववद् यलोपः सिध्यति “सौर्ये हिमवतः शृङ्गेऽ इत्यत्र पूर्ववदणि “नपुंसकाच्चऽऽ इति शीभावे पूर्ववदीति प्राप्तो यलोपो ङ्यामितीकारस्य विशेषणान्न भवति “सौरो मन्त्रःऽ इति प्रयोगस्तु सूरशब्दादणि द्रष्टव्यः ( प्रसवी ) “जिदृक्षिविऽऽित्यादिनेनिः ( सवित्रम् ) “अर्त्तिलूऽऽ इति इत्रः ( सूरः ) “सूसूधागृविभ्यः क्रन्ऽऽ इति क्रन् सूरिस्तु”सूङः क्रिऽऽ इति, षूङ उक्तः, सूते सूयतइति लुक्श्यनोः १२४
1 सूर्यः, 2 सविता, 3 सवित्रम्, 4 सूतः, 5 प्रसवी, 6 सूरः,
1. सुवति प्राणिनस्तत्तत्कर्मसु इति सूर्यः । ‘राजसूयसूर्य—’ (3-1-114) इत्यत्र
निपातनात् क्यप्, रुडागमश्च ।
Footnote 2. ‘तृन्’ (3-2-135) इति ताच्छीलिकस्तृन्प्रत्ययः । सविता = सूर्यः । प्रेरणशील
इत्यर्थः ।
Footnote 3. ‘अर्तिलूधूसू—’ (3-2-184) इति करणे इत्रप्रत्ययः ।
Footnote 4. संज्ञायां क्तप्रत्यये रूपम् । सूतः = रथादीनां प्रेरकः सारथिः ।
Footnote 5. ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (3-2-157) इति इनिप्रत्ययः ।
प्रसवी = आज्ञप्ता ।
Footnote 6. औणादिके क्रन्प्रत्यये रूपमेवम् । सूरः = सूर्यः । ‘सूरसूर्यार्यमादित्य—’ इत्यमरः ।
अक्षति अक्ष्णोति
१४५०-९४
४२५-२१२
अक्ष् अक्षूँ व्याप्तौ भ्वादिः परस्मैपदी सकर्मकः वेट् to pervade to reach
१. ण्वुल् २. तृच् (तृन्) ३. शतृ ४. शानच् ५. क्विप् ६. निष्ठा ७. अन्ये ८. तव्य ९. अनीयर् १०. ण्यत् यत् ११. खल् १२. यक् १३. घञ् १४. तुमुन् १५. क्तिन् १५. ल्युट् १६. क्त्वा १७. ल्यप् १८. क्त्वा णमुलौ
संघाते च’ इति क्षीरस्वामी ।
अक्षकः-क्षिका, अक्षकः-क्षिका, अचिक्षिषकः-षिका;
5 अक्षिता-त्री, अष्टा-ष्ट्री, अक्षयिता-त्री, अचिक्षिषिता-त्री;
अक्षन्-न्ती, अक्षयन्-न्ती, अचिक्षिषन्-न्ती; 6 अक्ष्णुवन्-वती,
अक्षिष्यन्-अक्ष्यन्-ती-न्ती, अक्षयिष्यन्-ती-न्ती, अचिक्षिषिष्यन्-ती-न्ती;
अक्षयमाणः, अक्षयिष्यमाणः;
अट् 7 -अक्षौ-अक्षः, अक् 8 अक्षौ-अक्षः, 9 अष्टः-ष्टम्-ष्टवान्, अक्षितः, अचिक्षिषितम्-तः-तवान्;
[Page0006+ 24]
अक्षः, अक्षः, 1 काष्ठाक्षः (ज्वलनः), अचिक्षिषुः, अचिक्षयिषुः;
अक्षितव्यम् अष्टव्यम् अक्षयितव्यम्, अचिक्षिषितव्यम्;
अक्षणीयम्, अक्षणीयम्, अचिक्षिषणीयम्;
अक्ष्यम्, अक्ष्यम्, अचिक्षिष्यम्;
ईषदक्षः-दुरक्षः-स्वक्षः;
अक्ष्यमाणः, अक्ष्यमाणः, अचिक्षिष्यमाणः;
अक्षः, अक्षः, अचिक्षिषः;
अक्षितुम्-अष्टुम्, अक्षयितुम्, अचिक्षिषितुम्;
अष्टिः, अक्षणा, अचिक्षिषा, अचिक्षयिषा;
अक्षणम्, अक्षणम्, अचिक्षिषणम्;
अक्षित्वा, अष्ट्वा, अक्षयित्वा, अचिक्षिषित्वा;
समक्ष्य, समक्ष्य, समचिक्षिष्य;
अक्षम् 2, अक्षित्वा 2, अष्ट्वा 2 अक्षम् 2, अक्षयित्वा 2, अचिक्षिषम् 2, अचिक्षिषित्वा 2, अक्षि 2 ॥
Footnote 5. ‘स्वरतिसूति—’ (7-2-44)
इतीड्विकल्पः ।
Footnote 6. ‘अक्षोऽन्यतरस्याम्’ (3-1-75)
इति वा श्नुः । उवङ् ।
Footnote 7. ‘स्कोः—’ (8-2-29) इति कलोपः ।
Footnote 8. ‘संयोगान्तस्य लोपः’ (8-2-23) ।
Footnote 9. ऊदित्त्वात्, ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः । ककारलोपः ।
Footnote 1. ‘कर्मण्यण्’ (3-2-1) इत्यण् ।
Footnote 2. औणादिक इन् प्रत्ययः
तक्षति तक्ष्णोति
तक्षू [Printed book page 0638]
तक्ष् तक्षूँ तनूकरणे भ्वादिः परस्मैपदी सकर्मकः वेट् to sharpen to peel off
‘तनूकरणम् = स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणम्’ इति
बालमनोरमा ॥
‘स्यात् तक्षतीति त्वचनेऽथ वा श्नौ तक्ष्णोति तक्षेच्च तनूक्रियायाम् ।’
(श्लो. 183) इति देवः ।
१. ण्वुल् तक्षकः-क्षिका, तक्षकः-क्षिका, तितक्षिषकः- 2 तितक्षकः-क्षिका, तातक्षकः-क्षिका;
२. तृच् (तृन्) - 3 तक्षिता-त्री-तष्टा-ष्ट्री, तक्षयिता-त्री, तितक्षिषिता-तितक्षिता-त्री, ३. शतृ - तातक्षिता-त्री; 1 तक्ष्णुवन्-ती, तक्षन्-न्ती, तक्षयन्-न्ती, तितक्षिषन्-तितक्षन्-न्ती; –
तक्षिष्यन्-तक्ष्यन्-न्ती-ती, तक्षयिष्यन्-न्ती-ती, तितक्षिषिष्यन्-तितक्षिष्यन्-न्ती-ती; –
४. शानच् — तक्षयमाणः, तक्षयिष्यमाणः, — तातक्ष्यमाणः, तातक्षिष्यमाणः;
५. क्विप् – 2 तट्-तड्-तक्षौ-तक्षः; — — –
६. निष्ठा —3 तष्टम्-तष्टः-तष्टवान्, तक्षितः, तितक्षिषितः-तितक्षितः, तातक्षितः-तवान्;
७. अन्ये– तक्षः, तक्षः, तितक्षिषुः-तितक्षुः, तातक्षः;
८. तव्य –तक्षितव्यम्-तष्टव्यम्, तक्षयितव्यम्, तितक्षिषितव्यम्-तितक्षितव्यम्, तातक्षितव्यम्;
९. अनीयर् —तक्षणीयम्, तक्षणीयम्, तितक्षिषणीयम्-तितक्षणीयम्, तातक्षणीयम्;
१०. ण्यत् यत्—तक्ष्यम्, तक्ष्यम्, तितक्षिष्यम्-तितक्ष्यम्, तातक्ष्यम्;
११. खल् — ईषत्तक्षः-दुस्तक्षः-सुतक्षः; — — –
१२. यक् - तक्ष्यमाणः, तक्ष्यमाणः, तितक्षिष्यमाणः-तितक्ष्यमाणः, तातक्ष्यमाणः;
१३. घञ् —तक्षः, तक्षः, तितक्षिषः-तितक्षः, तातक्षः;
१४. तुमुन् —तक्षितुम्-तष्टुम्, तक्षयितुम्, तितक्षिषितुम्-तितक्षितुम्, तातक्षितुम्; १५. क्तिन् — तक्षा, तक्षणा, तितक्षिषा-तितक्षा, तातक्षा;
१५. ल्युट् — तक्षणम्, तक्षणम्, तितक्षिषणम्-तितक्षणम्, तातक्षणम्;
१६. क्त्वा—तक्षित्वा-तष्ट्वा, तक्षयित्वा, तितक्षिषित्वा-तितक्षित्वा, तातक्षित्वा,
१७. ल्यप्—सन्तक्ष्य, सन्तक्ष्य, सन्तितक्षिष्य-सन्तितक्ष्य, सन्तातक्ष्य;
१८. क्त्वा णमुलौ —तक्षम् 2, तक्षित्वा 2-तष्ट्वा 2, तक्षम् 2, तक्षयित्वा, तितक्षिषम् 2-तितक्षम् 2, तितक्षिषित्वा 2-तितक्षित्वा 2, तातक्षम् 2; तातक्षित्वा 2;
[Page0640+ 25]
1 तक्षकः, 2 तक्षा.
Footnote 2. ऊदित्त्वादिड्विकल्पः । इडभावपक्षे, ‘स्कोः—’ (8-2-29) इति झल्निमित्तके
कलोपे, ‘षढोः कः सि’ (8-2-41) इति षकारस्य ककारादेशे, ‘आदेशप्रत्य-
ययोः’ (8-3-59) इति सनः सकारस्य षत्वे च तितक्षकः इति रूपम् । एवं
सर्वत्रेडभावपक्षे सन्नन्ते प्रक्रिया ज्ञेया ।
Footnote 3. ऊदित्त्वेनेड्विकल्पः । तेन रूपद्वयम् । इडभावपक्षे ‘स्कोः—’ (8-2-29) इति
कलोपे, ‘ष्टुना ष्टुः’ (8-4-41) इति ष्टुत्वे च रूपम् । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘तनूकरणे तक्षः’ (3-1-76) इति शब्विषये श्नुप्रत्ययः विकल्पेन भवति ।
उवङादेशः । श्नुप्रत्ययाभावे शपि तक्षन् इति भवति ।
Footnote 2. क्विपि, ‘स्कोः— (8-2-29) इति कलोपे, षकारस्य जश्त्वचर्त्वयो रूपम् ।
Footnote 3. ऊदित्त्वेन वैकल्पिकेट्त्वात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः ।
Footnote 4. ‘गुरोश्च हलः’ (3-3-103) इति स्त्रियामकारप्रत्ययः । टाप् ।
Footnote A. ‘घोषद्भूषः पङ्कजाक्षस्तमूचे पापश्रेणीतक्षणे त्वष्टृधर्मा ।’ धा. का. 1. 83.
Footnote 1. ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ [द. उ. 3. 5] इति क्वुन्प्रत्ययः । तस्याकादेशः ।
तक्षकः = सर्पविशेषः ।
Footnote 2. ‘कनिन् युवृषितक्षि—’ [द. उ. 6. 51] इति कनिन्प्रत्ययः । तक्ष्णोति, तक्षति
इति वा तक्षा = शिल्पी ।
त्वक्षति
त्वक्ष् त्वक्षूँ तनूकरणे भ्वादिः परस्मैपदी सकर्मकः वेट् to reduce in size
त्वक्षू [Printed book page 0708]
(801) “त्वक्षू तनूकरणे” (I-भ्वादिः-656. सक. वेट्. पर.)
भौवादिकतक्षतिवत् (692) सर्वाणि रूपाण्यस्योह्यानि । 6 त्वष्टा ।
[Page0709+ 25]
Footnote 6. ‘अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृ—’ (6-4-11) इत्यनेन तृन्नन्तो निपातितः तच्छील-
तद्धर्मतत्साधुकारिष्वर्थेषु । सूत्रे निपातादेव तृन्नन्तेऽत्र कदाचित् इड्घटितप्रयोगो न
सम्भवति । [ID=801]
अनक्ति
अञ्ज् अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु रुधादिः परस्मैपदी सकर्मकः वेट् to join
अन्जू [Printed book page 0025]
(27) “अन्जू व्यक्तिम्रक्षण(क्ष्ण)कान्तिगतिषु”
(VII-रुधादिः-1458-सक. वेट्-पर.)
