ja_antesu_15 Flashcards
त्यजति
भ्वादिः त्यज त्यजँ हानौ ( to abandon to leave to quit to let go to renounce )
[Printed book page 0700] (782) “त्यज हानौ” (I-भ्वादिः-986. सक. अनि. पर.) हानिः = उत्सर्गः इति बालमनोरमा । त्यागः इति क्षीरस्वामी ।
१. ण्वुल् त्याजकः-जिका, त्याजकः-जिका, 3 तित्यक्षकः-क्षिका, 4 तात्यजकः-जिका;
२. तृच् (तृन्) त्यक्ता-त्री, त्याजिता-त्री, तित्यक्षिता-त्री, तात्यजिता-त्री;
३. शतृ त्यजन्-न्ती, त्याजयन्-न्ती, तित्यक्षन्-न्ती; – त्यक्ष्यन्-न्ती-ती, त्याजयिष्यन्-न्ती-ती, तित्यक्षिष्यन्-न्ती-ती; –
४. शानच्6 व्यतित्यजमानः, त्याजयमानः, तित्यक्ष्यमाणः, तात्यज्यमानः; — त्याजयिष्यमाणः, तित्यक्षिष्यमाणः, तात्यजिष्यमाणः;
५. क्विप्7 त्यक्-त्यग्-त्यजौ-त्यजः; — –
६. निष्ठा त्यक्तम्-क्तः-क्तवान्, 1 त्याजितः, तित्यक्षितः, तात्यजितः-तवान्;
७. अन्ये प्रत्ययाः त्यजः, 2 त्यागी, 3 संत्याजी, त्याजः, तित्यक्षुः, तात्यजः;
८. तव्य त्यक्तव्यम्, त्याजयितव्यम्, तित्यक्षितव्यम्, तात्यजितव्यम्;
९. अनीयर् त्याजनीयम्, त्याजनीयम्, तित्यक्षणीयम्, तात्यजनीयम्;
१०. ण्यत् यत् 4 त्याज्यम्, त्याज्यम्, तित्यक्ष्यम्, तात्यज्यम्;
११. खल् ईषत्त्यजः-दुस्त्यजः-सुत्यजः; — –
१२. यक् त्यज्यमानः, त्याज्यमानः, तित्यक्ष्यमाणः, तात्यज्यमानः;
१३. घञ् त्यागः, त्याजः, तित्यक्षः, तात्यजः;
१४. तुमुन् त्यक्तुम्, त्याजयितुम्, तित्यक्षितुम्, तात्यजितुम्;
१५. क्तिन् त्यक्तिः, त्याजना, तित्यक्षा, तात्यजा;
१५. ल्युट् त्यजनम्, त्याजनम्, तित्यक्षणम्, तात्यजनम्;
१६. क्त्वा त्यक्त्वा, त्याजयित्वा, तित्यक्षित्वा, तात्यजित्वा;
१७. ल्यप् परित्यज्य, प्रत्याजयिष्य, प्रतित्यक्ष्य, प्रतात्यज्य;
१८. क्त्वा णमुलौ त्याजम् 2 त्यक्त्वा 2 त्याजम् 2 त्याजयित्वा 2 तित्यक्षम् 2 तित्यक्षित्वा 2 तात्यजम् 2; तात्यजित्वा
नेनेक्ति
जुहोत्यादिः निज् णिजिँर् शौचपोषणयोः ( to wash to purify to cleanse to nourish to support ) णिजिर्
[Printed book page 0625] (673) “णिजिर् शौचपोषणयोः” (III-जुहोत्यादिः-1093. सक. अनि. उभ.) ‘निङ्क्ते, नेनेक्ति नेनिक्ते शौचेऽर्थे पोषणे तथा ॥’ (श्लो. 63) इति देवः ।
१. ण्वुल् नेजकः- 1 निर्णेजकः-जिका, नेजकः-जिका, 2 निनिक्षकः-क्षिका, नेनिजकः-जिका;
२. तृच् (तृन्) 3 नेक्ता-त्री, नेजयिता-त्री, निनिक्षिता-त्री, 4 प्रणेनिजिता-त्री;
३. शता 5 नेनिजत् A -ती, नेजयन्-न्ती, निनिक्षन्-न्ती; –
३. स्य+ शता नेक्ष्यन्-न्ती-ती, नेजयिष्यन्-न्ती-ती, निनिक्षिष्यन्-न्ती-ती; –
४. शानच् नेनिजानः, नेजयमानः, निनिक्षमाणः, नेनिज्यमानः;
४. स्य+ शानच् नेक्ष्यमाणः, नेजयिष्यमाणः, निनिक्षिष्यमाणः, नेनिजिष्यमाणः;
५. क्विप् सुनिक्-सुनिग्-सुनिजौ-सुनिजः; — –
६. निष्ठा निक्तम्-क्तः-क्तवान्, नेजितः, निनिक्षितः, नेनिजितः-तवान्;
७. अन्ये प्रत्ययाः 6 निजः, नेजः, निनिक्षुः, नेनिजः;
८. तव्य नेक्तव्यम्, नेजयितव्यम्, निनिक्षितव्यम्, नेनिजितव्यम्;
९. अनीयर् नेजनीयम्, नेजनीयम्, निनिक्षणीयम्, नेनिजनीयम्;
१०. ण्यत् यत् 1 नेग्यम्, नेज्यम्, निनिक्ष्यम्, नेनिज्यम्;
११. खल् ईषन्नेजः-दुर्नेजः-सुनेजः; — –
१२. यक् निज्यमानः, नेज्यमानः, निनिक्ष्यमाणः, नेनिज्यमानः;
१३. घञ् नेगः, नेजः, निनिक्षः, नेनिजः;
१४. तुमुन् नेक्तुम्, नेजयितुम्, निनिक्षितुम्, नेनिजितुम्;
१५. क्तिन् निक्तिः, नेजना, निनिक्षा, नेनिजा;
१५. ल्युट् नेजनम्, नेजनम्, निनिक्षणम् नेनिजनम्;
१६. क्त्वा निक्त्वा, नेजयित्वा, निनिक्षित्वा, नेनिजित्वा;
१७. ल्यप् प्रणिज्य, प्रणेज्य, प्रणिनिक्ष्य, प्रणेनिज्य;
१८. क्त्वा णमुलौ नेजम् 2, निक्त्वा 2, नेजम् 2, नेजयित्वा 2, निनिक्षम् 2, निनिक्षित्वा 2, नेनिजम् 2; नेनिजित्वा 2.
