dha_antesu_11 Flashcards

1
Q

क्रुध्यति

A

दिवादिः क्रुध्य क्रुधँ क्रोधे (to be angry)

क्रुध [Printed book page 0287]
(277) “क्रुध क्रोधे” (IV-दिवादिः-1189. अक. अनि. पर.)
क्रोधकः-धिका, क्रोधकः-धिका, 2 चुक्रुत्सकः-त्सिका, चोक्रुधकः-धिका;
क्रोद्धा-त्री, क्रोधयिता-त्री, चुक्रुत्सिता-त्री, चोक्रुधिता-त्री; 3 क्रुध्यन् B -न्ती, 4 क्रोधयन्-न्ती, चुक्रुत्सन्-न्ती; –
क्रोत्स्यन्-न्ती-ती, क्रोधयिष्यन्-न्ती-ती, चुक्रुत्सिष्यन्-न्ती-ती; – 5 व्यतिक्रुध्यमानः, — व्यतिचुक्रुत्सिष्यमाणः, चोक्रुध्यमानः;
व्यतिक्रोत्स्यमानः, — — चोक्रुधिष्यमाणः;
क्रुत्-क्रुधौ-क्रुधः; — — –
क्रुद्धम्-क्रुद्धः-क्रुद्धवान्, क्रोधितः, चुक्रुत्सितः, चोक्रुधितः-तवान्; 6 क्रुधः C - 7 क्रोधनः, क्रोधः, चुक्रुत्सुः, चोक्रुधः;
क्रोद्धव्यम्, क्रोधयितव्यम्, चुक्रुत्सितव्यम्, चोक्रुधितव्यम्;
[Page0288+ 26]

क्रोधनीयम्, क्रोधनीयम्, चुक्रुत्सनीयम्, चोक्रुधनीयम्;
क्रोध्यम्, क्रोध्यम्, चुक्रुत्स्यम्, चोक्रुध्यम्;
ईषत्क्रोधः-दुष्क्रोधः-सुक्रोधः; — –
क्रुध्यमानः, क्रोध्यमानः, चुक्रुत्स्यमानः, चोक्रुध्यमानः;
क्रोधः, क्रोधः, चुक्रुत्सः, चोक्रुधः;
क्रोद्धुम्, क्रोधयितुम्, चुक्रुत्सितुम्, चोक्रुधितुम्;
क्रुद्धिः, 1 क्रुत् A, क्रोधना, चुक्रुत्सा, चोक्रुधा;
क्रोधनम्, क्रोधनम्, चुक्रुत्सनम्, चोक्रुधनम्;
क्रुद्ध्वा, क्रोधयित्वा, चुक्रुत्सित्वा, चोक्रुधित्वा;
सङ्क्रुध्य, सङ्क्रोध्य, सञ्चुक्रुत्स्य, सञ्चोक्रुध्य;
क्रोधम् 2, क्रुध्वा 2, क्रोधम् 2, क्रोधयित्वा 2, चुक्रुत्सम् 2, चुक्रुत्सित्वा 2. चोक्रुधम् 2; चोक्रुधित्वा 2.
Footnote 2. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । उपदेशे एकाच्त्वात् इण्ण ।
Footnote 3. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनः ङिद्वद्भावान्नाङ्गस्य लघूपधगुणः ।
Footnote B. ‘क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः यास्यन् सुतः तप्स्यति मां समन्युम् ।’ भ. का. 1-23.
Footnote 4. ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (1-3-88) इति ण्यन्तात् शतैव ।
Footnote 5. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् ।
Footnote 6. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कः ।
Footnote C. ‘शक्यन् गर्वमशक्यमानमनसां आस्विद्यदास्योऽक्रुधं
क्षुध्यद्भक्तदमाप मालिकवरं शुद्धं स सिंद्धेप्सितम् ॥’ धा. का. 2-63.
Footnote 7. ‘क्रुधमण्डार्थेभ्यश्च’ (3-2-151) इति ताच्छीलिको युच् ।
Footnote 1. ‘संपदादिभ्यः क्विप्’ (वा. 3-3-94) इति क्तिनोऽपवादः क्विप् । क्तिन्नपि बाहुलकात् ।
Footnote A. ‘संशृण्वतः तामवृधत् गिरं हृदि क्रुदारत् अक्षिद्वयमाशु रक्तिमा ।’ वा. वि. 1-40. [ID=277]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