व्यक्तिः = प्रकटता । म्रक्षणं = घृतादिसेकः ।
व्यञ्जकः-ञ्जिका, व्यञ्जकः-अञ्जिका, अञ्जिजिष 1 कः-षिका;
अञ्जिता-त्री, 1A व्यङ्क्ता-त्री, अञ्जयिता-त्री, अञ्जिजिषिता-त्री;
2 व्यञ्जन्-न्ती, व्यञ्जयन्-न्ती, अञ्जिजिषन्-न्ती;
व्यञ्जिष्यन्-न्ती, ती, व्यञ्जयिष्यन्-न्ती, ती, अञ्जिजिषिष्यन्-न्ती-ती;
व्यङ्क्ष्यन्-न्ती, ती, व्यञ्जयिष्यन्-न्ती, ती, अञ्जिजिषिष्यन्-न्ती-ती;
व्यञ्जयमानः, व्यञ्जयिष्यमाणः;
व्यन्-व्यञ्जौ-व्यञ्जः;
व्यक्तम्-क्तः-क्तवान्, व्यञ्जितम्, अञ्जिजिषितम्-तः-तवान्;
अञ्जः, अञ्जः, अञ्जिजिषुः, व्यञ्जिजिषुः A, अञ्जिजयिषुः;
व्यञ्जितव्यम्, अञ्जयितव्यम्, अञ्जिजिषितव्यम्;
अङ्क्तव्यम्, अञ्जयितव्यम्, अञ्जिजिषितव्यम्;
व्यञ्जनीयम्, व्यञ्जनीयम्, अञ्जिजिषणीयम्;
3 व्यङ्ग्यम्, व्यञ्ज्यम्, अञ्जिजिष्यम्;
4 आज्यम्, व्यञ्ज्यम्, अञ्जिजिष्यम्;
ईषदञ्जः-दुरञ्जः-स्वञ्जः; 5 व्यज्यमानः, व्यञ्ज्यमानः, अञ्जिजिष्यमाणः;
अङ्गः, अञ्जः, अञ्जिजिषः;
[Page0026+ 23]
व्यञ्जितुम्, अञ्जयितुम्, अञ्जिजिषितुम्;
व्यङ्क्तुम्, अञ्जयितुम्, अञ्जिजिषितुम्;
व्यक्तिः, अञ्जना, व्यञ्जिजिषा, व्यञ्जिजयिषा;
व्यञ्जा, अञ्जना, व्यञ्जिजिषा, व्यञ्जिजयिषा;
व्यञ्जनम्, व्यञ्जनम्, अञ्जिजिषणम्;
अञ्जित्वा 1 अक्त्वा अङ्क्त्वा अञ्जयित्वा, अञ्जिजिषित्वा;
अभिव्यज्य, अभिव्यञ्ज्य, समञ्जिजिष्य;
अञ्जम् 2, अक्त्वा 2, अञ्जित्वा 2, अङ्क्त्वा 2, अञ्जम् 2, अञ्जयित्वा 2, अञ्जिजिषम् 2; अञ्जिजिषित्वा 2;
अञ्जलिः, 2
Footnote 1. ‘स्मिपूङ्रञ्ज्त्रशां सनि’ (7-2-74)
इति नित्यमिट् ।
Footnote 1A ‘स्वरतिसूति—’ (7-2-44) इति
ऊदित्त्वादिड्विवकल्पः ।
Footnote 2. ‘रुधादिभ्यः’ (3-1-78) इति
श्नम्प्रत्यये ‘श्नान्नलोपे’ (6-4-23)
‘श्नसोरल्लोपः’ (6-4-111) ।
Footnote A. ‘संसिस्मयिषमाणोऽगात् मायां व्य-
ञ्जिजिषुः द्विषः’ भ. का. 9-53.
Footnote 3. ‘चजोः कु घिण्ण्यतोः’ (7-3-52)
इति कुत्वम् ।
Footnote 4. ‘आङ्पूर्वादन्जेः संज्ञायामुपसंख्या-
नम् ।’ (वा 3-1-109) इति क्यपि
रूपम् । उपधानकारलोपः ।
Footnote 5. ‘अनिदिताम्—’ (6-4-24) इति
नलोपः ।
Footnote 1. ‘जान्तनशां विभाषा’ (6-4-32) इति
वा उपधानकारलोपः ।
Footnote 2. औणादिक अलिच् प्रत्ययः ॥ [ID=27]
तनक्ति
तञ्च् तन्चूँ सङ्कोचने रुधादिः परस्मैपदी सकर्मकः वेट् to contract to reduce to constrict
तन्चू
तन्चू [Printed book page 0646]
(702) “तन्चू सङ्कोचने” (VII-रुधादिः-1459. सक. सेट्. पर.)
‘तञ्जू—’ इति क्षीरस्वामिसम्मतः पाठः । जकारान्तमध्ये पाठात् एवमेव
न्याय्यम्, इति तदाशयः ।
तञ्चकः-ञ्चिका, तञ्चकः-ञ्चिका, 4 तितञ्चिषकः-षिका-तितङ्क्षकः-क्षिका, 5 तातचकः-चिका; 6 तञ्चिता-तङ्क्ता-त्री, तञ्चयिता-त्री, तितञ्चिषिता-तितङ्क्षिता-त्री, तातचिता-त्री;
[Page0647+ 24]
1 तञ्चन्-ती, तञ्चयन्-न्ती, तितञ्चिषन्-तितङ्क्षन्-न्ती; –
तञ्चिष्यन्-तङ्क्ष्यन्-न्ती-ती, तञ्चयिष्यन्-न्ती-ती, तितञ्चिषिष्यन्, तितङ्क्षिष्यन्-न्ती-ती; –
— तञ्चयमानः, तञ्चयिष्यमाणः, — तातच्यमानः, तातचिष्यमाणः; 2 संतक्-संतग्-सन्तचौ-सन्तचः; — – 3 तक्तम्- A क्तः-क्तवान्, तञ्चितः, तितञ्चिषितः-तितङ्क्षितः, तातचितः-तवान्;
तञ्चः, तञ्चः, तितञ्चिषुः-तितङ्क्षुः, 4 तातञ्चः;
तञ्चितव्यम्-तङ्क्तव्यम्, तञ्चयितव्यम्, तितञ्चिषितव्यम्-तितङ्क्षितव्यम्, तातचितव्यम्;
तञ्चनीयम्, तञ्चनीयम्, तितञ्चिषणीयम्-तितङ्क्षणीयम्, तातचनीयम्; 5 तङ्क्यम्, तञ्च्यम्, तितञ्चिष्यम्-तितङ्क्ष्यम्, तातच्यम्;
ईषत्तञ्चः-दुस्तञ्चः-सुतञ्चः; — — –
तच्यमानः, तञ्च्यमानः, तितञ्चिष्यमाणः-तितङ्क्ष्यमाणः, तातच्यमानः;
आतङ्कः, तञ्चः, तितञ्चिषः-तितङ्क्षः, तातचः;
तञ्चितुम्-तङ्क्तुम्, तञ्चयितुम्, तितञ्चिषितुम्-तितङ्क्षितुम्, तातचितुम्;
तञ्चा, तञ्चना, तितञ्चिषा-तितङ्क्षा, तातचा;
तञ्चनम्, तञ्चनम्, तितञ्चिषणम्-तितङ्क्षणम्, तातचनम्; 6 तञ्चित्वा-तक्त्वा, तञ्चयित्वा, तितञ्चिषित्वा-तितङ्क्षित्वा, तातचित्वा;
प्रतच्य, प्रतञ्च्य, प्रतितञ्चिष्य-प्रतितङ्क्ष्य, प्रतातच्य;
[Page0648+ 26]
तञ्चम् 2, तञ्चित्वा-तक्त्वा 2, तञ्चम् 2, तञ्चयित्वा 2, तितञ्चिषम् 2-तितङ्क्षम् 2, तितञ्चिषित्वा 2-तितङ्क्षित्वा 2, तातचम् 2; तातचित्वा 2.
Footnote 4. ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा (7-2-44) इति सूत्रेणास्य धातोर्वला-
द्यार्धधातुकस्येड्विकल्पः । इडभावपक्षे, ‘चो कुः’ (8-2-30) इति चकारस्य
ककारः । ‘नश्चापदान्तस्य झलि’ (8-3-24) इत्यनेन, नकारस्यानुस्वारे, ‘आदे-
शप्रत्यययोः’ (8-4-59) इति सनः सकारस्य षकारः । ‘अनुस्वारस्य ययि–
(8-3-58) इति परसवर्णे च तितङ्क्षकः इति रूपम् । एवमिडभावपक्षे सन्नन्ते
सवंत्र प्रक्रिया ज्ञेया ।’
Footnote 5. यङन्ताण्ण्वुलि, ‘अनिदिताम्—’ (6-4-24) इत्युपधानकारस्य लोपे ‘यस्य हलः’
(6-4-49) ‘अतो लोपः’ (6-4-48) इति क्रमेण यकाराकारयोर्लोपे द्वित्वे च
रूपम् । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 6. ऊदित्त्वेन वलादेरार्धधातुकस्येड्विकल्पः । इडभावपक्षे, कुत्वानुस्वारपरसवर्णा
भवन्ति । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘रुधादिभ्यः श्नम्’ (3-1-78) इति श्नम् विकरणप्रत्ययः । मित्त्वादयम् अन्त्यादचः
परो भवति । ‘श्नान्नलोपः’ (6-4-23) इति धातुनकारस्य लोपः । ‘श्नसोरल्लोपः’
(6-4-111) इति अकारलोपः । अनुस्वारपरसवर्णौ भवतः ।
Footnote 2. सम्यक् तञ्चतीति सन्तक् । ‘अनिदिताम्—’ (6-4-24) इत्युपधानकारस्य लोपः ।
Footnote 3. ऊदित्त्वेनेड्विकल्पात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्णिषेधः ।
उपधानकारलोपः । कुत्वम् ।
Footnote A. ‘संतक्तनद्धवसनाः परिवेगवृक्ता
रङ्गं समेत्य पपृचुः स्वजनांश्च मल्लाः ॥’ धा. का. 3. 3.