भजति
“भज सेवायाम्” (I-भ्वादिः-998. सक. अनि. उभ) ‘—विभागसेवयोः’ इति द्रुमे (श्लो. 123) । ‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद् आमर्दे तु भनक्ति, भाजयति णौ भाजेः पृथक्कर्मणि ॥ (श्लो. 66) इति देवः ।
[Page0937+ 31]
१. ण्वुल् भाजकः-जिका, भाजकः-जिका, 1 बिभक्षकः-क्षिका, 2 बाभजकः-जिका;
२. तृच् (तृन्) 3 भक्ता-भक्त्री, भाजयिता-त्री, बिभक्षिता-त्री; बाभजिता-त्री;
३. शतृ भजन्-न्ती, भाजयन्-न्ती, बिभक्षन्-न्ती; –
४. स्य+ श्तृ भक्ष्यन्-न्ती, भाजयिष्यन्-न्ती-ती, बिभक्षिष्यन्-न्ती-ती; –
५. शानच् भजमानः, भाजयमानः, बिभक्षमाणः, बाभज्यमानः;
६. स्य+ शानच् भक्ष्यमाणः, भाजयिष्यमाणः, बिभक्षिष्यमाणः, बाभजिष्यमाणः;
७. ण्वि३.२.६२ 4 देहभाक् A -देहभाग्-देहभाजौ-देहभाजः; — –
८. निष्ठा विभक्तम्-भक्तवान्, भाजितः, बिभक्षितः, बाभजितः-तवान्;
९. अन्ये प्रत्ययाः भजः, 5भागी (3-2-142), 6 भक्तम्-भक्तः, 7 राज्यभाक्-प्रभाक्, 8 भेजिवान् B, 9 भ्राता, 1 धनभाजी, 2 विभक्तिः, 3 भजमानः, भाजः, बिभक्षुः, बाभजः;
१०. तव्य भक्तव्यम्, भाजयितव्यम्, बिभक्षितव्यम्, बाभजितव्यम्;
११. अनीयर् भजनीयम्, भाजनीयम्, बिभक्षणीयम्, बाभजनीयम्;
१२. ण्यत् यत् 4 विभज्यम्, 5 विभाग्यम्, भाज्यम्, बिभक्ष्यम्, बाभज्यम्;
१३. खल् ईषद्भजः-दुर्भजः-सुभजः; — –
१४. यक् भज्यमानः, भाज्यमानः, बिभक्ष्यमाणः, बाभज्यमानः;
१५. घञ् भागः, 6 भगः, भाजः, बिभक्षः, बाभजः;
१६. तुमुन् भक्तुम्, भाजयितुम्, बिभक्षितुम्, बाभजितुम्;
१७. क्तिन् 7भक्तिः- A दृढभक्तिः, भाजना, बिभक्षा, बाभजा;
१८. ल्युट् 8 भजनम्, भाजनम्, बिभक्षणम्, बाभजनम्;
१९. क्त्वा भक्त्वा; भाजयित्वा, बिभक्षित्वा, बाभजित्वा;
२०. ल्यप् विभज्य, विभाज्य, प्रबिभक्ष्य, प्रबाभज्य;
२१. क्त्वा णमुलौ भाजम् 2, भक्त्वा 2, भाजम् 2, भाजयित्वा 2, बिभक्षम् 2, बिभक्षित्वा 2, बाभजम् 2; बाभजित्वा 2.