क्षुध्यति

A

दिवादिः क्षुध्य क्षुधँ बुभुक्षायाम् (to be hungry)

क्षुध [Printed book page 0329]
(315) “क्षुध बुभुक्षायाम्” (IV-दिवादिः-1190. अक. अनि. पर.)
क्षोधकः-धिका, क्षोधकः-धिका, 1 चुक्षुत्सकः-त्सिका, चोक्षुधकः-धिका;
क्षोद्धा-द्ध्री, क्षोधयिता-त्री, चुक्षुत्सिता-त्री, चोक्षुधिता-त्री; 2 क्षुध्यन् A -न्ती, क्षोधयन्-न्ती, चुक्षुत्सन्-न्ती; –
क्षोत्स्यन्-न्ती-ती, क्षोधयिष्यन्-न्ती-ती, चुक्षुत्सिष्यन्-न्ती-ती; –
— क्षोधयमानः, — चोक्षुध्यमानः;
— क्षोधयिष्यमाणः, — चोक्षुधिष्यमाणः;
क्षुत्-क्षुध्-क्षुधौ-क्षुधः; — – 3 क्षुधितम्-तः, क्षोधितः, चुक्षुत्सितः, चोक्षुधितः-तवान्; 4 क्षुधः, 5 क्षोधुकः, क्षोधः, चुक्षुत्सुः, चोक्षुधः;
क्षोद्धव्यम्, क्षोधयितव्यम्, चुक्षुत्सितव्यम्, चोक्षुधितव्यम्;
क्षोधनीयम्, क्षोधनीयम्, चुक्षुत्सनीयम्, चोक्षुधनीयम्;
क्षोध्यम्, क्षोध्यम्, चुक्षुत्स्यम्, चोक्षुध्यम्;
ईषत्क्षोधः-दुःक्षोधः-सुक्षोधः; — –
क्षुध्यमानः, क्षोध्यमानः, चुक्षुत्स्यमानः, चोक्षुध्यमानः;
[Page0330+ 22]