Footnote 4. ‘यङोऽचि च’ (2-4-74) इत्यनेन यङो लुक् । नचात्रोपधानकारस्य लोपः शङ्क्यः;
लुका लुप्तत्वेन ‘न लुमताऽङ्गस्य’ (1-1-63) इति प्रत्ययलक्षणाभावात् ।
Footnote 5. ‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वम् । एवं घञ्यपि कुत्वं ज्ञेयम् ।
Footnote 6. इट्पक्षे, ‘न क्त्वा सेट् । (1-2-18) इति कित्त्वनिषेधान्नलोपो न ।’
वृश्चति
व्रश्च् ओँव्रश्चूँ छेदने तुदादिः परस्मैपदी सकर्मकः वेट् to cut to make a hole to tear
व्रश्चू
व्रश्चू [Printed book page 1275]
(1664) “ओ व्रश्चू छेदने” (VI-तुदादिः-1292. सक. वेट्. पर.) 1 व्रश्चकः-श्चिका, व्रश्चकः-श्चिका,
[Page1276+ 30]
1 विव्रश्चिषकः-विव्रक्षकः-क्षिका, 2 वरीवृश्चकः-श्चिका;
व्रश्चिता-त्री, 3 व्रष्टा-ष्ट्री, व्रश्चयिता-त्री, विव्रश्चिषिता-विव्रक्षिता-त्री, वरीवृश्चिता-त्री;
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकमज्जतिवत् (1235) ज्ञेयानि । 4 व्रश्चित्वा, 5 वृक्णः-वृक्णवान्, 6 व्रस्क्यः, 7 व्रस्कः, 8 मूलवृट्, 9 वृश्चिकः, 10 वृक्षः इति
विशेषरूपाणि ।
[Page1277+ 27]
Footnote 1. अनुबन्धद्वयं विहाय धातुरयं उपदेशे सकारोपधः । तदुक्तम्—‘नकारजावनुस्वार-
पञ्चमौ झलि धातुषु । सकारजः शकारश्चेर्षाट्टवर्गस्तवर्गजः ॥’ इति । एवञ्च ‘स्तोः
श्चुना श्चुः’ (8-4-40) इति श्चुत्वेन सर्वत्र शकारश्रवणमिति ज्ञेयम् ।
Footnote 1. ऊदित्त्वादिड्विकल्पः । इडभावपक्षे ‘स्कोः संयोगाद्योरन्ते च’ (8-2-29) इति
सकारलोपे, ‘व्रश्चभ्रस्ज—’ (8-2-36) इत्यादिना चकारस्य षकारे, ‘षढोः कः
सि’ (8-2-41) इति ककारे, सनः सकारस्य षत्वे च विव्रक्षकः इत्यादीनि रूपाणि
सन्नन्तेषु बोध्यानि ।
Footnote 2. यङन्ते ‘सम्प्रसारणं तदाश्रयं च कार्यं बलवत्’ (परि. 129) इति वचनात् प्रथमं
सम्प्रसारणपूर्वरूपे, अनन्तरम्, ‘रीग् ऋत्वतः’ (वा. 7-4-90) इति रीगागमः ।
Footnote 3. ऊदित्त्वेनेड्विकल्पनात् तृजादिषु रूपद्वयम् । इडभावपक्षे ‘स्कोः—’ (8-2-29)
इति सलोपे, ‘व्रश्च—’ (8-2-36) इत्यादिना षत्वे, तृचस्तकारस्य ष्टुत्वेन टकारे
च व्रष्टा इति रूपम् ।
Footnote 4. धातोरूदित्त्वेनेड्विकल्पं प्राप्तं बाधित्वा, ‘जॄव्रश्च्योः क्त्वि’ (7-2-55) इति
नित्यमिट् । ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधात् न सम्प्रसारणम् ।
Footnote 5. निष्ठायाम् ‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । सम्प्रसारणपूर्वरूपादिकम् ।
‘स्कोः—’ (8-2-29) इति सकारलोपः । ओदित्त्वात् निष्ठातकारस्य नकारः ।
‘चोः कुः’ (8-2-30) इति कुत्वम् । ‘निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो
वाच्यः’ (वा. 8-2-3) इति वचनेन ‘व्रश्च—’ (8-2-36) इति षत्वं प्रति
निष्ठानत्वस्य सिद्धत्वात्, झल्परकत्वाभावात् न षत्वम् । णत्वम् । इयमत्र गहना
प्रक्रिया ।
Footnote 6. ण्यति ‘चजोः—’ (7-3-52) इति कुत्वे, अझल्परकत्वात् ‘स्कोः—’ (8-2-29)
इति न सकारलोपः । ‘निमित्तापाये नैमित्तिकस्याप्यपायः’ (परि. 57) इति
वचनेन चकारमाश्रित्य श्रुतः शकारः, शकारविगमे स्वयमेव सकारतां प्रत्यापद्यते ।
Footnote 7. घञि चकारस्य कुत्वे पूर्ववत् शकारस्य सकारभावे च रूपमेवम् ।
Footnote 8. मूलं वृश्चतीति मूलवृट् । ‘क्विप् च’ (3-2-76) इति क्विपि, सम्प्रसारणपूर्वरूपयोः
सकारलोपे, व्रश्चादिषत्वे तस्य जश्त्वेन डकारे चर्त्वे च रूपमेवम् । मूलवृत् इति
क्षीरतरङ्गिण्यां दृश्यते । स च अपपाठ इति भाति, तुकोऽप्रसिद्धेः ।
Footnote 9. ‘व्रश्चिकृषोः किकन्’ (द. उ. 3-12) इति किकन्प्रत्यये सम्प्रसारणादिके च
रूपमेवम् । वृश्चिकः = दन्दशूकविशेषः ।
Footnote 10. ‘स्नुव्रश्चि—’ (द. उ. 9-25) इति क्सप्रत्ययः । सम्प्रसारणादिकम् । [ID=1663]
मार्ष्टि
मृज् मृजूँ शुद्धौ अदादिः परस्मैपदी सकर्मकः वेट् to cleanse to purify
मृजू [Printed book page 1047]
(1302) “मृजू शुद्धौ” (II-अदादिः-1066. अक. वेट्. पर.) [अ]
‘शौचालंकारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥
मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि ।’ (श्लो. 60-61) इति देवः ।
मार्जकः-र्जिका, मार्जकः-र्जिका, 7 मिमार्जिषकः-षिका-मिमृक्षकः-क्षिका,
[Page1048+ 24]
1 मरीमृजकः-जिका; 2 मार्जिता-मार्ष्टा-मार्ष्ट्री, मार्जयिता-त्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-त्री; 3 मार्जन्-मृजन्-ती, मार्जयन्-न्ती, मिमार्जिषन्-मिमृक्षन्-न्ती;
मार्जिष्यन्- 4 मार्क्ष्यन्-न्ती-ती, मार्जयिष्यन्-न्ती-ती, मिमार्जिषिष्यन्-मिमृक्षिष्यन्-न्ती-ती; – 5 व्यतिमार्जानः, व्यतिमृजानः, मार्जयमानः, व्यतिमिमार्जिषमाणः-व्यतिमि-
मृक्षमाणः, मरीमृज्यमानः- 6 मर्मृज्यमानासः व्यतिमार्जिष्यमाणः-व्यतिमार्क्ष्य-
माणः, मार्जयिष्यमाणः, व्यतिमिमार्जिषिष्यमाणः-व्यतिमिमृक्षिष्यमाणः, मरीमृजिष्यमाणः; 7 कंसपरिमृट्-कंसपरिमृड्-कंसपरिमृजौ-कंसपरिमृजः; –
[Page1049+ 27]
1 मृष्टम्-मृष्टः-मृष्टवान्, मार्जितः, मिमार्जिषितः-मिमृक्षितः, मरीमृजितः-तवान्;
परिमार्जः, 2 तुन्दपरिमृजः A -तुन्दपरिमार्जः, 3 परिमार्क्ष्णुः, 4 मार्जनः, मार्जः, मिमार्जिषुः-मिमृक्षुः, मरी[मार्जः]मृजः;
मार्जितव्यम्-मार्ष्टव्यम्, मार्जयितव्यम्, मिमार्जिषितव्यम्-मिमृक्षितव्यम्, मरीमृजितव्यम्;
मार्जनीयम्, मार्जनीयम्, मिमार्जिषणीयम्-मिमृक्षणीयम्, मरीमृजनीयम्; 5 मृज्यः- B मार्ग्यः, 6 अवश्यमार्ज्यः, मार्ज्यम्, मिमार्जिष्यम्-मिमृक्ष्यम्, मरीमृज्यम्;
ईषन्मार्जः-दुर्मार्जः-सुमार्जः; — — –
मृज्यमानः, मार्ज्यमानः, मिमार्जिष्यमाणः-मिमृक्ष्यमाणः, मरीमृज्यमानः;
[Page1050+ 28]
मार्गः, 1 अपामार्गः, मार्जः, मिमार्जिषः-मिमृक्षः, मरीमर्जः;
मार्जितुम्-मार्ष्टुम्, मार्जयितुम्, मिमार्जिषितुम्-मिमृक्षितुम्, मरीमृजितुम्; 2 मृजा, A मृष्टिः, मार्जना, मिमार्जिषा-मिमृक्षा, मरीमृजा;
परिमार्जनम्- 3 सम्मार्जनी, 4 सांमार्जनम्, मार्जनम्, मिमार्जिषणम्-मिमृक्षणम्, मरीमृजनम्;
मार्जित्वा-मृष्ट्वा, मार्जयित्वा, मिमार्जिषित्वा-मिमृक्षित्वा, मरीमृजित्वा;
विमृज्य-अपमृज्य, विमार्ज्य, विमिमार्जिष्य-विमिमृक्ष्य, विमरीमृज्य;
मार्जम् 2, मार्जित्वा 2-मृष्ट्वा 2, मार्जम् 2, मार्जयित्वा 2, मिमार्जिषम् 2-मिमृक्षम् 2, मिमार्जिषित्वा 2-मिमृक्षित्वा 2, मरीमृजम् 2; मरीमृजित्वा 2; 5 मर्जूः, 6 मार्जारः, 7 मार्जालीयः ।
[Page1051+ 29]
Footnote [अ] ‘मृजूष्—’ इति क्षीरस्वामी षितममुं पठित्वा, उत्तरत्र, ‘भिदादौ (3-3-104)
मृजा ।’ इत्यप्याह । अनूदितश्चायं पक्षः पुरुषकारे (श्लो. 61), खण्डितश्च ।
‘षकारोऽङर्थः ।’ इति च क्षीरस्वामिवाक्यं किञ्चिदनूदितमत्र पुरुषकारे ।
परं तु क्षीरतरङ्गिण्यां नैतादृशं वाक्यमधुनोपलभ्यते । यदि धातोः षित्त्वं
प्रामाणिकं स्यात्—तर्हि षित्त्वेनैन निदानेनाङ्सिद्धेर्भिदादिपाठपरिकल्पनमन्या-
य्यमिति तदाशयः । वस्तुतस्तु क्षीरतरङ्गिण्यां धातोरस्य षित्करणं लेखकदो-
षादापतितमिति भाति ।
Footnote 7. धातोरस्य ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इतीड्विकल्पः ।
इट्पक्षे रूपमेवम् । इडभावपक्षे, झलादित्वेन सनः कित्त्वेन गुणनिषेधे,
‘व्रश्चभ्रस्जसृजमृज—’ (8-2-36) इत्यादिना षत्वे, ‘षढोः कः सि’ (8-2-41)
इति ककारे षत्वे च रूपमेवम् । एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया ।
Footnote 1. ‘न धातुलोप आर्धधातुके’ (1-1-4) इत्यत्रत्यभाष्यपरामर्शनात् यङन्ते सर्वत्र
वृद्धिविकल्पः इति ज्ञायत इति बृहच्छब्देन्दुशेखरे (पु. 1878) स्पष्टम् ।
ततश्चात्र सर्वत्र मरीमार्जकः-र्जिका, मरीमार्जिता-त्री; इत्यादीनि रूपाणि
यथासम्भवं तत्तत्प्रत्ययेषु ज्ञेयानि । एवं ‘ममृंज्यते मर्मृज्यमानास इति
चोपसंख्यानम्’ (वा. 7-4-91) इत्युक्तत्वात् ण्वुलादिष्वप्यस्य रुकि रूपनिष्पत्तिर्भव-
तीति न मन्तव्यम्; यतोऽत्र निपातनस्थलेष्विव स्वरूपग्रहणात्, निर्दिष्टरूपस्यैव
साधुत्वज्ञापनात्, यङ्लुकि विहितस्य रुको यङन्तेऽपि निर्दिष्टयोरुभयोर्विषयेऽप्युप-
संख्यानार्थमेव वार्तिकावताराच्च इति स्पष्टं कैयटादौ ।
Footnote 2. तृजादिष्वप्यूदित्त्वादिड्विकल्पः । इडभावपक्षे, इट्पक्षेऽपि लघूपधलक्षणं गुणं
बाधित्वा, ‘मृजेर्वृद्धिः’ (7-2-114) इति वृद्धिः । एवमेव तव्यदादिष्वपि ज्ञेयम् ।
Footnote 3. शतरि, ‘अदिप्रभृतिभ्यः—’ (2-4-72) इति शब्लुकि, ‘इहान्ये वैयाकरणाः
मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते’ (भाष्यवाक्यम् 1-1-3) इति
वृद्धिविकल्पः । वृद्ध्यभावपक्षे, शतुरपित्सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote 4. स्यप्रत्यये इडभावपक्षे षत्वकत्वषत्वेषु रूपमेवम् ।
Footnote 5. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् । वृद्धिविकल्पः ।
Footnote 6. यङन्ताच्छानचि, ‘मर्मृज्यते मर्मृज्यमानास उपसंख्यानम्’ (वा. 7-4-91) इति
वचनात् रीगपवादतया पाक्षिके रुकि, बहुवचने जसः, ‘आज्जसेरसुक्’ (7-1-50)
इत्यसुकि रूपमेवम् । “छन्दोऽधिकारः ‘आज्जसेरसुक्’ (7-1-50) इति यावत् ।”
इति काशिकायाम् (7-1-38) उक्तत्वात् वैदिकेष्वेवास्य प्रयोग इति ज्ञेयम् ।
Footnote 7. कंसं परिमार्ष्टि इत्यर्थे, ‘क्विप् च’ (3-2-76) इति कर्मण्युपपदे क्विप् । पदान्तनि-
मित्तके षत्वे जश्त्वे चर्त्वविकल्पे च रूपमेवम् ।
Footnote 1. ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । षत्वे
ष्टुत्वे च रूपमेवम् ।
Footnote 2. तुन्दं परिमार्ष्टीत्यर्थे, ‘तुन्दशोकयोः परिमृजापनुदोः’ (3-2-5) इति कर्मण्युप-
पदे अणोऽपवादतया कप्रत्ययः । कित्त्वेन गुणनिषेधः । ‘आलस्यसुखाहरणयोः—’
(वा. 3-2-5) इति वचनात् आलस्यविशिष्टे कर्तर्येवायं प्रत्यय इति ज्ञेयम् ।
तदभावपक्षे तुन्दपरिमार्जः इत्यत्र, ‘कर्मण्यण्’ (3-2-1) इति अण्प्रत्यये वृद्धौ च
रूपम् । अत्र कप्रत्ययस्य कित्त्वात्, ‘मृजेरजादौ सङ्क्रमे विभाषा वृद्धिम्—’
(भाष्यवाक्यम् 1-1-3) इति वचनात् आलस्यरूपार्थे एव वृद्धिविकल्पमाशङ्क्य,
‘सा भवत्येव सत्यभिधाने’ इति उद्द्योते (3-1-5) समाहितम् । उत्तरत्र च
यद्यनभिधानमभिमतम्, तदानीम्, ‘इको गुणवृद्धी’ (1-1-3) इति सूत्रे भाष्य-
स्वारस्यात् निरुक्तभाष्यवाक्ये ‘अजादौ’ इत्यस्य आतिदेशिकक्ङिदजादिप्रत्यये
इत्यर्थपरकत्वमाश्रित्य, अत्र कप्रत्ययस्यौपदेशिककित्त्वेन वृद्धिनिषेध एवेति च
समाहितम् ।
Footnote A. ‘इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते ।’ अनर्घराघवे 7-110.
Footnote 3. ताच्छीलिके, “— ‘परिक्षिपच्परिमृजः ग्स्नुः’ इति ग्स्नुप्रत्ययः । परिमार्क्ष्णुः ।”
इति प्रक्रियाकौमुदी । भाष्यादिषु तु नैतादृशं वचनमुपलभ्यते ।
Footnote 4. बाहुलकात्, नन्द्यादेः (3-1-134) आकृतिगणत्वाद्वा ण्यन्तात् कर्तरि ल्युप्रत्यये
रूपमेवम् ।
Footnote 5. ‘मृजेर्विभाषा’ (3-1-113) इति विभाषा क्यप् । पक्षे ण्यति निष्ठायामनिट्त्वात्
‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वे वृद्धौ च मार्ग्यः इति रूपम् ।
Footnote B. ‘मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते ॥’ भ. का. 6-57.