भनक्ति
भन्जो [Printed book page 0941] (1145) “भन्जो आमर्दने” (VII-रुधादिः-1453. सक. अनि. पर.) ‘—आमर्दे तु भनक्ति… ॥’ (श्लो. 65) इति देवः ।
१. ण्वुल्7 भञ्जकः-ञ्जिका, भञ्जकः-ञ्जिका, 8 बिभङ्क्षकः-क्षिका, 9 बम्भजकः-बंभजकः-जिका;
२. तृच् (तृन्)भङ्क्ता-भङ्क्त्री, भञ्जयिता-त्री, बिभङ्क्षिता-त्री, बम्भजिता-त्री;
३. शतृ 1 भञ्जन्-भञ्जती, भञ्जयन्-न्ती, बिभङ्क्षन्-न्ती;
४. स्य+ श्तृ – भङ्क्ष्यन्-न्ती-ती, भञ्जयिष्यन्-न्ती-ती, बिभङ्क्षिष्यन्-न्ती-ती;
५. शानच् – — भञ्जयमानः, — बम्भज्यमानः;
६. स्य+ शानच् — भञ्जयिष्यमाणः, — बम्भजिष्यमाणः;
७. क्विप् 2 विभक्-विभग्-विभजौ-विभजः;
८. निष्ठा — – 3 भग्नम्-भग्नः-भग्नवान्, भञ्जितः, बिभङ्क्षितः, बम्भजितः-तवान्;
९. अन्ये प्रत्ययाः भञ्जः, 4 प्रभञ्जनः, A 5 भङ्गुरः, B [शत्रुं] 6 भञ्जानः, भञ्जः, बिभङ्क्षुः, 7 बम्भञ्जः;
१०. तव्य भङ्क्तव्यम्, भञ्जयितव्यम्, बिभङ्क्षितव्यम्, बम्भजितव्यम्;
११. अनीयर् भञ्जनीयम्, 8 भजेलिमाः [शालयः], भञ्जनीयम्, बिभङ्क्षणीयम्, बम्भजनीयम्;
१२. ण्यत् यत् 9 भङ्ग्यम्, भञ्ज्यम्, बिभङ्क्ष्यम्, बम्भज्यम्;
१३. खल् [Page0943+ 24] ईषद्भञ्जः-दुर्भञ्जः-सुभञ्जः;
१४. यक् — – भज्यमानः, भञ्ज्यमानः, बिभङ्क्ष्यमाणः, बम्भज्यमानः;
१५. घञ् 1 भङ्गः-भङ्गा, भञ्जः, बिभङ्क्षः, बम्भजः;
१६. तुमुन् भङ्क्तुम्, भञ्जयितुम्, बिभङ्क्षितुम्, बम्भजितुम्;
१७. क्तिन् भक्तिः, 2 सालभञ्जिका, A उद्दालकपुष्पभञ्जिका, भञ्जना, बिभङ्क्षा, बम्भजा;
१८. ल्युट् भञ्जनम्, भञ्जनम्, बिभङ्क्षणम्, बम्भजनम्;
१९. क्त्वा 3 भङ्क्त्वा B -भक्त्वा, भञ्जयित्वा, बिभङ्क्षित्वा, बम्भजित्वा;
२०. ल्यप् विभज्य, विभञ्ज्य, विबिभङ्क्ष्य, विबम्भज्य;
२१. क्त्वा णमुलौ 4 इक्षुभञ्जं, गजभञ्जं, C वल्लीभञ्जं [वा बभञ्ज ।] भञ्जम् 2, भङ्क्त्वा 2, भक्त्वा 2, भञ्जम् 2, भञ्जयित्वा 2, बिभङ्क्षम् 2, बिभङ्क्षित्वा 2, बम्भजम् 2;
बम्भजित्वा 2.
भुनक्ति भुजति
रुधादिः भुज् भुजँ पालनाभ्यवहारयोः ( to protect to preserve to eat to consume ) भुज [Printed book page 0956] (1162) “भुज पालनाभ्यवहारयोः” (VII-रुधादिः-1454. सक. अनि. पर.) अभ्यवहारः = भोजनम् । ‘भुजेद् भुनक्ति भुंक्ते स्युः, कौटिल्ये पालनेऽदने ।’ (श्लो. 65) इति देवः । [Page0957+ 25] भोजकः-जिका, भोजकः-जिका, 1 बुभुक्षकः-क्षिका, बोभुजकः-जिका; भोक्ता-भोक्त्री, भोजयिता-त्री, बुभुक्षिता-त्री, बोभुजिता-त्री; 2 भुञ्जन्-ती, देवदत्तं यज्ञदत्तः- 3 भोजयन्-न्ती, बुभुक्षन्-न्ती; – भोक्ष्यन्-न्ती-ती, भोजयिष्यन्-न्ती-ती, बुभुक्षिष्यन्-न्ती-ती; – 4 भुञ्जानः, भोजयमानः, बुभुक्षमाणः, बोभुज्यमानः; भोक्ष्यमाणः, भोजयिष्यमाणः, बुभुक्षिष्यमाणः, बोभुजिष्यमाणः; हुतभुक्, हव्यभुक्, 5 बलिभुक्-बलिभुजौ- A बलिभुजः; — – भुक्तम्-भुक्तवान्, 6 प्रभुक्तः, भोजितः, बुभुक्षितः, बोभुजितः-तवान्; [Page0958+ 29] 1 भोजः, 2 विश्वभोजः, 3 उष्णभोजी-शीतभोजी, A कलहभोजी, 4 अश्राद्धभोजी, कांस्यभोजी, (भोगं) 5 भुञ्जानः, भोजः, B बुभुक्षुः, बोभुजः; भोक्तव्यम्, भोजयितव्यम्, बुभुक्षितव्यम्, बोभुजितव्यम्; प्रनिभोजनीयम्-प्रणिभोजनीयम्, भोजनीयम्, बुभुक्षणीयम्, बोभुजनीयम्; 6 भोज्यम्-भोग्यम्, भोज्यम्, बुभुक्ष्यम्, बोभुज्यम्; ईषद्भोजः-दुर्भोजः-सुभोजः; — – भुज्यमानः, भोज्यमानः, बुभुक्ष्यमाणः, बोभुज्यमानः; 7 भुजः-भोगः, 8 भोगः, भोजः, बुभुक्षः, बोभुजः; भोक्तुम्, 9 भोक्तुं शक्नोति, भोजयितुम्, बुभुक्षितुम्, बोभुजितुम्; [Page0959+ 26] भुक्तिः, 1 भुजिः, अन्नभोजिका, भोजना, A बुभुक्षा, बोभुजा; भोजनम्, भोजनम्, बुभुक्षणम्, बोभुजनम्; भुक्त्वा, भोजयित्वा, बुभुक्षित्वा, बोभुजित्वा; उपभुज्य, उपभोज्य, प्रबुभुक्ष्य, प्रबोभुज्य; 2 अग्रेभोजम्-भुक्त्वा, प्रथमं भोजं-भुक्त्वा, पूर्वं भोजं-भुक्त्वा वा व्रजति । भोजम् 2, भुक्त्वा 2, भोजम् 2, भोजयित्वा 2, बुभुक्षम् 2, बुभुक्षित्वा 2, बोभुजम् 2; बोभुजित्वा 2; 3 भुज्युः, 4 भुजिष्यम्-भुजिष्या. Footnote 1. सन्नन्ते