क्षोधः, क्षोधः, चुक्षुत्सः, चोक्षुधः;
क्षोद्धुम्, क्षोधयितुम्, चुक्षुत्सितुम्, चोक्षुधितुम्; 1 क्षुत्-क्षुधा, क्षोधना, चुक्षुत्सा, चोक्षुधा;
क्षोधनम्, क्षोधनम्, चुक्षुत्सनम्, चोक्षुधनम्;
2 क्षुधित्वा A क्षोधित्वा क्षोधयित्वा, चुक्षुत्सित्वा, चोक्षुधित्वा;
सङ्क्षुध्य, प्रक्षोद्ध्य, प्रचुक्षुत्स्य, प्रचोक्षुध्य;
क्षोधम् 2, क्षुधित्वा 2-क्षोधित्वा 2, क्षोधम् 2, क्षोधयित्वा, चुक्षुत्सम् 2, चुक्षुत्सित्वा 2, चोक्षुधम् 2; चोक्षुधित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । तेनाङ्गस्य गुणो न । चर्त्वम् । एवमेव
सर्वत्र सन्नन्ते प्रक्रिया बोध्या ।
Footnote 2. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनः ङिद्वद्भावात् अङ्गस्य गुणो न ।
‘शप्श्यनोर्नित्यम्’ (7-1-81) इति नित्यं नुम् ।
Footnote A. ‘शक्यन् गर्वमशक्यमानमनसाम् आस्विद्यदास्योऽक्रुधं
क्षुध्यद्भक्तदमाप मालिकवरं शुद्धं स सिद्धेप्सितम् ॥’ धा. का. 2-63.
‘का त्वमेकाकिनी भीरु निरन्वयजने वने ।
क्षुध्यन्तोऽप्यघसन् व्यालास्त्वामपालां कथं न वा ॥’ भ. का. 5-66.
Footnote 3. ‘वसतिक्षुधोरिट्’ (7-2-52) इति क्त्वानिष्ठयोः नित्यम् इट् ।
Footnote 4. ‘इगुपध—’ (3-1-135) लक्षणः कप्रत्ययः कर्तरि ।
Footnote 5. ‘लषपत—’ (3-2-154) इत्यादिना विहितः उकञ् अस्यापीष्यते—इति
क्षीरस्वामी ।
Footnote 1. ‘स्त्रियां क्तिन्’ (3-3-94) इत्यधिकारे ‘सम्पदादिभ्यः क्विप्’ (वा. 3-3-94) इति
क्विप्, क्तिनोऽपवादः । ‘आपं चैव हलन्तानाम्’ इत्यनेन टाप् । ‘या देवी
सर्वभूतेषु क्षुधारूपेण संस्थिता ।’ इति देवीमाहात्म्यम् ।
Footnote 2. ‘वसतिक्षुधोरिट्’ (7-2-52) इतीट् क्त्वायाम् । ‘रलो व्युपधात्—’ (1-2-26)
इति कित्त्वविकल्पः । तेन रूपद्वयम् ।
Footnote A. ‘पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयोनिधौ ।
बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम् ॥’ भ. का. 9-39. [ID=315]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

बोधति

A

भ्वादिः बोध बुधँ अवगमने (to be awakened with knowledge)

बुध [Printed book page 0926]
(1121) “बुध अवगमने” (I-भ्वादिः-858. सक. सेट्. पर.)
ज्वलादिः ।
‘बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम् ।
बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि ॥’ (श्लो. 119) इति देवः ।
अवगमनम् = उद्बोधः, ज्ञानं च । आद्ये-अकर्मकः, द्वितीये-सकर्मकः ।
बोधकः-धिका, बोधकः-धिका, बुबोधिषकः-बुबुधिषकः-षिका, बोबुधकः-
धिका इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोलतिवत् (231) ज्ञेयानि ।
[Page0927+ 29]
1 बोधयन् शिष्यं धर्मम् । 2 प्रबोधी-प्रतिबोधी । राज्ञां 3 बोधितः-बुधितो वा । 4 विबुघः A -बोधः, B अविबोधयन् ।
Footnote 1. ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (1-3-86) इति ण्यन्तादस्मात् परस्मैपदमेव ।
यदाऽयं चित्तवत्कर्तृकः, तदाऽपि, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (1-3-88)
इति ण्यन्तात् परस्मैपदमेवेति ज्ञेयम् । अत्र, ‘गतिबुद्धिप्रत्यवसानार्थ—’
(1-4-52) इत्यनेन बुघ्द्यर्थत्वात् अण्यन्तावस्थायां कर्तुः, ण्यन्तावस्थायां कर्मसंज्ञेत्यपि
ज्ञेयम् ।
Footnote 2. ‘भविष्यति गम्यादयः’ (3-3-3) इति सूत्रे, प्र—प्रतिपूर्वकस्यास्य णिनिप्रत्ययान्त-
त्वेन गणपाठात् भविष्यत्यर्थे णिनिः ।
Footnote 3. ‘मतिबुद्धिपूजार्थेभ्यश्च’ (3-2-188) इति वर्तमाने आदिकर्मणि च क्तप्रत्ययः ।
‘उदुपधाद् भावादिकर्मणोः—’ (1-2-21) इति कित्त्वविकल्पः । ‘क्तस्य च
वर्तमाने’ (2-3-67) इति षष्ठी । अत्र क्षीरतरङ्गिण्यां बोद्धा, बुद्धः इति
इड्रहितप्रयोगौ प्रदर्शितौ । अनिट्कारिकासु (7-2-10) बुध्यति इति श्यना
निर्देशात् दैवादिकस्यैवानिट्त्वमिति, अस्य भौवादिकत्वेन सेड्रूपाण्येव भवन्तीति
च युक्तमुत्पश्यामः ।
Footnote 4. ‘ज्वलितिकसन्तेभ्यो णः ।’ (3-1-140) इति कर्तरि णप्रत्ययविकल्पः । तस्य
वैकल्पिकत्वात्, कर्तरि पक्षे इगुपधलक्षणकप्रत्यये बुधः, बिबुधः इत्यादीनां
सिद्धिः । ‘अभिधानलक्षणाः कृत्तद्धितसमासान्ताः, (भाष्यम्-3-3-1) इति
वचनात् सामान्येन विहितानामपि कृतां क्वचित् संज्ञायामपि सम्भव इति, अत्र
कप्रत्ययः संज्ञायामपि । तेन बुधः इति ग्रहविशेषस्य, जातिविशेषस्य च संज्ञा ।
Footnote A. ‘… तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम् ।’ भ. का. 10. 37.
Footnote B. ‘ततः प्राकारमारोहत् क्षपाटानविबोधयन् ।’ भ. का. 8. 56. [ID=1121]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