Footnote 6. आवश्यकार्थे ण्यति, ‘ण्य आवश्यके’ (7-3-65) इति कुत्वनिषेधः ।
Footnote 1. ‘हलश्च’ (3-3-121) इति संज्ञायां घञि, कुत्वे, ‘उपसर्गस्य घञ्यमनुष्ये
बहुलम्’ (6-3-122) इति ‘अप’ इत्युपसर्गान्त्याकारस्य दीर्घे रूपमेवम् ।
अपमृज्यतेऽनेन व्याध्यादिरिति अपामार्गः = ओषधिविशेषः ।
Footnote 2. स्त्रियां भावादौ भिदादिपाठात् (3-3-104) अङि, औपदेशिकङित्त्वादस्य प्रत्ययस्य
‘मृजेरजादौ—’ (भाष्यवाक्यम् 1-3-5) इत्यत्र नास्य ग्रहणमिति निर्णयात्,
‘क्ङिति च’ (1-1-5) इति वृद्धिनिषेधे च रूपमेवम् । बाहुलकात् क्तिनि वृद्धौ च
माष्टिः इत्यपि रूपमिति ज्ञेयम् । मा. धा. वृत्तौ तु ‘मार्ष्टिरिति चुरादौ
वक्ष्यते’ इत्युक्तम् । चुरादिषु तु कुत्रापि मार्ष्टिशब्दनिष्पत्तिः तेन न क्रियते ।
मृष्टिरिति तु बाहुलकात् क्तिनि, क्तिचि वा निष्पद्यत इति ज्ञेयम् ।
Footnote A. ‘पयोधरांश्चन्दनपङ्कदिग्धान् वासांसि चामृष्टमृजानि दृष्ट्वा ।’ भ. का. 11. 27.
Footnote 3. सम्मार्जनी इति करणल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपम् । सम्मार्जनी =
शोधनसाधनी ।
Footnote 4. सम्पूर्वकादस्माद् भावे ‘अभिविधौ भाव इनुण्’ (3-3-44) इतीनुणि, तदन्तात्
‘अण् इनुणः’ (5-4-15) इति स्वार्थिके अण्प्रत्यये, ‘इनण्यनपत्ये’ (6-4-164) इति
नान्तस्य प्रकृतिभावे च रूपमेवम् । क्लीबत्वं लोकादत्रेति ज्ञेयम् । काशिकायाम्
(6-4-164) उदाहृतमिदं पदम् ।
Footnote 5. ‘मृजेर्गुणश्च’ (द. उ. 1-165) इत्यूप्रत्यये, वचनादेव वृद्ध्यपवादे गुणे च
रूपम् । मर्जूः = शुद्धिः ।
Footnote 6. ‘कञ्जिमृजिभ्यां चित्’ (द. उ. 8-67) इत्यारन्प्रत्यये रूपसिद्धिः । मार्ष्टि भवन-
मिति मार्जारः = बिडालः ।
Footnote 7. ‘स्थाचतिमृजेः आलवालजालीयरः’ (द. उ. 10-1) इत्यनेन यथासंख्यमालीयर्
प्रत्यये रूपमेवम् । मार्ष्टि अशुभं रक्षांसि चेति मार्जालीयः = अग्निः । [ID=1302]
[Printed book page 1051]
(1303) “मृजू शौचालङ्कारयोः” (X-चुरादिः-1849. सक. सेट्. उभ.)
आधृषीयः ।
‘शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥’ (श्लो. 60) इति देवः ।
‘मृजूष्—’ इति क्षीरस्वामी । ऊदित्त्वस्य ण्यन्ते प्रयोजनाभावात्,
शुद्ध एवोपयोगाच्चास्य णिज्विकल्प इति ज्ञेयम् । यद्वा, आधृषीयत्वेनेड्विकल्प
इति बोध्यम् ।
मार्जकः-र्जिका, मिमार्जयिषकः-षिका, मार्जकः-र्जिका, मिमार्जिषकः-षिका,
मिमृक्षकः-क्षिका, मरीमृजकः-मरीमार्जकः-र्जिका; मार्जयिता-त्री, मिमार्ज-
यिषिता-त्री, मार्जिता-त्री, मार्ष्टा-मार्ष्ट्री, मिमार्जिषिता-मिमृक्षिता-त्री,
मरीमृजिता-मरीमार्जिता-त्री; इत्यादीनि सर्वाण्यपि रूपाणि यथा-
सम्भवमूह्यानि । णिजभावपक्षे पूर्वलिखितादादिकमार्ष्टिवत् (1302) सन्नन्ते,
यङन्ते च रूपाणि बोध्यानि । ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च, णिन्नि-
मित्तकं लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ (7-2-114) इति वृद्धि-
रिति विशेषः । वृद्धिविधायके सूत्रे उत्सृष्टानुबन्धस्य मृजेरविशेषेण ग्रहणमिति
विवेकः । [ID=1303]
मार्जति मार्जयति
मृज् मृजूँ शौचालङ्कारयोः चुरादिः उभयपदी सकर्मकः सेट् to cleanse to purify to washm to decorate
क्लिद्यति
क्लिद् क्लिदूँ आर्द्रीभावे दिवादिः परस्मैपदी अकर्मकः वेट् to be wet to be moist
क्लिदू [Printed book page 0296]
(286) “क्लिदू आद्रींभावे” (IV-दिवादिः-1242. अक. सेट्. पर.)
‘क्लिन्दते क्लिन्दतीत्येवमिदितः परिदेवने ।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत् ॥’ (श्लो. 102) इति देवः ।
क्लेदकः-दिका, क्लेदकः-दिका, 1 चिक्लिदिषकः-चिक्लेदिषकः-षिका, 2 चिक्लित्सकः-त्सिका, चेक्लिदकः-दिका;
क्लेदिता-क्लेत्ता-त्री, क्लेदयिता-त्री, चिक्लिदिषिता-चिक्लेदिषिता-चिक्लित्सिता-त्री, चेक्लिदिता-त्री; 3 क्लिद्यन् A -न्ती, क्लेदयन्-न्ती, चिक्लिदिषन्-चिक्लेदिषन्-चिक्लित्सन्-न्ती;)
क्लेदिष्यन्-क्लेत्स्यन्-न्ती-ती, क्लेदयिष्यन्-न्ती-ती, चिक्लिदिषिष्यन्-चिक्लेदिषिष्यन्-चिक्लित्सिष्यन्-ती-न्ती
— क्लेदयमानः, क्लेदयिष्यमाणः, चेक्लिद्यमानः, चेक्लिदिष्यमाणः;
विक्लित्-विक्लिदौ-विक्लिदः; — – 4 क्लिन्नम्-क्लिन्नः-क्लिन्नवान्, क्लेदितः-तम्, चिक्लिदिषितः-चिक्लेदिषितः-चिक्लित्सितः-चेक्लिदितः-तवान्;
[Page0297+ 19]
1 क्लिदः, क्लेदः, चिक्लिदिषुः-चिक्लेदिषुः-चिक्लित्सुः, चेक्लिदः;
क्लेदितव्यम्-क्लेत्तव्यम्, क्लेदयितव्यम्, चिक्लिदिषितव्यम्-चिक्लेदिषि-तव्यम्-चिक्लित्सितव्यम्, चेक्लिदितव्यम्;
क्लेदनीयम्, क्लेदनीयम्, चिक्लिदिषणीयम्-चिक्लेदिषणीयम्-चिक्लि-त्सनीयम्, चेक्लिदनीयम्;
क्लेद्यम्, क्लेद्यम्, चिक्लिदिष्यम्-चिक्लेदिष्यम्-चिक्लित्स्यम्, चेक्लिद्यम्;
ईषत्क्लेदः-दुष्क्लेदः-सुक्लेदः; — — –
क्लिद्यमानः, क्लेद्यमानः, चिक्लिदिष्यमाणः-चिक्लेदिष्यमाणः-चिक्लित्स्यमानः, चेक्लिद्यमानः;
क्लेदः, 2 चिक्लिदः, क्लेदः, चिक्लिदिषः-चिक्लेदिषः-चिक्लित्सः, चेक्लिदः;
क्लेदितुम्-क्लेत्तुम्, क्लेदयितुम्, चिक्लिदिषितुम्-चिक्लेदिषितुम्-चिक्लित्सितुम्, चेक्लिदितुम्;
विक्लित्तिः, क्लेदना, चिक्लिदिषा-चिक्लेदिषा-चिक्लित्सा, चेक्लिदा;
क्लेदनम्, क्लेदनम्, चिक्लिदिषणम्-चिक्लेदिषणम्-चिक्लित्सनम्, चेक्लिदनम्;
3 क्लिदित्वा-क्लेदित्वा-क्लित्त्वा, क्लेदयित्वा, चिक्लिदिषित्वा-चिक्लेदिषित्वा-चिक्लित्सित्वा; चेक्लिदित्वा,
विक्लिद्य, विक्लेद्य, विचिक्लिदिष्य-विचिक्लेदिष्य-विचिक्लित्स्य, विचेक्लिद्य;
क्लेदम् 2, क्लिदित्वा 2- क्लेदित्वा 2 -क्लित्त्वा 2, क्लेदम् 2, क्लेदयित्वा 2, चिक्लिदिषम् 2 -चिक्लिदिषित्वा 2 -चिक्लेदिषम् 2 -चिक्लित्सम् 2, चिक्लेदिषित्वा 2 -चिक्लित्सित्वा 2, चेक्लिदम् 2; चेक्लिदित्वा 2.
Footnote 1. ‘रलोव्युपधाद्धलादेः संश्च’ (1-2-26) इति सनः कित्त्वविकल्पः । कित्त्वा-
भावे गुणः । कित्त्वपक्षे गुणाभावः ।
Footnote 2. ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति इड्विकल्पः । इडभाव-
पक्षे ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । एवं सन्नन्ते सर्वत्र रूपत्रयं
बोध्यम् ।
Footnote 3. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनो ङिद्वद्भावात् आङ्गस्य गुणाभावः ।
Footnote A. नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्युद्रजं
क्ष्विद्यन् ऋद्धिमघृध्नवेऽपि स विमृश्याक्षीयमाणां ददौ ॥’ धा. का. 2-67.
क्लिद्यन् आर्द्रीभवन्-इत्यर्थः ।
Footnote 4. ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (7-2-15) इति निष्ठायां इण्णिषेधः ।
‘रदाभ्यां निष्ठातो नः—’ (8-2-42) इति निष्ठानत्वम् ।
Footnote 1. ‘इगुपधज्ञाप्रीकिरः कः—’ (3-1-135) इति कर्तरि कः प्रत्ययः ।
Footnote 2. ‘घञर्थे कविधानम्—’ (वा. 3-3-58) इति कः ‘द्वित्वप्रकरणे के कृञादीनाम्—’
(वा. 6-1-1.) इति द्वित्वम् । चिक्लिदो = रसभेदः ।
Footnote 3. ऊदित्त्वादिड्विकल्पः । कित्त्वपक्षे न गुणः । कित्त्वाभावपक्षे गुणः । इडभावपक्षे
‘क्लित्त्वा’ इति रूपम् ।
स्यन्दते
स्यन्द् स्यन्दूँ प्रस्रवणे भ्वादिः आत्मनेपदी अकर्मकः वेट् to ooze to drip to trickle
स्यन्दू [Printed book page 1398]
(1972) “स्यन्दू प्रस्रवणे” (I-भ्वादिः-761. अक. वेट्. आत्म.)
अर्थभेदेन सकर्मकोऽकर्मकोऽपि कविभिः प्रयुज्यते । स्यन्दकः-न्दिका, स्यन्दकः-
न्दिका, सिस्यन्त्सकः-न्त्सिका, सिस्यन्दिषकः-षिका, सास्यन्दकः-न्दिका;
इत्यादिकानि रूपाणि सर्वाण्यपि कृपूधातुवत् (252) ज्ञेयानि; प्रातिस्विक-
रूपाणि विना । ऊदित्त्वात् ‘स्वरतिसूति—’ (7-2-44) इत्यादिना वलादेरार्ध-
[Page1399+ 30]
धातुकस्य इड्विकल्पः । स्यन्दिता- 1 स्यन्ता इति । 2 स्यन्दित्वा-स्यन्त्वा, 3 स्यन्नः, 4 स्यन्दनः, 5 अनुष्यन्दमानः, A विष्यन्दमानः, परिष्यन्दमानः, अभिष्यन्दमानः,
निष्यन्दमानः, अनुस्यन्दमानः, विस्यन्दमानः, परिस्यन्दमानः, अभिस्यन्दमानः,
निस्यन्दमानः, णिनिप्रत्यये B निष्यन्दी, 6 स्यदः, अश्वस्यदः, गोस्यदः, 7 स्यन्त्स्यन्, 8 सिन्धुः, स्यन्दम् 2 - C स्यन्त्वा 2, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण
भवन्तीति ज्ञेयम् ।
Footnote 1. ऊदित्त्वात् इड्विकल्पः । इडभावपक्षे धातुदकारस्य चर्त्वेन तकारः । तस्य ‘झरो
झरि—’ (8-4-65) इति पाक्षिको लोपः । एवं तव्यदादिष्वपि बोध्यम् ।
Footnote 2. ऊदित्वात् इड्विकल्पः । इडभावपक्षे ‘क्त्वि स्कन्दिस्यन्दोः’ (6-4-31) इति
नलोपो निषिध्यते । ‘न क्त्वा सेट्’ (1-2-18) इति सेटः क्त्वायाः कित्त्वनिषेधात्
उपधानकारलोपो न ।
Footnote 3. निष्ठायाः ‘यस्य विभाषा’ (7-2-15) इत्यनिट्त्वम् । निष्ठातकारधातुदकारयोः नत्वम् ।
Footnote 4. ‘अनुदात्तेतश्च—’ (3-2-149) इति युच्प्रत्ययः ।
Footnote 5. ‘अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु’ (8-3-72) इति सकारस्य विकल्पेन
मूर्द्धन्यादेशः । अनुस्यन्दमानः मत्स्यः, जलं वा । अत्र न षत्वम् ।
‘अप्राणिषु’ (8-3-72) इत्युक्तेः ।
Footnote A. ‘विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान् ।’ भ. का. 9-74.