सर्वत्र ‘इको झल्’ (1-2-9) इति सनः कित्त्वे, धातुजकारस्य षकारे, तस्य ‘षढोः कः सि’ (8-2-41) इति ककारे च रूपनिष्पत्तिर्ज्ञेया । Footnote 2. शतरि, शपो रुधादित्वेन श्नमि, ‘श्नसोरल्लोपः’ (6-4-111) इति श्नमोऽकारस्य लोपे नकारस्य श्चत्वेन ञकारे च रूपमेवम् । Footnote 3. अभ्यवहारार्थे धातोरस्य ण्यन्तात्, ‘निगरणचलनार्थेभ्यः’ (1-3-87) इति शतैव । ‘गतिबुद्धिप्रत्यवसानार्थ—’ (1-4-52) इत्यादिना अणौ कर्तुः णौ कर्मसंज्ञाऽत्रेति विशेषः । Footnote 4. ‘भुजोऽनवने’ (1-3-66) इत्यनेन अवनभिन्नार्थे आत्मनेपदं शानच् । ण्यन्तेऽपि पालनार्थे शानज्ज्ञेयः । सन्नन्तेऽपि पालनार्थे ‘पूर्ववत् सनः’ (1-3-62) इति शानज्भवतीति बोध्यम् । धातूनामनेकार्थत्वात्, ‘भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।’ (रामा-अर. 47-4), ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥’ (रघुवंशे. 15-1) इत्यादिषु, अनुभवार्थेऽपि आत्मनेपदं भवतीति बोध्यम् । स्पष्टमिदं माधवधातुवृत्तौ । Footnote 5. कर्मण्युपपदे ‘क्विप् च’ (3-2-76) इति कर्तरि क्विप् । बलिभुक् = वायसः । Footnote A. ‘तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान् ॥’ अनर्घराघवे 4. 1. Footnote 6. ‘आदिकर्मणि क्तः कर्तरि च’ (3-4-71) इति कर्तरि क्तः ।’ ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः ।’ इति प्र. सर्वस्वे । अस्य धातोर्भक्षणार्थकत्वात् ‘क्तोऽधि- करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (3-4-76) इति अधिकरणेऽपि क्तप्रत्ययो बोध्यः । प्रत्यवसानार्थकाः = भक्षणार्थका धातवः । Footnote 1. इगुपधलक्षणं कप्रत्ययं बाघित्वा ‘अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः ।’ (का. 3-1-134) इति वचनात् कर्तरि अच्प्रत्ययः । Footnote 2. विश्वं भुनक्ति इति विश्वभोजः । ‘कर्मण्यण्’ (3-2-1) इत्यण्प्रत्ययः । Footnote 3. ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (3-2-78) इति ताच्छील्ये णिनिप्रत्ययः । एवं शीतभोजी, कलहभोजी इत्यत्रापि ज्ञेयम् । कलहं भुनक्ति = पालयति इति कलहभोजी = नारदः । Footnote A. ‘… पुरतोऽभवत् कलहभोजिनो मुनेः ॥’ च. भा. 5. 53. Footnote 4. ‘व्रते’ (3-2-80) इति णिनिप्रत्ययः । सति भोजनेऽश्राद्धमेव भुङ्क्ते इत्यत्र व्रतं गम्यते । एव कांस्यभोजी इत्यत्रापि व्रते गम्ये णिनिप्रत्यय इति ज्ञेयम् । Footnote 5. ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (3-2-129) इति चानश्प्रत्ययः । ताच्छीलि- कोऽयं प्रत्ययः । Footnote B. ‘बलात् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा ॥’ भ. का. 4. 2. Footnote 6. ‘भोज्यं भक्ष्ये’ (7-3-69) इति ण्यति कुत्वाभावो निपात्यते । ‘भक्ष्ये’ इत्यत्रोपल क्षणं खादनसामान्यधर्मस्य । तेन ‘भोज्या यवागूः’ इत्यत्र पानार्थकस्यापि भोज्या इति सिद्ध्यति । भक्षणादिभिन्नार्थे तु ‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वे भोग्यः = कम्बलः इति सिद्ध्यति । Footnote 7. ‘भुजन्युब्जौ पाण्युपतापयोः’ (7-3-61) इति पाणावभिधेये घञि कुत्वाभावः, गुणाभावश्च निपात्यते । भुज्यतेऽनेनेति भुजः = पाणिः । ‘बाहावभिधेये भुज इति प्रयोगो लाक्षणिकः ।’ इति बृहच्छब्देन्दुशेखरे स्फुटम् । भुजादन्यत्र घञि कुत्वे भोगः = शरीरम् । Footnote 8. ‘हलश्च’ (3-3-121) इति संज्ञायां घञ् । भोगः = स्त्रीभोगाज्जातोऽक्षिरोगविशेषः । कारणे कार्योपचारोऽत्र । भोगः = सर्पकायश्च । Footnote 9. पूर्वकालत्वाभावेऽपि शक्नोत्यर्थे ‘शकधृषज्ञा—’ (3-4-65) इति तुमुन्प्रत्ययः । Footnote 1. ‘इक् कृष्यादिभ्यः’ (वा. 3-3-108) इति भावे इक्प्रत्ययः । अन्नभोजिका इत्यत्र उत्पत्तिरूपार्थे ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (3-3-111) इति स्त्रियां ण्वुच् । ‘पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका ॥’ इति प्र. सर्वस्वे । Footnote A. ‘अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया ॥’ भ. का. 7. 84. Footnote 2. ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (3-4-24) इति अग्रेप्रथमपूर्वशब्देषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ विकल्पेन भवतः । Footnote 3. ‘भुजिमृङ्भ्याम्—’ (द. उ. 1-135) इति युक्प्रत्ययः । भुज्युः = गन्धर्वः । Footnote 4. ‘रुचिभुजिभ्यां किष्यन्’ (द. उ. 8-15) इति किष्यन्प्रत्ययः । भुजिष्यम् = भोग्यम् । भुजिष्या = दासी । [ID=1162]