बुध्यते

A

दिवादिः बुध्य बुधँ अवगमने (to know to understand)

[Printed book page 0927]
(1122) “बुध अवगमने”
(IV-दिवादिः-1172. अक. अनि. आत्म.) [अ]
‘बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम् ।’ (श्लो. 119) इति देवः ।
[Page0928+ 29]

बोधकः-धिका, बोधकः-धिका, 1 बुभुत्सकः-त्सिका, बोबुधकः-धिका;
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् (315) ज्ञेयानि । 2 बुद्धः, 3 बुधानः, 4 बुबुधानः ।
Footnote [अ] ‘तत्त्वं बुध्यते’ इति धर्मकीर्त्ति प्रयोगात्, ‘क्रमादमुं नारद इत्यबोधि सः ॥’
(शि. व. 1. 3) इति माघप्रयोगाच्च सकर्मकत्वमप्यस्यास्तीति ज्ञायते । परं तु
‘अत्र बुधादीनां चतुर्णाम्, ‘अणावकर्मकात्—’ (1-3-88) इत्येव सिद्धे,
वचनमिदम् अचित्तवत्कर्तृकार्थम् ।’ इति प्रतिपादयतो वृत्तिकारादेरेतदनभिमत-
मिति ज्ञायते । मा. धा. वृत्तौ तु ‘अयमर्थभेदेन सकर्मकोऽकर्मकश्च ।’ इति
समाहितम् ।
Footnote 1. सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वे, भष्भावे चर्त्वे च रूपम् ।
Footnote 2. ‘क्तिच्क्तौ च संज्ञायाम्’ (3-3-174) इति संज्ञायाम् क्तप्रत्ययः । बुध्यतीति
बुद्धः = सिद्धार्थः ।
Footnote 3. ‘युधिबुधिदृशेः किच्च’ (द. उ. 5-33) इत्यानच्प्रत्ययः, किच्च । कित्त्वान्न गुणः ।
बुधानः = आचार्यः ।
Footnote 4. ‘मुचिबुधिभ्यां सन्वच्च’ इति मा. धा. वृत्त्युपात्तेन औणादिकसूत्रेण
आनच्प्रत्यये, तस्य सन्वद्भावात् द्वित्वे, कित्त्वे च रूपम् । बुबुधानः =
बोद्धुमिच्छुः । [ID=1122]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