Footnote B. ‘सायं शशाङ्ककिरणाहतचन्द्रकान्त-
निष्यन्दिनीरनिकरेण कृताभिषेकाः ।’ शि. व. 4-58.
Footnote 6. ‘स्यदो जवे’ (6-4-28) इति जवेऽभिधेये घञ् नलोपो वृद्ध्यभावश्च निपात्यते ।
अन्यत्र घृतस्यन्दः इत्येव; न नलोपादिकम् ।
Footnote 7. ‘वृद्भ्यः स्यसनोः’ (1-3-92) इति परस्मैपदं वा । ‘न वृद्भ्यः चतुर्भ्यः’
(7-2-59) इतीण्निषेधः ।
Footnote 8. औणादिके (द. उ. 1-96) उप्रत्यये संप्रसारणे च रूपमेवम् । स्यन्दतेऽत्यर्थमिति
सिन्धुः = समुद्रः, नदविशेषश्च ।
Footnote C. ‘स्यन्त्वा स्यन्त्वा दिवश्शम्भोः मूर्ध्नि स्कन्त्वा भुवं गतम् ।’ भ. का. 22-11. [ID=1971]
सेधति
सिध् षिधूँ शास्त्रे माङ्गल्ये च भ्वादिः परस्मैपदी सकर्मकः वेट् to rule to be auspicious
षिधू
षिधू [Printed book page 1344]
(1837) “षिधू शास्त्रे माङ्गल्ये च”
(I-भ्वादिः-48. अक. सेट्. पर.)
देवश्लोकः सेधतौ द्रष्टव्यः । ऊदित्त्वादिड्विकल्पः । शास्त्रम् = शासनम्,
माङ्गल्यम् = मङ्गलार्थक्रिया । समस्तान्यपि रूपाणि भौवादिकसेधतिवत् (1835)
बोध्यानि । [ID=1836]
गोपायति
गुप् गुपूँ रक्षणे भ्वादिः परस्मैपदी सकर्मकः वेट् to protect to hide to conceal
गुपू
गुपू [Printed book page 0399]
(411) “गुपू रक्षणे” (I-भ्वादिः-395. सक. वेट्. पर.)
‘णौ गोपयति भाषा(सा)थें निन्दायां से जुगुप्सते ।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति ॥’ (श्लो. 129) इति देवः । 1 गोपायकः A -यिका-गोपकः-गोपिका, 2 गोपायकः-पिका-गोपकः-पिका, 3 जुगोपायिषकः-जुगोपिषकः-जुगुपिषकः-षिका-जुगुप्सकः-प्सिका, 4 जोगुपकः-पिका;
गोपायिता- 5 गोपिता-गोप्ता-त्री, गोपाययिता-गोपयिता-त्री, जुगोपायिषिता-
जुगोपिषिता-जुगुपिषिता-जुगुप्सिता-त्री, जोगुपिता-त्री; 6 गोपायन् B -न्ती, गोपायन्-गोपयन्-न्ती, जुगोपायिषन्-जुगोपिषन्-जुगुपिषन्-जुगुप्सन्-न्ती; –
गोपायिष्यन्-गोपिष्यन्-न्ती-ती, गोपाययिष्यन्-गोपयिष्यन्-न्ती-ती,
जुगोपायिषिष्यन्-जुगोपिषिष्यन्-जुगुपिषिष्यन्-जुगुप्सिष्यन्-न्ती-ती; –
— गोपाययमानः-गोपयमानः, — जोगुप्यमानः;
— गोपाययिष्यमाणः, गोपयिष्यमाणः, जोगुपिष्यमाणः; 7 गोपाः-गोपौ-गौपाः, — गुप्-गुब्-गुपौ-गुपः; –
[Page0400+ 26]
गोपायितम्-तः 1 गुप्तम्-गुप्तः-गुप्तवान्, 2 मनसागुप्ता, गोपायितः-गोपितः,
जुगोपायिषितः-जुगोपिषितः-जुगुपिषितः-जुगुप्सितः, जोगुपितः-तवान्;
गोपायः-गुपः, 3 शालिगोपः- A शालिगोपी, गोपायः-गोपः, जुगोपायिषुः-जुगोपिषुः-जुगुपिषुः-जुगुप्सुः, जोगुपः;
गोपायितव्यम्-गोपितव्यम्-गोप्तव्यम्, गोपाययितव्यम्-गोपयितव्यम्,
जुगोपायिषितव्यम्-जुगोपिषितव्यम्-जुगुपिषितव्यम्-जुगुप्सितव्यम्, जोगुपितव्यम्;
गोपायनीयम्-गोपनीयम्, गोपायनीयम्-गोपनीयम्, जुगोपायिष-
णीयम्-जुगोपिषणीयम्-जुगुपिषणीयम्-जुगुप्सनीयम्, जोगुपनीयम्;
गोपाय्यम्-गोप्यम्- 4 कुप्यम् B, गोपाय्यम्-गोप्यम्, जुगोपायिष्यम्-जुगो-
पिष्यम्-जुगुप्स्यम्, जोगुप्यम्;
ईषद्गोपायः-दुर्गोपायः-सुगोपायः, ईषद्गोपः-दुर्गोपः-सुगोपः; –
गोपाय्यमानः-गुप्यमानः, गोपाय्यमानः-गोप्यमानः, जुगोपायिष्य-
माणः-जुगोपिष्यमाणः-जुगुपिष्यमाणः-जुगुप्स्यमानः, जोगुप्यमानः;
गोपायः-गोपः, गोपायः-गोपः, जुगोपायिषः-जुगोपिषः-जुगुपिषः-जुगुप्सः, जोगुपः;
गोपायितुम्-गोपितुम्-गोप्तुम्, गोपाययितुम्-गोपयितुम्, जुगोपायिषितुम्-
जुगोपिषितुम्-जुगुपिषितुम्-जुगुप्सितुम्-जोगुपितुम्;
[Page0401+ 24]
गोपाया- 1 गुप्तिः, गोपायना-गोपना, जुगोपायिषा-जुगोपिषा-जुगुपिषा-जुगुप्सा-जोगुपा;
गोपायनम्- 2 प्रगोपणम् A -प्रगोपनम्, गोपायनम्-गोपनम्, जुगोपायिषणम्-
जुगोपिषणम्-जुगुपिषणम्-जुगुप्सनम्, जोगुपनम्;
प्रगोपायित्वा- 3 गोपित्वा-गुप्त्वा, गोपाययित्वा-गोपयित्वा, जुगोपायिषित्वा-
जुगोपिषित्वा-जुगुपिषित्वा-जुगुप्सित्वा, जोगुपित्वा;
प्रगोपाय्य-प्रगुप्य, प्रगोपाय्य-प्रगोप्य, प्रजुगोपायिष्य-प्रजुगोपिष्य-प्रजुगुपिष्य-
प्रजुगुप्स्य, प्रजोगुप्य;
गोपायम् 2 -गोपम् 2, गोपायित्वा 2 -गोपित्वा-गुप्त्वा 2, गोपायम् 2 -गोपम् 2, गोपाययित्वा 2 -गोपयित्वा 2,
जुगोपायिषम् 2 -जुगोपिषम् 2, -जुगुपिषम् 2 -जुगुप्सम् -2, जोगुपम् 2;
जुगोपायिषित्वा 2-जुगोपिषित्वा 2, -जुगुपिषित्वा 2 -जुगुप्सित्वा- 2, जोगुपित्वा 2.
Footnote 1. ‘गुप्धूपविच्छिपणिपनिभ्य आयः’ (3-1-28) इति विहित आयप्रत्ययः,
‘आयादय आर्धधातुके वा’ (3-1-31) इत्यनेन, आर्धधातुके विकल्पितः । अतो
रूपद्वयम् । एवमार्धधातुके सर्वत्र ज्ञेयम् ।
Footnote A. ‘आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विंमानैर्द्यौराचिता तारकितेव रेजे ॥’ किरातार्जुनीये 18-18.
Footnote 2. ण्यन्ताण्ण्वुलि, ‘णेरनिटि’ (6-4-51) इति णिलोपे रूपम् । णिजन्ते सर्वत्र आय-
प्रत्ययविकल्पः ।
Footnote 3. आयप्रत्ययान्तात् सनि इदं रूपम् । आयप्रत्ययाभावे ऊदित्त्वादिड्विकल्पे, ‘रलो
व्युपधात्—’ (1-2-26) इति सनः कित्त्वविकल्पे च रूपत्रयम् । एवं सन्नन्ते सर्वत्र ।
Footnote 4. आर्धधातुकविवक्षायामायप्रत्ययस्य वैकल्पिकत्वात्, आयप्रत्ययान्तस्यानेकाच्त्वान्न
यङ् । आयाभावे तु—‘जोगुपकः’ इत्यादिरूपाणि यङन्ताल्लिखितानि ।
Footnote 5. ऊदित्त्वात् ‘स्वरतिसूति—’ (7-2-44) इत्यादिना इङ्विकल्पः । आयप्रत्ययाभावपक्षे
एवं तव्यदादिषु ज्ञेयम् ।
Footnote 6. शतुः सार्वधातुकत्वान्नित्यमायादेशः ।
Footnote B. ‘वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतात् अगुर्गृहान् ।
गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे ॥’ धा. का. 1-51.
Footnote 7. क्विपि, अल्लोपयलोपयोः सोः रुत्वविसर्गौ । आयाभावे ‘गुप्’ इति रूपम् ।
Footnote 1. आयाभावपक्षे—ऊदित्त्वात् विकल्पितेट्कत्वेन निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15)
इति निषेधादिडागमो न ।
Footnote 2. ‘मनसः संज्ञायाम्’ (वा. 6-3-3) इति तृतीयाया अलुक् ।
Footnote 3. ‘कर्मण्यण्’ (3-2-1) इत्यणि शालिगोप इति रूपम् । स्त्रियां टित्त्वेन ङीपि
शालिगोपी ।
Footnote A. ‘इक्षुच्छायनिषादिन्यस्तस्य गोष्तुर्गुणोदयम् ।
आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः ॥’ रघुवंशे 4-20.
Footnote 4. ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (3-1-114) इति सूत्रेण सुवर्ण-
रजतादिभिन्ने धने बोध्ये क्यपि, गुपेरादेः ककारादेशश्च निपातितः ।
Footnote B. ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः ।
रत्नान्नपानकुप्यानामाटतुर्नष्टसंस्मृती ॥’ भ. का. 6-58.
Footnote 1. स्त्रियां भावादौ ‘अ प्रत्ययात्’ (3-3-102) इति आयप्रत्ययान्तादकार प्रत्ययः ।
आयाभावपक्षे-‘तितुत्र—’ (7-2-9) इतीण्णिषेधे रूपम् ।
Footnote 2. ‘हलश्चेजुपधात्’ (8-4-31) इति वा णत्वम् ।
Footnote A. ‘कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः ।
शक्तो जगति शक्रोऽपि कर्तुमायुःप्रगोपणम् ॥’ भ. का. 9-105.
Footnote 3. आयप्रत्ययाभावपक्षे ऊदित्त्वेनेड्विकल्पात्, इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति
कित्त्वनिषेधात् गुणः । [ID=411]
त्रपते
त्रप् त्रपूँष् लज्जायाम् भ्वादिः आत्मनेपदी अकर्मकः वेट् to be ashamed to be abashed to be embarrassed to shy
त्रपूष् [Printed book page 0702]
(787) “त्रपूष् लज्जायाम्” (I-भ्वादिः. 374. अक. वेट्. आत्म.)