भृज्जति
तुदादिः भ्रस्ज् भ्रस्जँ पाके ( to fry to roast to parch )
मज्जति
तुदादिः मस्ज् टुमस्जोँ शुद्धौ ( to nathe )
यजति
भ्वादिः यजँ देवपूजासङ्गतिकरणदानेषु ( to sacrifice to offer to a deity to worship to get associated with to give ) यज [Printed book page 1064] (1335) “यज देवपूजासङ्गतिकरणदानेषु” (I-भ्वादिः-1002. सक. अनि. उभ.) याजकः-जिका, याजकः-जिका, 4 यियक्षकः-क्षिका, यायजकः-जिका; 5 यष्टा-यष्ट्री, याजयिता-त्री, यियक्षिता-त्री, यायजिता-त्री; यजन्-न्ती, याजयन्-न्ती, यियक्षन्-न्ती; – यक्ष्यन्-न्ती-ती, याजयिष्यन्-न्ती-ती, यियक्षिष्यन्-न्ती-ती; – यजमानः, याजयमानः, B यियक्षमाणः, यायज्यमानः; यक्ष्यमाणः, याजयिष्यमाणः, यियक्षिष्यमाणः, यायजिष्यमाणः; [Page1065+ 30] 1 देवेट्-देवेड्-देवेजौ-देवेजः; — – 2 इष्टम्-इष्टः-इष्टवान्-इष्टी, याजितः, यियक्षितः, यायजितः-तवान्; यजः, 3 सोमयाजी-हविर्याजी A, अग्निष्टोमयाजी, 4 यज्वा, B 5 यजमानः, 6 ऋत्विक्, ‘त्वं यज्ञे वरुणस्य 7 अवया असि ।’ 8 उपयट्, 9 साधुयाजी, याजः, यियक्षुः, 10 यायजूकः, C यायजः; [Page1066+ 28] यष्टव्यम्, याजयितव्यम्, यियक्षितव्यम्, यायजितव्यम्; यजनीयम्, याजनीयम्, यियक्षणीयम्, यायजनीयम्; 1 याज्यम्, 2 देवयज्या, 3 याज्या, याज्यम्, यियक्ष्यम्, यायज्यम्; ईषद्यजः-दुर्यजः-सुयजः; — – 4 इज्यमानः, याज्यमानः, यियक्ष्यमाणः, यायज्यमानः; 5 यागः-अनुयागः-प्रयागः, 6 प्रयाजः-अनुयाजः, 7 उपांशुयाजः-पत्नीसंयाजः-ऋतुयाजः-उपयाजः, 8 यज्ञः, याजः, यियक्षः, यायजः; यष्टुम्, 9 यष्टुं, याजको [वा याति], याजयितुम्, यियक्षितुम्, यायजितुम्; [Page1067+ 29] 1 इष्टिः- 2 इज्या A, 3 यष्टिः, याजना, यियक्षा, यायजा; यजनम्, याजनम्, यियक्षणम्, यायजनम्; इष्ट्वा, याजयित्वा, यियक्षित्वा, यायजित्वा; अन्विज्य, प्रयाज्य, प्रयियक्ष्य, प्रयायज्य; याजम् 2, इष्ट्वा 2, याजम् 2, याजयित्वा 2, यियक्षम् 2, यियक्षित्वा 2, यायजम् 2; यायजित्वा 2; 4 यजेणुः; 5 यज्युः, 6 यजत्रम्, 7 यजुः । Footnote 4. सन्नन्ते सर्वत्र, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः’ (8-2-36) इति षत्वे, ‘षढोः कः सि’ (8-2-41) इति ककारे, षत्वे च रूपनिष्पत्तिरिति ज्ञेयम् । Footnote 5. तृजादिषु, ‘व्रश्च—’ (8-2-36) इति षत्वे, ष्टुत्वे च रूपम् । एवं तव्यदादिष्वपि प्रक्रियोह्या । Footnote B. ‘यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।’ शि. व. 2. 1. Footnote 1. देवान् यजतीति देवेट् । कर्मण्युपपदे, ‘क्विप् च’ (3-2-76) इति क्विपि ‘वचिस्वपियजादीनां किति’ (6-1-15) इति यकारस्य सम्प्रसारणे, ‘सम्प्रसार- णाच्च’ (6-1-108) इति पूर्वरूपे, षत्वे, जश्त्वे च रूपमेवम् । Footnote 2. निष्ठायाम्, यजादित्वेन सम्प्रसारणे पूर्वरूपे, षत्वे ष्टुत्वे च रूपमेवम् । ‘इष्टादि- भ्यश्च’ (5-2-88) इतीन्प्रत्यये इष्टी इति रूपम् । एवमेव क्त्वाप्रभृतिष्वपि प्रक्रिया ज्ञेया । Footnote 3. ‘भूते’ (3-2-84) इत्यधिकारे, ‘करणे यजः’ (3-2-85) इति णिनिप्रत्यये रूपमेवम् । सोमेन इष्टवान् सोमयाजी । एवमेव अग्निष्टोमयाजी इत्यादि- सिद्धिरूह्या । Footnote A. ‘मृषाऽसि त्वं हविर्याजी राघव च्छद्मतापसः ।’ भ. का. 6-129. Footnote 4. भूतार्थे, ‘सुयजोर्ङ्वनिप्’ (3-2-103) इति ङ्वनिप्प्रत्यये प्रथमैकवचने उपधादीर्घे नकारलोपे च यज्वा इति रूपम् । Footnote B. ‘यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः ॥’ भ. का. 