बध्नाति

A

क्र्यादिः बध्ना बन्धँ बन्धने (to tie to bind)

बन्ध [Printed book page 0917]
(1098) “बन्ध बन्धने” (IX-क्र्यादिः-1508. अक. अनि. पर.)
‘बध्नाति बन्धने बन्धेर्बाधयेदिति संयमे ।’ (श्लो. 120) इति देवः ।
बन्धकः-न्धिका, बन्धकः-न्धिका, 1 बिभन्त्सकः-त्सिका, 2 बाबधकः-धिका; 3 बन्द्धा-बन्द्ध्री, बन्धयिता-त्री, बिभन्त्सिता-त्री, बाबधिता-त्री;
[Page0918+ 27]
1 बध्नन्-ती, 2 बन्धयन्-न्ती, बिभन्त्सन्-न्ती; – 3 भन्त्स्यन्-न्ती-ती, बन्धयिषयन्-न्ती-ती, बिभन्त्सिष्यन्-न्ती-ती; –
— बन्धयमानः, बन्धयिष्यमाणः, — बाबध्यमानः, बाबधिष्यमाणः; 4 भत्-भध्-बधौ-बधः; — — –
बद्धः-बद्धम्-बद्धवान्, 5 चक्रबद्धः-दृषद्बद्धः, बन्धितः, बिभन्त्सितः, बाबधितः-तवान्;
बन्धः, 6 सुतानुबन्धः, A बन्धः, बिभन्त्सुः, बाबन्धः;
बन्द्धव्यम्, बन्धयितव्यम्, बिभन्त्सितव्यम्, बाबधितव्यम्;
बन्धनीयम्, बन्धनीयम्, बिभन्त्सनीयम्, बाबधनीयम्,
बन्ध्यम्, बन्ध्यम्, बिभन्त्स्यम्, बाबध्यम्;
ईषद्बन्धः-दुर्बन्धः-सुबन्धः; — –
बध्यमानः, बन्ध्यमानः, बिभन्त्स्यमानः, बाबध्यमानः;
बन्धः, 7 पर्यङ्कबन्धः, चक्रबन्धः, दृषद्बन्धः, 8 अनूबन्धः, बन्धः, बिभन्त्सः, बाबधः;
बन्द्धुम्, बन्धयितुम्, बिभन्त्सितुम्, बाबधितुम्;
[Page0919+ 27]
1 बन्धा, बद्धिः, बन्धना, बिभन्त्सा, बाबधा;
बन्धनम्, बन्धनम्, बिभन्त्सनम्, बाबधनम्;
बद्ध्वा, बन्धयित्वा, बिभन्त्सित्वा, बाबधित्वा;
अनुबध्य, प्रबन्ध्य, प्रबिभन्त्स्य, प्रबाबध्य; 2 चक्रबन्धं बद्धः, 3 अट्टालिकाबन्धं बद्धः;
बन्धम् 2, बद्ध्वा 2, बन्धम् 2, बन्धयित्वा 2, बिभन्त्सम् 2, बिभन्त्सित्वा 2, बाबधम् 2; बाबधित्वा 2; 4 बन्धुः, 5 बधिरः, 6 ब्रध्नः-बुध्नः, 7 बन्धुरः, 8 बन्धूकः ।
Footnote 1. सन्नन्ताण्ण्वुलि, भष्भावचर्त्वादिकेषु रूपमेवम् । सर्वत्र सन्नन्तेषु एवमेव प्रक्रियेति
ज्ञेयम् ।
Footnote 2. यङन्ते सर्वत्र यङ्निमित्तके नकारलोपे, अभ्यासदीर्घे च रूपनिष्पत्तिरिति ज्ञेयम् ।
Footnote 3. तृचि, ‘झषस्तधोः—’ (8-2-40) इति धत्वम् । ‘झलां जश् झशि’ (8-4-53)
इति धातुधकारस्य दकारः । तस्य, ‘झरो झरि—’ (8-4-65) इति पाक्षिको लोपः ।