घटादिः ।
त्रापकः-पिका, 1 त्रपकः-पिका, 2 त्रापकः-पिका, 3 तित्रपिषकः-षिका,
[Page0703+ 25]
तित्रप्सकः-प्सिका, 1 तात्रपकः-पिका;
त्रपिता-त्रप्ता-त्री, त्रपयिता-त्री, तित्रपिषिता-तित्रप्सिता-त्री, तात्रपिता-त्री;
— त्रपयन्-न्ती, त्रपयिष्यन्-न्ती-ती; — –
त्रपमाणः, त्रपयमाणः, तित्रपिषमाणः-तित्रप्समानः, तात्रप्यमानः;
त्रपिष्यमाणः-त्रप्स्यमानः, त्रपयिष्यमाणः, तित्रपिषिष्यमाणः-तित्रप्सिष्यमाणः, तात्रपिष्यमाणः;
त्रपू-त्रपौ-त्रपः; — — – 2 त्रप्तम्-त्रप्तः-त्रप्तवान्, त्रपितः, तित्रपिषितः-तित्रप्सितः, तात्रपितः-तवान्;
त्रपः, 3 अपत्रपिष्णुः A, 4 त्रेपिवान्, त्रपः, तित्रपिषुः-तित्रप्सुः; तात्रपः;
त्रपितव्यम्-त्रप्तव्यम्, त्रपयितव्यम्, तित्रपिषितव्यम्-तित्रप्सितव्यम्, तात्रपितव्यम्;
त्रपणीयम्, त्रपणीयम्, तित्रपिषणीयम्-तित्रप्सनीयम्, तात्रपणीयम्; 5 त्राप्यम्, त्रप्यम्, तित्रपिष्यम्-तित्रप्स्यम्, तात्रप्यम्;
ईषत्त्रपः-दुस्त्रपः-सुत्रपः; — –
त्रप्यमाणः, त्रप्यमाणः, तित्रपिष्यमाणः-तित्रप्स्यमानः, तात्रप्यमाणः;
त्रापः, त्रपः, तित्रपिषः-तित्रप्सः, तात्रपः;
त्रपितुम्-त्रप्तुम्, त्रपयितुम्, तित्रपिषितुम्-तित्रप्सितुम्, तात्रपितुम्; 6 त्रपा, त्रपणा, तित्रपिषा-तित्रप्सा, तात्रपा;
त्रपणम्, त्रपणम्, तित्रपिषणम्-तित्रप्सनम्, तात्रपणम्;
त्रपित्वा-त्रप्त्वा, त्रपयित्वा, तित्रपिषित्वा-तित्रप्सित्वा, तात्रपित्वा;
[Page0704+ 25]
अपत्रप्य, 1 अपत्रपय्य, प्रतित्रपिष्य-प्रतित्रप्स्य, प्रतात्रप्य;
त्रापम् 2, त्रपित्वा 2, त्रप्त्वा 2, 2 त्रपम् 2 -त्रापम् 2, त्रपयित्वा 2, तित्रपिषम् 2 -तित्रप्सम् 2, तित्रपिषित्वा 2 -तित्रप्सित्वा 2, तात्रपम् 2; तात्रपित्वा 2; 3 त्रपु.
Footnote 1. भोजमतेनास्य धातोः घटादिषु पाठः । तदानीं ‘घटादयो मितः’ (ग. सू. भ्वादौ)
इति मित्त्वात्, ‘मितां ह्रस्वः’ (6-4-92) इति णौ उपधाह्रस्वः । एवं ण्यन्ते
सर्वत्र ज्ञेयम् ।
Footnote 2. भोजाद् अन्येषां सर्वेषां मतेनास्य धातोः घटादिपाठो न । तदानीं मित्त्वा-
भावेनोपधाह्रस्वाभावे रूपमेवम् । एवं तृजादिष्वपि त्रापयिता-त्री इत्यादीनि
रूपाण्यूह्यानि ।
Footnote 3. ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति बलाद्यार्धधातुकेषु
इड्विकल्पः । इट्पक्षे रूपमेवम् । इडभावपक्षे तित्रप्सकः इत्यादीनि रूपाणि,
इति ज्ञेयम् । तव्यदादिप्रत्ययेष्वप्येवमिड्विकल्पो ज्ञेयः ।
Footnote 1. यङन्ते, ‘दीर्घोऽकितः’ (7-4-83) इत्यभ्यासस्य दीर्घः । एवं सर्वत्र ज्ञेयम् ।
Footnote 2. ऊदित्त्वेनेड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (7-2-15) इति इण्णिषेधः ।
Footnote 3. ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु—’ (3-2-136) इत्यादिना
तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु कर्तरि इष्णुच् प्रत्ययः ।
Footnote A. ‘पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः’ । शि. व. 8. 46.
Footnote 4. क्वसुप्रत्यये, ‘तॄफलभजत्रपश्च’ (6-4-122) इत्येत्वाभ्यासलोपे च रूपम् । ‘पपुष
आगतम्—पपिवद्रूप्यम्’ इति ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (4-3-24) इति
सूत्रे भाष्यकारप्रयोगात् छन्दसि विहितोऽपि क्वसुः भाषायामपि क्वचिद् भवति ।
Footnote 5. ‘आसुयुवपिरपित्रपिचमश्च’ (3-1-126) इति यदपवादो ण्यत् ।
Footnote 6. धातोरस्य षित्त्वात् स्त्रियाम्, ‘षिद्भिदादिभ्योऽङ्’ (3-3-104) इत्यङ् भावे ।
Footnote 1. ण्यन्ताल्ल्यपि, ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः ।
Footnote 2. ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (6-4-93) इति णमुल्परे णौ दीर्घविकल्पः ।
Footnote 3. ‘श्रॄस्वृस्निहित्रपि—’ [द. उ. 1-95] इत्यादिना उप्रत्ययः । अग्निं दृष्ट्वा त्रपते =
लज्जते इव इति त्रपु = सीसम् । [ID=787]
कल्पते
कृप् कृपूँ सामर्थ्ये भ्वादिः आत्मनेपदी अकर्मकः वेट् to be able to be capable to be powerful
कृपू [Printed book page 0250]
(252) “कृपू सामर्थ्ये” (I-भ्वादिः-762-अक. वेट्. आत्म.) वृतादिः ।
सामर्थ्यम् = शक्तिः, योग्यता वा ।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने ।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति ॥’ (श्लो. 135) इति देवः । 1 कल्पकः-ल्पिका, कल्पकः-ल्पिका, 2 चिकॢप्सकः-प्सिका, 3 चलीकॢपकः-पिका; 4 कल्पिता-कल्प्ता-त्री, कल्पयिता-त्री, चिकॢप्सिता-त्री, चलीकॢपिता-त्री;
— कल्पयन्-न्ती, 5 चिकॢप्सन्-न्ती; – 6 कल्प्स्यन्-न्ती-ती, कल्पयिष्यन्-न्ती-ती, चिकॢप्सिष्यन्-न्ती-ती; –
कल्पमानः, कल्पयमानः, 7 चिकल्पिषमाणः-चिकॢप्समानः, चलीकॢप्यमानः;
कल्पिष्यमाणः कल्प्स्यमानः कल्पयिष्यमाणः, चिकल्पिषिष्यमाणः चिकॢप्सिष्यमाणः चलीकॢपिष्यमाणः;
सुकॢप्-सुकॢपौ-सुकॢपः; — — –
[Page0251+ 20]
1 कॢप्तम् A -कॢप्तः-कॢप्तवान्, कल्पितः, चिकॢप्सितः, चलीकॢपितः-तवान्; 2 कॢपः, 3 कल्पनः, कल्पः, चिकॢप्सुः, चलीकॢपः;
कल्पितव्यम्-क्ल्प्तव्यम्, कल्पयितव्यम्, चिकॢप्सितव्यम्, चलीकॢपितव्यम्;
कल्पनीयम्, कल्पनीयम्, चिकॢप्सनीयम्, चलीकॢपनीयम्; 4 कल्प्यम्, कल्प्यम्, चिकॢप्स्यम्, चलीकॢप्यम्;
ईषत्कल्पः-दुष्कल्पः-सुकल्पः; — — –
कॢप्यमानः, कल्प्यमानः, चिकॢप्स्यमानः-चिकल्पिष्यमाणः, चलीकॢप्यमानः;
कल्पः विकल्पः, कल्पः, चिकॢप्सः, चलीकॢपः;
कल्पितुम्-कल्प्तुम्, कल्पयितुम्, चिकॢप्सितुम्, चलीकॢपितुम्;
कॢप्तिः, कल्पना, चिकॢप्सा, चलीकॢपा;
कल्पनम्, कल्पनम्, चिकॢप्सनम्, चलीकॢपनम्; 5 कल्पित्वा-कॢप्त्वा, कल्पयित्वा, चिकॢप्सित्वा, चलीकॢपित्वा;
प्रकॢप्य, प्रकल्प्य, प्रचिकॢप्स्य, प्रचलीकॢप्य;
कल्पम् 2, कल्पित्वा-कॢप्त्वा 2, कल्पम् 2, कल्पयित्वा, 2, चिकॢप्सम् 2, चिकॢप्सित्वा 2, चलीकॢपम् 2; चलीकॢपित्वा 2; 6 कृपणः.
Footnote 1. ‘कृपो रो लः’ (8-2-18) इति लत्वम् ।
Footnote 2. ऊदिल्लक्षणमिड्विकल्पं बाधित्वा, ‘तासि च कॢपः’ (7-2-60) इति नित्यमि-
ण्णिषेधः । ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वान्न गुणः । यद्यपि धातु-
रूपप्रकाशिकायां अस्माद् धातोः सन्नन्तात् तव्यदादिषु ‘चिकल्पिषितव्यम्
चिकॢप्सितव्यम्’ इति वैकल्पिकेड्घटितानि रूपाणि प्रदर्शितानि; तथापि
‘तासि च कॢपः’ (7-2-60) इत्यत्र ‘परस्मैपदेषु’ इत्यनुवर्तमानस्य पदस्य
‘तङानयोरभावे’ इत्यर्थकतया नित्यमिण्णिषेधेन भाव्यम् । ‘स्वरतिसूति—’
(7-2-44) इत्यादिना प्राप्तं वैकल्पिकेडागमं ‘तासि च कॢपः’ (7-2-60) इति
निषेधः बाधत एवेति, इडभावघटितरूपमेव साधु—इति प्रतिभाति । एवं सन्नन्ते
सर्वत्र ज्ञेयम् ।
Footnote 3. ‘रीगृदुपधस्य च’ (7-4-90) इति अभ्यासस्य रीगागमः । उभयत्र लत्वम् ।
Footnote 4. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति ऊदित्त्वादिड्विकल्पः ।
Footnote 5. ‘लुटि च कॢपः’ (1-3-93) इति परस्मैपदविकल्पः ।
Footnote 6. ‘लुटि च कॢपः’ (1-3-93) इति स्यप्रत्यये विवक्षिते परस्मैपदविकल्पः ।
Footnote 7. ‘तासि च कॢपः’ (7-2-60) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य, ‘तङानयोरभावे’
इत्यर्थकत्वात्, अत्र ‘स्वरतिसूति—’ (7-2-44) इत्यादिना इड्विकल्पः । एवं
सन्नन्तात् यक्यपि ज्ञेयम् ।
Footnote 1. ऊदित्त्वादिटो वैकल्पिकत्वेन, ‘यस्य विभाषा’ (7-2-15) इति निष्ठायामिण्णिषेधः ।
Footnote A. ‘अशर्धनैर्गोपकुलैस्सहासौ ययौ कृवास्यन्दसुकॢप्तमोदैः ॥’ धा. का. 2-3.
Footnote 2. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कः ।
Footnote 3. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति तच्छीलादिषु कर्तृषु युच् ।
Footnote 4. ‘ऋदुपधाच्चाकॢपि—’ (3-1-110) इति पर्युदासात् ण्यत्प्रत्यय एव ।
Footnote 5. इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद् गुणः ।
Footnote 6. बाहुलकादौणादिके क्युन्प्रत्ययेऽनादेशे रूपम् । कित्त्वान्न गुणः । किञ्चिदपि यो न
ददाति स एवमुच्यते । [ID=252]
क्षाम्यति
क्षम् क्षमूँ सहने दिवादिः परस्मैपदी सकर्मकः वेट् to endure to suffer to tolerate to forgive
क्षमू [Printed book page 0311]
(298) “क्षमू सहने” (IV-दिवादिः-1206. सक. वेट्. पर.)