5-37. Footnote 5. तच्छीलादिषु कर्तृषु ‘पूङ्यजोः शानन्’ (3-2-128) इति शानन्प्रत्ययः । शित्त्वात् शपि, ‘आने मुक्’ (7-2-82) इति मुगागमे यजमानः इति रूपम् । यस्त्वसकृत् यागादिकं करोति स एवमुच्यते । Footnote 6. ऋतौ यजते, ऋतुं यजते, ऋतुप्रयुक्तो वा यजतीत्यर्थे धातोरस्मात् ऋतुशब्द उपपदे, ‘ऋत्विक्—’ (3-2-59) इत्यादिना क्विन् । सम्प्रसारणे, पूर्वरूपे च कृते, निपातनात्, व्रश्चादिषत्वापवादतया ‘क्विन्प्रत्ययस्य कुः’ (8-2-62) इति कुत्वे च ऋत्विक् इति सिद्ध्यति । Footnote 7. ‘अवे यजः’ (3-2-72) इति मन्त्रे ण्विन्प्रत्यये, उपधावृद्धौ ‘अवयाः श्वेतवाः पुरोडाश्च’ (8-2-67) इति निपातनाद्रुत्वे च रूपमेवम् । छन्दस्येवायं प्रयोगः । Footnote 8. ‘विजुपे छन्दसि (3-2-73) इति छन्दसि विषये उपोपपदे धातोरस्य विच्प्रत्यये षत्वे जश्त्वे च रूपमेवम् । Footnote 9. ‘साधुकारिण्युपसंख्यानम्’ (वा. 3-2-78) इति णिनिप्रत्यये रूपमेवम् । Footnote 10. ‘यजजपदशां यङः’ (3-2-166) इति यङन्तादूकप्रत्यये, ‘दीर्घोऽकितः’ (7-4-83) इत्यभ्यासदीर्घे च रूपमेवम् । Footnote C. ‘तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः ।’ भ. का. 2-20. Footnote 1. ण्यति, ‘यजयाचरुच—’ (7-3-66) इति कुत्वनिषेधः । Footnote 2. देवशब्द उपपदे छन्दसि विषये कर्मणि यत्प्रत्यये रूपमेवम् । निपातनात् स्त्रीलिङ्ग- त्वम् । Footnote 3. यजन्त्यनेनेति याज्या = ऋक् । बाहुलकात् करणे ण्यत् । Footnote 4. कर्मणि, यगन्ताच्छानचि सम्प्रसारणे पूर्वरूपे च रूपम् । Footnote 5. ‘हलश्च’ (3-3-121) इति संज्ञायां घञि, ‘चजोः कु घिण्ण्यतोः’ (7-3-52) इति कुत्वे च रूपमेवम् । अनुयागः = भोजनम्, उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः । प्रयागः = क्षेत्रविशेषः । अत्र सङ्गतिकरणं धातोरर्थः । नदीत्रयसङ्गति- करणं ह्यत्र देशे वदन्ति । Footnote 6. घञि, ‘प्रयाजानुयाजौ यज्ञाङ्गे’ (7-3-62) इति निपातनात् यज्ञाङ्गविषये कुत्वं न । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । ‘उपसर्गस्य घञि—’ (6-3-122) इति दीर्घे अनूयाज इत्यपि भवति । Footnote 7. “प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्—अन्यत्राप्येवंप्रकारे कुत्वं न भवति । ‘एकादश उपयाजाः’, ‘उपांशुयाजमन्तरा यजति’, ‘अष्टौ पत्नीसंयाजा भवन्ति’ ‘ऋतुयाजैश्चरन्ति’—इत्येवमादि सिद्धं भवति ।’ इति काशिका- (7-3-62) वाक्यमिहावधेयम् । तेनैतेषां साधुत्वं बोध्यम् । ‘जाघन्या पत्नीः संयाजयन्ति’ (शतपथब्राह्मणे-3-7-6-1) इति श्रौतनिर्वचनपर्यालोचनायां तु पत्नीः संयाजयन्तीति पत्नीसंयाजः इति ण्यन्तात् ‘कर्मण्यण्’ (3-2-1) इत्यणेवात्रेति न कुत्वप्रसक्तिः । अतोऽत्रेतरेषां विषये कुत्वाभावस्योपपत्तिकल्पनेऽपि पत्नीसंयाजशब्दविषये नोपपत्तिकल्पनपरिश्रमः कार्यः इति ज्ञेयम् । Footnote 8. भावे, ‘यजयाच—’ (3-3-90) इत्यादिना नङ्प्रत्यये, जकारस्य श्चुत्वे च रूपमेवम् । Footnote 9. ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (3-3-10) इति क्रियार्थक्रियायां तुमुन्, ण्वुल् च भवतः । यष्टुं याति—यागाय यातीत्यर्थः । Footnote 1. ‘श्रुयजीषिस्तुभ्यः—’ (वा. 3-3-95) इति करणे क्तिन्प्रत्यये सम्प्रसारणादिके च रूपम् । Footnote 2. ‘व्रजयजोर्भावे क्यप्’ (3-3-98) इति स्त्रियां भावे क्यपि, कित्त्वेन सम्प्र- सारणादिकेषु चैवं रूपम् । Footnote A. ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिन कुमारः ॥’ भ. का. 2-37. Footnote 3. बाहुलकादौणादिके [द. उ. 1-74] तिप्रत्यये रूपमेवमिति क्षीरतरङ्गिणी । Footnote 4. बाहुलकादौणादिके [द. उ. 1-133] एणुप्रत्यये रूपम् । यजेणुः = याजकः, ऋत्विक् । Footnote 5. ‘यजिमनि—’ [द. उ. 1-134] इति युच्प्रत्यये, प्रत्ययस्याननुनासिकत्वेनाना- देशाभावे च रूपमेवम् । यज्युः = अध्वर्युः । Footnote 6. ‘अमिनक्षियजि—’ [द. उ. 8-56] इत्यत्रन्प्रत्ययः । इज्यन्तेऽस्मिन् देवता इति यजत्रम् = यज्ञस्थानम् । अग्निहोत्रमिति केचित् । Footnote 7. ‘अर्त्तिपॄवपियजि—’ [द. उ. 9-39] इत्युसिप्रत्ययः । यजुः = वेदः ।