‘अषितः क्षाम्यति, क्षान्तिः क्षमूषः क्षमते क्षमा’ । (श्लो-146) इति देवः ।
अषित् । शमादिः । मित् । 1 क्षमकः-मिका, 2 क्षमकः-मिका, 3 चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका; 4 5 क्षमिता-क्षन्ता-त्री, क्षमयिता-त्री, चिक्षमिषिता-चिक्षंसिता-त्री, चङ्क्षमिता-त्री; 6 क्षाम्यन्-न्ती, क्षमयन्-न्ती, चिक्षमिषन्-चिक्षंसन्-न्ती; –
क्षमिष्यन्-क्षंस्यन्-न्ती-ती, क्षमयिष्यन्-न्ती-ती, चिक्षमिषिष्यन्-न्ती-ती, चिक्षंसिष्यन्-न्ती-ती; 7 व्यतिक्षाम्यमाणः, क्षमयमाणः, — चङ्क्षम्यमाणः;
व्यतिक्षमिष्यमाणः- व्यतिक्षंस्यमानः, क्षमयिष्यमाणः, चङ्क्षमिष्यमाणः; 8 विक्षान्-विक्षामौ-विक्षामः; — –
[Page0312+ 22]
1 क्षान्तम्-न्तः-क्षान्तवान्, क्षमितः, चिक्षमिषितः-चिक्षंसितः, चङ्क्षमितः-तवान्;
क्षमः, 2 क्षमी, 3 द्बन्द्वक्षमा, क्षमः, चिक्षमिषुः-चिक्षंसुः, चङ्क्षमः;
क्षमितव्यम्-क्षन्तव्यम्, क्षमयितव्यम्, चिक्षमिषितव्यम्-चिक्षंसितव्यम्, चङ्क्षमितव्यम्;
क्षमणीयम्, क्षमणीयम्, चिक्षमिषणीयम्-चिक्षंसनीयम्, चङ्क्षमणीयम्; 4 क्षम्यम् A, क्षम्यम्, चिक्षमिष्यम्-चिक्षंस्यम्, चङ्क्षम्यम्;
ईषत्क्षमः-दुःक्षमः-सुक्षमः; — — –
क्षम्यमाणः, क्षम्यमाणः, चिक्षमिष्यमाणः-चिक्षंस्यमानः, चङ्क्षम्यमाणः; B क्षमः, क्षमः, चिक्षमिषः-चिक्षंसः, चङ्क्षमः;
क्षमितुम्-क्षन्तुम्, क्षमयितुम्, चिक्षमिषितुम्-चिक्षंसितुम्, चङ्क्षमितुम्; 5 क्षान्तिः, क्षमणा, चिक्षमिषा-चिक्षंसा, चङ्क्षमा;
क्षमणम्, क्षमणम्, चिक्षमिषणम्-चिक्षंसनम्, चङ्क्षमणम्;
क्षमित्वा-क्षान्त्वा, क्षमयित्वा, चिक्षमिषित्वा-चिक्षंसित्वा, चङ्क्षमित्वा;
प्रक्षम्य, 6 प्रक्षमय्य, प्रचिक्षमिष्य-प्रचिक्षंस्य, प्रचङ्क्षम्य;
क्षमम् 2, क्षमित्वा-क्षान्त्वा 2, 7 क्षमम्-क्षामम् 2, क्षमयित्वा 2, चिक्षमिषम् 2 -चिक्षंसम् 2, चिक्षमिषित्वा- 2, चिक्षंसित्वा 2, चङ्क्षमम् 2; चङ्क्षमित्वा 2.
[Page0313+ 24]
Footnote 1. ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (7-3-34) इति वृद्धिनिषेधः ।
Footnote 2. ‘अत उपधायाः’ (7-2-116) इति णौ वृद्धिः । तस्य ‘मितां—’ (6-4-92)
इति ह्रस्वः । ‘जनीजॄष्—’ (गणसूत्रं भ्वादौ) इत्यनेन अमन्तत्वेन मित्त्वम् ।
Footnote 3. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वा इट् ।
Footnote 4. ‘नुगतोऽनुनासिकान्तस्य’ (7-4-85) इत्यभ्यासस्य नुक् ।
Footnote 5. ऊदित्त्वात् इड्विकल्पः । एवं तव्यदादिषु ज्ञेयम् ।
Footnote 6. ‘दिवादिभ्यः—’ (3-1-69) इति श्यन् । ‘शमामष्टानां दीर्घः श्यनि’ (7-3-74)
इति दीर्घः ।
Footnote 7. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इत्यात्मनेपदे शानच् । ‘अट्कुप्वाङ्नुम्व्य-
बायेऽपि’ (8-4-2) इति णत्वम् ।
Footnote 8. ‘अनुनासिकस्य क्विझलोः क्ङिति’ (6-4-15) इति दीर्घः । ‘मो नो धातोः’
(8-2-64) इति नकारः । ‘पदान्तस्य’ (8-4-37) इति णत्वनिषेधः ।
Footnote 1. ऊदित्त्वेन वैकल्पिकेट्त्वात् ‘यस्य विभाषा’ (7-2-15) इति निष्ठाया इण्णिषेधः ।
दीर्घः ।
Footnote 2. ‘शमित्यष्टाभ्यो घिनुण्’ (3-2-141) इति ताच्छीलिको घिनुण् ।
Footnote 3. ‘ईक्षिक्षमिभ्यां च’ (वा. 3-2-1) इति कर्मण्युपपदे णः । स्त्रियां टाप् ।
‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा ।
तदनुप्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी ॥’ इति प्र. सर्वस्वे ।
Footnote 4. ‘पोरदुपधात्’ (3-1-98) इति यत् ।
Footnote A. ‘अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दशाननः ॥’ भ. का. 9-26.
Footnote B. ‘यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।’ कुमारसंभवे 1-17.
Footnote 5. ‘तितुत्र—’ (7-2-9) इत्यादिना इण्णिषेधः । दीर्घः ।
Footnote 6. ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः ।
Footnote 7. ण्यन्ताण्णमुलि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (6-1-93) इति दीर्घो वा । [ID=298]
क्षमते
क्षम् क्षमूँष् सहने भ्वादिः आत्मनेपदी सकर्मकः वेट् to endure to suffer to forgive
क्षमूष्
क्षमूष् [Printed book page 0313]
(299) “क्षमूष् सहने” (I-भ्वादिः-442. सक. सेट्. आत्म.)
‘अषितः क्षाम्यति क्षान्तिः, क्षमूषः क्षमते क्षमा ।’ (श्लो. 146) इति देवः ।
क्षमकः-मिका, क्षमकः-मिका, चिक्षमिषकः-षिका, चिक्षंसकः-सिका, चङ्क्षमकः-मिका;
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितक्षमूधातुवत् (298) ज्ञेयानि ।
षित्त्वादस्य धातोः ‘षिद्भिदादिभ्यः-’ (3-3-104) इत्यङ् स्त्रियाम्- A क्षमा ।
अस्यात्मनेपदित्वात् 1 क्षममाणः, क्षमिष्यमाणः, क्षंस्यमानः, क्षमयमाणः,
चिक्षमिषमाणः-चिक्षंसमाणः, चिक्षमिषिष्यमाणः, चिक्षंसिष्यमाणः, चङ्क्षम्य-
माणः, चङ्क्षमिष्यमाणः इत्यादीनि रूपाणि शानचीति, विशेषः । ‘क्षन्तिः’
इति क्तिचि, ‘न क्तिचि दीर्घश्च’ (6-4-39) इति दीर्घनिषेधात् । अमन्तत्वेन
ण्यन्ते मित्त्वम् । तेन क्षमं 2 -क्षामम् 2, इति रूपद्वयम् । ‘चिण्णमुलोः—’
इति (6-3-93) दीर्घविकल्पः ।
Footnote A. ‘ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।’ रघुवंशे–1-22.
‘पणाय्यरूपाः पनिताकृतीन् ययुः भामिन्य एवाक्षमया स्वकामुकान् ॥’ धा. का. 1-57.
Footnote 1. भौवादिकत्वाद्धातोः ‘कर्तरि शप्’ (3-1-68) इति शप् । [ID=299]
अश्नुते
अश् अशूँ व्याप्तौ सङ्घाते च स्वादिः आत्मनेपदी सकर्मकः वेट् to pervade to heap to pile up
अशू [Printed book page 0047]
(49) “अशू व्याप्तौ सङ्घाते च” (V-स्वादिः-1264-सक-वेट्-आ)
‘व्याप्तावश्नुत इत्याहुरश्नातीति तु भोजने ।’ इति देवः (166)
आशकः-शिका, आशकः-शिका, 4 अशिशिषकः-षिका, 5 अशाशकः-शिका; 6 अष्टा-ष्ट्री, अशिता-त्री, आशयिता-त्री, अशिशिषिता-त्री, अशाशिता-त्री;
— आशयन्-न्ती, आशयिष्यन्-न्ती-ती; 7 अश्नुवानः, A आशयमानः, 8 अशिशिषमाणः, अशाश्यमानः;
अशिष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः
अक्ष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः
अट्-अशौ-अशः; — — – 9 अष्टम्-ष्टः-ष्टवान् 7 आशितम्-तः, अशिशिषितः, अशाशितः-तवान्;
अशः, आशः, अशिशिषुः, आशिशयिषुः, अशाशः 10;
[Page0048+ 24]
अशितव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्;
अष्टव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्;
अशनीयम्, आशनीयम्, अशिशिषणीयम्, अशाशनीयम्;
आश्यम्, आश्यम्, अशिशिष्यम्, अशाश्यम्;
ईषदशः-दुरशः-स्वशः, — –
अश्यमानः, आश्यमानः, अशिशिष्यमाणः, अशाश्यमानः;
आशः, आशः, अशिशिषः, अशाशः;
अशितुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्;
अष्टुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्;
अष्टिः, आशना, अशिशिषा, आशिशयिषा, अशाशा 1;
अशनम्, आशनम्, अशिशिषणम्, अशाशनम्;
अशित्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा;
अष्ट्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा;
समश्य, प्राश्य, प्राशिशिष्य, समशाश्य,
आशम् 2, अशित्वा 2, अष्ट्वा 2, आशम् 2, आशयित्वा 2, अशिशिषम् 2, अशिशिषित्वा 2, अशाशम् 2, अशाशित्वा 2, 2 अश्वः, 3 अशनिः, 4 अश्मा, 5 अक्षः, 6 अक्षरम्, — इमे औणादिकाः ।
Footnote 4. ‘स्मिपूङ्रञ्ज्वशां—’ (7-2-74) इति
नित्यमिट् ।
Footnote 5. ‘सूचिसूत्रि—’ (वा. 3-1-22.) इति
यङ् । ‘दीर्घोऽकितः’ (7-4-83)
इत्यभ्यासस्य दीर्घः ।
Footnote 6. ‘स्वरतिसूति—’ (7-2-44) इति
वा इट् ।
Footnote 7. ‘स्वादिभ्यः—’ 3. इति श्नुविक-
रणप्रत्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् ।
Footnote A. “शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः ।
व्यश्नुवाना दिशः प्रायुः वनं दृष्टि-
विषोपमाः” भ. का. (9. 4.)
Footnote 8. ‘पूर्ववत् सनः’ (1-3-62) इति
शानच् ।
Footnote 9. ऊदित्त्वात् इड्विकल्पः ‘यस्य
विभाषा’ (7-2-15) इति इण्णिषेधः ।
Footnote 7. ‘स्वादिभ्यः—’ 3. इति श्नुविक-
रणप्रत्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् ।
Footnote 10. पचाद्यच् (3-1-134.) ‘यङोऽचि
च’ (2-4-74.) इति यङो लुक् ।
Footnote 1. ‘अ प्रत्ययात्’ (3-3-102) । इति
यङन्तात् अकारप्रत्ययः ।
Footnote 2. क्वन्प्रत्ययः (द. उ. 8-125) ।
Footnote 3. अनिप्रत्ययः (द. उ. 1-1.) ।
Footnote 4. मनिन् (द. उ. 6-75) प्रत्ययः ।
Footnote 5. सः प्रत्ययः (द. उ. 9. 24.) ।
Footnote 6. ‘अशेः सरन्’ (द. उ. 8. 50)
इति सरन्प्रत्ययः । [ID=49]
क्लिश्नाति
क्लिश् क्लिशूँ विबाधने क्र्यादिः परस्मैपदी अकर्मकः वेट् to torment to distress to hurt to suffer to misbehave
क्लिशू [Printed book page 0299]
(288) “क्लिशू विबाधने” (IX-क्र्यादिः-1522-अक. वेट्. पर.) [अ]
‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने ।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम् ॥’ (श्लो. 163-164) इति देवः ।
क्लेशः-शिका, क्लेशकः-शिका, 3 चिक्लिशिषकः-चिक्लेशिषकः-षिका, 4 चिक्लिक्षकः-क्षिका, चेक्लिशकः-शिका;
क्लेशिता-त्री-क्लेष्टा-ष्ट्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चिक्लिक्षिता-त्री, चेक्लिशिता-त्री; 5 क्लिश्नन् B -ती, क्लेशयन्-न्ती, चिक्लिशिषन्-चिक्लेशिषन्-चिक्लिक्षन्-न्ती; –
[Page0300+ 19]
क्लेशिष्यन्-क्लेक्ष्यन्-न्ती-ती, क्लेशयिष्यन्-न्ती-ती, चिक्लिशिषिष्यन्-चिक्लेशिषिष्यन्-चिक्लिक्षिष्यन्-न्ती-ती; –
— क्लेशयमानः, क्लेशयिष्यमाणः, चेक्लिश्यमानः, चेक्लिशिष्यमाणः; 1 क्लिट्-क्लिशौ-क्लिशः, 2 क्लेट्-क्लेशौ-क्लेशः; — – 3 क्लिशितम्-तः- A तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः-चिक्लिक्षितः-तवान्, चेक्लिशितः-तवान्;
क्लिशः, 4 क्लेशकः B, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः-चिक्लिक्षुः, चेक्लिशः;
क्लेशितव्यम्-क्लेष्टव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्-चिक्लिक्षितव्यम्, चेक्लिशितव्यम्;
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्-चिक्लिक्षणीयम्, चेक्लिशनीयम्;
क्लेशयम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्-चिक्लिक्ष्यम्, चेक्लिश्यम्;
ईषत्कलेशः-दुष्क्लेशः-सुक्लेशः; — — –
क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः-चिक्लिक्ष्यमाणः, चेक्लिश्यमानः;
क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः-चिक्लिक्षः, चेक्लिशः;
क्लेशितुम्-क्लेष्टुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्-चिक्लिक्षितुम्, चेक्लिशितुम्;
क्लिष्टिः, क्लेशना, चिक्लिशिषा-चिक्लेशिषा-चिक्लिक्षा, चेक्लिशा;
क्लेशनम्, क्लेशनम्, चिक्लिशिषणम्-चिक्लेशिषणम्-चिक्लिक्षणम्, चेक्लिशनम्;
[Page0301+ 23]
A क्लिशित्वा 1 -क्लिष्ट्वा, B 2 अलंक्लिशित्वा C, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा-चिक्लिक्षित्वा, चेक्लिशित्वा;
परिक्लिश्य, परिक्लेश्य, परिचिक्लिशिष्य-परिचिक्लि{??}शिष्य-परिचिक्लिक्ष्य, परिचेक्लिश्य;
क्लेशम् 2, क्लिशित्वा 2, क्लिष्ट्वा 2, क्लेशम् 2, क्लेशयित्वा 2, चिक्लिशिषम् 2 -चिक्लेशिषम् 2 -चिक्लिक्षम् 2, चिक्लिशिषित्वा 2 -चिक्लेशिषित्वा 2 -चिक्लिक्षित्वा 2, चेक्लिलशम् 2; चेक्लिशित्वा 2.