युनक्ति
रुधादिः युनक युजिँर् योगे ( to bind to restrain to join to unite to apply to combine ) युजिर् [Printed book page 1083] (1351) “युजिर् योगे” (VII-रुधादिः-1444. सक. अनि. उभ.) ‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि ।’ (श्लो. 64) इति देवः ।
१. ण्वुल्—————योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका;
२. तृच् (तृन्)—————योक्ता-योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री;
३. शतृ —————युञ्जत् युञ्जती युञ्जत्
४. स्य+ श्तृ —————
५. शानच्—————युञ्जान युञ्जाना युञ्जान. युज्यमान युज्यमाना युज्यमान
६. स्य+ शानच् —————
७. क्विप्—————
८. निष्ठा—————युक्त युक्ता युक्त. युक्तवत् युक्तवती युक्तवत्
९. अन्ये प्रत्ययाः—————
१०. तव्य—————योक्तव्य योक्तव्या योक्तव्य
११. अनीयर्—————योजनीय योजनीया योजनीय
१२. ण्यत् यत्—————योज्य योज्या योज्य
१३. खल्—————
१४. यक्—————
१५. घञ्—————
१६. तुमुन्—————योक्तुम्
१७. क्तिन्—————
१८. ल्युट्—————योजन
१९. क्त्वा—————युक्त्वा
२०. ल्यप्—————
२१. क्त्वा णमुलौ—————योजं
रोजयति/रोजति रुजति
चुरादिः रोजय/रोज रुजँ हिंसायाम् ( to kill to destroy to cause pain ) रुज [Printed book page 1127] (1415) “रुज हिंसायाम्” (X-चुरादिः-1805. सक. सेट्. उभ.) आस्वदीयः । ‘भङ्गे रुजति, हिंसायां रोजयेदिति णौ रुजेः ॥’ श्लो. 69) इति देवः । रोजकः-जिका, रुरोजयिषकः षिका; रोजयिता-त्री, रुरोजयिषिता-त्री; इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककोटयतिवत् (205) बोध्यानि । [ID=1415]
रज्यति
दिवादिः रज्य रन्जँ रागे ( to color to be involved in to be attracted to ) [Printed book page 1099] (1373) “रन्ज रागे” (IV-दिवादिः-1167. अक. अनि. उभ.) [अ] ‘रजते रजतीत्येव रज्यते रज्यतीत्यपि ॥ रागार्थे शप्श्यनोर्द्वे द्वे… ।’ (श्लो. 57-58) इति देवः । [Page1100+ 28]
विनक्ति
तुदादिः विनक ओँविजीँ भयचलनयोः ( to fear to tremble to shiver to have disaster ) विजी [Printed book page 1229] (1598) “ओ विजी भयचलनयोः” (VI-तुदादिः-1289. अक. सेट्. आत्म.) प्रायेणायं उत्पूर्वः । ‘— उद्वेगे च’ इति पा. धा. समीक्षा । ‘वेवेक्तीति पृथग्भावे विविक्ते च भये पुनः ॥’ [Page1230+ 24] विनक्ति विजते… ।’ (श्लो. 61-62) इति देवः ।
१. ण्वुल्————उद्वेजकः-जिका, उद्वेजकः-जिका, 1 उद्विविजिषकः-षिका, वेविजकः-जिका;
२. तृच् (तृन्)———— 2 उद्विजिता-त्री, उद्वेजयिता-त्री, विविजिषिता-त्री, वेविजिता-त्री;
३. शतृ ———— A उद्वेजयन्-न्ती, उद्वेजयिष्यन्-न्ती-ती;
४. स्य+ श्तृ ————
५. शानच्———— — – उद्विजमानः, उद्विजिष्यमाणः; — – वेविज्यमानः, वेविजिष्यमाणः;
६. स्य+ शानच् ————
७. क्विप्———— — – उद्विक्-उद्विग्-विजौ-विजः;
८. निष्ठा———— — – 3 उद्विग्नम् B -नः-नवान्, उद्वेजितः, विविजिषितः-वेविजितः-तवान्;
९. अन्ये प्रत्ययाः———— उद्वेगः, उद्वेगनः, उद्वेगः, विविजिषुः, वेविजः;
१०. तव्य———— विजितव्यम्, वेजयितव्यम्, विविजिषितव्यम्, वेविजितव्यम्;
११. अनीयर्———— वेजनीयम्, 4 उद्वेजनीयः, वेजनीयम्, विविजिषणीयम्, वेविजनीयम्;
१२. ण्यत् यत्———— 5 उद्वेग्यम्, उद्वेज्यम्, विविजिष्यम्, वेविज्यम्;
१३. खल्———— विज्यमानः, वेज्यमानः, विविजिष्यमाणः, वेविज्यमानः;
१४. यक्———— ईषद्वेजः-दुर्वेजः-सुवेजः;
१५. घञ्———— — — – 6 उद्वेगः, 7 वेगितम्, उद्वेगः, उद्विविजिषः, उद्वेविजः;
१६. तुमुन्———— [Page1231+ 24] A उद्विजितुम्, उद्वेजयितुम्, उद्विविजिषितुम्, उद्वेविजितुम्;
१७. क्तिन्———— उद्वेक्तिः, उद्वेजना, विविजिषा, वेविजा;
१८. ल्युट्———— उद्वेजनम्, उद्वेजनम्, उद्विविजिषणम्, वेविजनम्;
१९. क्त्वा———— 1 विजित्वा, वेजयित्वा, विविजिषित्वा, वेविजित्वा;
२०. ल्यप्———— उद्वेज्य, उद्वेज्य, उद्विविजिष्य, उद्वेविज्य;
२१. क्त्वा णमुलौ———— वेजम् 2, वेजित्वा 2, वेजम् 2, वेजयित्वा 2, विविजिषम् 2, विविजिषित्वा 2, वेविजम् 2; वेविजित्वा 2. बम्भजित्वा 2.
स्वजते
भ्वादिः स्वज ष्वन्जँ परिष्वङ्गे ( to hug to embrace ) ष्वञ्ज [Printed book page 1367] (1889) “ष्वञ्ज परिष्वङ्गे” (I-भ्वादिः-976. सक. अनि. आत्म.) [Page1368+ 29] 1 प्रतिष्वजमाणः, 2 परिष्वजमाणः-निष्वजमाणः-विष्वजमाणः, 3 परिष्वङ्गः, 4 स्वङ्- क्त्वा-स्वक्त्वा, परिष्वज्य, 5 परिषिष्वङ्क्षमाणः, 6 सस्वजिवान्, इति विशेषरूपाणि । सामान्यरूपाणि दंशतिवत् (817) बोध्यानि । Footnote 1. शानचि शपि ‘दंशसञ्जस्वञ्जां शपि’ (6-4-25) इत्यनुनासिकलोपः । चवर्गपञ्चमत्वेन श्रूयमाणत्वेऽपि नोपधोऽयं धातुः । तदुक्तम्—‘नकारजावनुस्वारपञ्चमौ झलि धातुषु’ इति । ‘उपसर्गात् सुनोति… स्वञ्जाम्’ (8-3-65) इति षत्वम् । Footnote 2. अत्र ‘परिनिविभ्यः सेव… स्वञ्जाम्’ (8-3-70) इति षत्वम् । Footnote 3. निष्ठायामनिट्त्वात् घञि, ‘चजोः—’ (7-3-52) इति कुत्वम् । Footnote 4. ‘जान्तनशां विभाषा’ (6-4-32) इति नकारलोपो विकल्पेन न भवति । तेन रूपद्वयम् । Footnote 5. ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (8-3-64) इति षत्वम् । Footnote 6. ‘श्रन्थिग्रन्थिदम्भिस्वञ्जीनां च’ (वा. 1-2-6) इति लिटः कित्त्वात् लिडादेशे क्वसावपि कित्वम् । तेनोपधानकारलोपे, द्विर्वचनादिके च, ‘वस्वेकाजाद्—’ (7-2-67) इति इडागमे च रूपमेवम् । [ID=1888]
सजति
भ्वादिः सज षन्जँ सङ्गे( to hug to embrace to stay in close contact to cling to stick to ) षन्ज [Printed book page 1337] (1817) “षन्ज सङ्गे” (I-भ्वादिः-987. सक. अनि. पर.)
सृज्यते
तुदादिः सृज्य सृजँ विसर्गे( to create to generate to produce ) [Printed book page 1379] (1916) “सृज विसर्गे” (VI-तुदादिः-1414. सक. अनि. पर.) ‘… सर्गे सृज्यते सृजतीति च ।’ (श्लो. 62) इति देवः । मुण्डकोपनिषदि (1-1-7) सृजते इति प्रयोगात् आत्मनेपदमपि इति ज्ञेयम् ।
१. ण्वुल्————सर्जकः-र्जिका, सर्जकः-र्जिका, 7 सिसृक्षकः-क्षिका, सरीसृजकः-जिका;
२. तृच् (तृन्)————स्रष्टृ स्रष्ट्री स्रष्टृ
३. शतृ ————सृजत् सृजती/सृजन्ती सृजत्
४. स्य+ श्तृ ————
५. शानच्————सृज्यमान सृज्यमाना सृज्यमान
६. स्य+ शानच् ————
७. क्विप्————
८. निष्ठा————रुक्त रुक्ता रुक्त रुक्तवत् रुक्तवती रुक्तवत्
९. अन्ये प्रत्ययाः————
१०. तव्य————स्रष्टव्य स्रष्टव्या स्रष्टव्य
११. अनीयर्————सृज्य सृज्या सृज्य
१२. ण्यत् यत्————
१३. खल्————
१४. यक्————
१५. घञ्————
१६. तुमुन्————स्रष्टुम्
१७. क्तिन्————
१८. ल्युट्————सर्जन
१९. क्त्वा————सृष्ट्वा
२०. ल्यप्————
२१. क्त्वा णमुलौ————सर्जं