Footnote [अ] ‘एवमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।’ (कुमारसम्भवे 2-40) इत्यादि-
प्रयोगात् सकर्मकत्वमप्यस्य धातोरिति ज्ञायते ।
Footnote 3. ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इतीड्विकल्पे, ‘रलो व्युपधात्–
(1-2-26) इति कित्त्वविकल्पः । एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 4. इडभावपक्षे ‘व्रश्च—’ (8-2-36) इत्यादिना षत्वे ‘षढोः कः सि’ (8-2-41)
इति कः ।
Footnote 5. ‘क्र्यादिभ्यः श्ना’ (3-1-81) इति श्ना । ‘श्नाऽभ्यस्तयोः—’ (6-4-112)’
इत्याकारलोपः । ‘शात्’ (8-4-44) इति श्चुत्वनिषेधः ।
Footnote B. ‘आधोरणानपि च दन्तवरेण तुभ्नन् क्लिश्नन् मतिं पलसुरादिकमश्नतां सः ।’ धा. का. 3-11.
Footnote 1. ‘व्रश्च भ्रस्ज—’ (8-2-36) इत्यादिना षत्वे जश्त्वचर्त्वयोरूपम् ।
Footnote 2. ‘अन्येभ्योऽपि—’ (3-2-75) इत्यादिना विच् । गुणः ।
Footnote 3. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वा इट् । ‘यस्य विभाषा’ (7-2-15)
इत्यस्य बाधकः ।
Footnote A. ‘उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम् ॥’ भ. का. 22-7.
Footnote 4. ‘निन्दहिंसक्लिशखाद—’ (3-2-146) इत्यादिना ताच्छील्ये वुञ् ।
Footnote B. ‘निन्दको रजनिम्मन्यं दिवसं क्लेशको निशाम् ।’ भ. का. 7-13.
Footnote A. ‘चिरं क्लिशित्वा मर्मावित् रामो विलुभितप्लवम् ।’ भ. का. 5-52.
Footnote 1. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वा इट् । ‘मृडमृद—’ (1-2-7) इत्या-
दिना नित्यं कित्त्वम् ।
Footnote B. ‘मायाभिः सुचिरं क्लिष्ट्वा राक्षसोऽक्लिशितक्रियम् ।’ भ. का. 9-38.
Footnote 2. ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ (3-4-18) इति क्त्वा ।
Footnote C. ‘अलं क्लिशित्वा गुरुमल्पकोऽयं विधिस्त्वदाज्ञैव गरीयसी नः’ । अनर्घराघवे 2-57. [ID=288]
क्लिश्यते
क्लिश् क्लिशँ उपतापे दिवादिः आत्मनेपदी अकर्मकः सेट् to be ill to be sad to suffer
क्लिश [Printed book page 0297]
(287) “क्लिश उपतापे” (IV-दिवादिः-1161. अक. सेट्. आत्म.)
‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने ।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम् ॥’ (श्लो. 163-4) इति देवः ।
[Page0298+ 20]
क्लेशकः-शिका, क्लेशकः-शिका, 1 चिक्लिशिषकः-चिक्लेशिषकः-षिका, चेक्लिशकः-शिका;
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चेक्लिशिता-त्री;
— क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती; — – 2 क्लिश्यमानः, क्लेशयमानः, चिक्लिशिषमाणः-चिक्लेशिषमाणः, चेक्लिश्यमानः;
क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लिशिषिष्यमाणः-चिक्लेशिषिष्यमाणः, चेक्लिशिष्यमाणः; 3 क्लिट्-क्लिशौ-क्लिशः; — — – 4 क्लिशितः- A तम्-तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः, चेक्लिशितः-तवान्;
क्लिशः, 5 क्लेशनः, 6 क्लेशकः, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः, चेक्लिशः;
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्, चेक्लिशितव्यम्;
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्, चेक्लिशनीयम्; B क्लेश्यम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्, चेक्लिश्यम्;
ईषत्क्लेशः-दुष्क्लेशः-सुक्लेशः; — — –
क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः, चेक्लिश्यमानः; C क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः, चेक्लिशः;
क्लेशितुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्, चेक्लिशितुम् ।
[Page0299+ 22]
क्लिष्टिः, केशना, चिक्लिशिषा-चिक्लेशिषा, चेक्लिशा; A क्लिशित्वा 1 -क्लिष्ट्वा, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा, चेक्लिशित्वा;
विक्लिश्य, विक्लेश्य, विचिक्लिशिष्य-विचिक्लेशिष्य, विचेक्लिश्य;
क्लेशम् 2, क्लिशित्वा2-क्लिष्ट्वा 2, क्लेशम् 2, क्लेशयित्वा 2, चिक्लिशिषम् 2- चिक्लेशिषम् 2, चिक्लिशिषित्वा 2- चिक्लेशिषित्वा 2, चेक्लिशम् 2; चेक्लिशित्वा 2. 2 कीनाशः,
Footnote 1. ‘रलो व्युपधाद्धलादेस्संश्च’ (1-2-26) इति सनः कित्त्वविकल्पाद्रूपद्वयम् ।
Footnote 2. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनो ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote 3. ‘व्रश्च भ्रस्ज—’ (8-2-36) इत्यादिना षत्वे, चश्त्वे चर्त्वम् ।
Footnote 4. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति इड्विकल्पः ।
Footnote A. ‘मायाभिस्सुचिरं क्लिष्टवा राक्षसोऽक्लिशितक्रियम् ।’ भ. का. 9. 38.
Footnote 5. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति युचू ताच्छीलिकः ।
Footnote 6. ‘निन्दहिंसक्लिशखाद—’ (3-2-146) इत्यादिना वुञ् ताच्छीलिकः ।
Footnote B. ‘अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः ।’ भ. का. 7-78.
Footnote C. ‘देवौघस्य तपन् भुवं च पतिता वावृत्तभूमाऽप्यसौ
वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैस्स्वकैः ॥’ धा. का. 2-60.
Footnote A. ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः ।’ भ. का. 7. 96.
Footnote 1. ‘क्लिशः क्त्वानिष्ठयोः’ (7-2-50) इति वेट् । इट्पक्षे ‘मृडमृद—’ (1-2-7)
इत्यादिना नित्यकित्त्वम् ।
Footnote 2. ‘क्लिशेरीच्चोपधायाः कन् लोपश्च लोनाम्’ (द. उ. 9. 1.) इति कन्प्रत्यये
कीनाशः = कदर्यो जनः । [ID=287]
गाहते
गाह् गाहूँ विलोडने भ्वादिः आत्मनेपदी सकर्मकः वेट् to destroy to counterattack
गाहू [Printed book page 0386]
(395) “गाहू विलोडने” (I-भ्वादिः-649. सक. वेट्. आत्म.)
विलोडनम् = क्षोभणम् । ‘विलोडनम् = परिमलनम् ।’ इति क्षीरस्वामी ।
[Page0387+ 25]
गाहकः-हिका, गाहकः-हिका, 1 जिगाहिषकः-षिका-जिघाक्षकः-क्षिका, जागाहकः-हिका;
गाहिता-त्री A विगाढा 2 -ढ्री, गाहयिता-त्री, जिगाहिषिता-जिघाक्षिता-त्री, जागाहिता-त्री;
— गाहयन्-न्ती, गाहयिष्यन्-न्ती-ती; –
गाहमानः, गाहयमानः, जिगाहिषमाणः-जिघाक्षमाणः, जागाह्यमानः;
गाहिष्यमाणः- 3 घाक्ष्यमाणः, गाहयिष्यमाणः, जिगाहिषिष्यमाणः-जिघाक्षिष्यमाणः, जागाहिष्यमाणः; 4 सुघाट्-सुघाड्-सुगाहौ-सुगाहः; — – 5 गाढम्-ढः-ढवान्, गाहितः, जिगाहिषितः-जिघाक्षितः, जागाहितः-तवान्; 6 गहः-गहा, गाहः- 7 गाही, 8 गाहनः, 9 अवगाही, गाहः, जिगाहिषुः-जिघाक्षुः, जागाहः;
गाहितव्यम्-गाढव्यम्, गाहयितव्यम्, जिगाहिषितव्यम्-जिघाक्षितव्यम्, जागाहितव्यम्;
गाहनीयम्, गाहनीयम्, जिगाहिषणीयम्-जिघाक्षणीयम्, जागाहनीयम्;
गाह्यम्, गाह्यम्, जिगाहिष्यम्-जिघाक्ष्यम्, जागाह्यम्;
ईषद्गाहः-दुर्गाहः-सुगाहः; — –
अवगाह्यमानः, गाह्यमानः, जिगाहिष्यमाणः-जिघाक्ष्यमाणः, जागाह्यमानः;
[Page0388+ 22]
गाहः, अवगाहः, गाहः, जिगाहिषः-जिघाक्षः, जागाहः;
विगाहितुम्-गाढुम्, गाहयितुम्, जिगाहिषितुम्-जिघाक्षितुम्, जागाहितुम्; 1 गाहा, गाहना, जिगाहिषा-जिघाक्षा, जागाहा;
गाहनम्- 2 गहनम्, गाहनम्, जिगाहिषणम्-जिघाक्षणम्, जागाहनम्;
गाहित्वा-गाढ्वा, गाहयित्वा, जिगाहिषित्वा-जिघाक्षित्वा, जागाहित्वा;
अवगाह्य, अवगाह्य, विजिगाहिष्य-विजिघाक्ष्य, विजागाह्य;
गाहम् 2, गाहित्वा 2 -गाढ्वा 2, गाहम् 2, गाहयित्वा 2, जिगाहिषम् 2 -जिघाक्षम् 2, जिगाहिषित्वा 2 -जिघाक्षित्वा 2, जागाहम् 2; जागाहित्वा 2; 3 गह्वरम्.
Footnote 1. धातोरस्य ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (7-2-44) इति वा इट् ।
इडभावपक्षे—हकारस्य ढत्वे, गकारस्य भष्भावे, ‘षढोः कः सि’ (8-2-41)
इति कत्वे, षत्वे च जिघाक्षकः इति रूपम् । इडभावपक्षे सनि सर्वत्र एवमेव
प्रक्रिया ज्ञेया ।
Footnote A. ‘विगाढारं वनस्यासौ शत्रूणां गाहिता कपिः ।
अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम् ॥’ भ. का. 9-29.
Footnote 2. इडभावपक्षे—ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घाः । एवमिडभावपक्षे तव्यदादिषु ज्ञेयम् ।
Footnote 3. इडभावपक्षे—ढत्व-भष्भाव-कत्व-षत्वेषु रूपमेवम् ।
Footnote 4. ढत्व-भष्भाव-चर्त्वेषु रूपम् ।
Footnote 5. ऊदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायां ‘यस्य विभाषा’ (7-2-15)
इतीण्णिषेधः ।
Footnote 6. ‘गहादिभ्यश्च’ (4-2-138) इति निपातनात् पचाद्यचि उपधायाः ह्रस्वे, साधुः ।
Footnote 7. ‘गाहट्’ इति पचादिषु (3-1-134) पाठात् टित्त्वेन स्त्रियां ङीप् ।
Footnote 8. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिके युचि अनादेशः ।
Footnote 9. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. ‘गुरोश्च हलः’ (3-3-103) इति स्त्रियां भावादौ अकारप्रत्ययः ।
Footnote 2. ‘कृच्छ्रगहनयोः कषः’ (7-2-22), ‘सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्’
(वा. 3-1-14) इति सूत्रवार्तिकनिर्देशात् ल्युटि उपधाया ह्रस्वो भवति ।
Footnote 3. ‘छित्वरगह्वर—’ (द. उ. 8-49.) इति निपातनात् क्वरचि उपधाह्रस्वः । इति
मा. धा. वृत्तिः । गह्वरम् = गहनम् । [ID=395]