एवं तव्यदादिष्वपि प्रक्रिया ज्ञेया ।
Footnote 1. शतरि, क्र्यादित्वात् श्नाप्रत्यये, ‘अनिदिताम्—’ (6-4-24) इति धातुनकारलोपे,
‘श्नाऽभ्यस्तयोः—’ (6-4-112) इत्याकारलोपे च रूपमेवम् ।
Footnote 2. चित्तवत्कर्तृकत्वविवक्षायाम् ण्यन्तेऽत्र परस्मैपदमेव । अचित्तवत्कर्तृकत्वविवक्षायां
तु आत्मनेपदमपि भवतीति ज्ञेयम् ।
Footnote 3. स्यप्रत्ययेऽपि भष्भावचर्त्वादिकं यथायथमूह्यम् ।
Footnote 4. क्विपि, उपधानकारलोपे, भष्भावचर्त्वविकल्पयो रूपम् ।
Footnote 5. क्तप्रत्ययान्तात्, ‘सप्तमी—’ (2-3-36) इति योगविभागात् समासः ।
Footnote 6. सुतमनुबध्नातीति सुतानुबन्धः । ‘कर्मण्यण्’ (3-2-1) इत्यण् ।
Footnote A. ‘ज्ञाताशयस्तस्य ततो व्यतानीत् स कर्मठः कर्म सुतानुबन्धम् ॥’ भ. का. 1. 11.
(अत्र कर्मण्यणि सुतानुबन्धम् इति नपुंसकलिङ्गश्रवणासम्भवात् व्याख्यातृभिः
सुतानुबन्धि इति पाठमाश्रित्य, तस्य च सुतमनुबन्धुं शीलमस्येति व्युत्पत्त्या
ताच्छील्येऽर्थे णिनिप्रत्ययान्तत्वमिति समर्थितम् । तदेव च साध्विति प्रतिभाति ।
Footnote 7. पर्यङ्के बन्धः पर्यङ्कबन्धः । ‘सिद्धशुष्कपक्वबन्धैश्च’ (2-1-41) इति सप्तमीतत्पुरुषः ।
‘तत्पुरुषे कृति—’ (6-3-14) इति प्राप्तस्यालुकः ‘नेन्सिद्धबद्ध्नातिषु च’
(6-3-19) इति निषेधः ।
Footnote 8. अनु बध्यते इत्यनूबन्धः = प्रत्ययगतः कित्त्वङित्त्वादिर्विशेषः । ‘उपसर्गस्य
घञ्यमनुष्ये बहुलम्’ (6-3-122) इति दीर्घः ।
Footnote 1. धातोः संयोगान्तत्वेन गुरुत्वात्, ‘गुरोश्च हलः’ (3-3-103) इत्यकारप्रत्यये रूप-
मेवम् । क्तिनि विवक्षिते तु कित्त्वेनोपधानकारलोपे बद्धिः इत्यपि साधुरिति ज्ञेयम् ।
Footnote 2. ‘अधिकरणे बन्धः’ (3-4-41) इति णमुल् । चक्रे बद्ध इत्यर्थः । कषादित्वात्
यथाविध्यनुप्रयोगः ।
Footnote 3. ‘संज्ञायाम्’ (3-4-42) इति णमुल् । अट्टालिकाबन्ध इति बन्धविशेषस्य
संज्ञा । एवं क्रौञ्चबन्धं बद्धः, पद्मबन्धं बद्धः, शरबन्धं बद्धः, इत्यादिषु सर्वत्र
णमुलुपपत्तिर्ज्ञेया । अत्र सर्बत्र बन्धः इत्यनेन व्यूहविशेषस्य, काव्यगतस्य बन्ध-
विशेषस्य च तन्त्रेण ग्रहणमिति ज्ञेयम् ।
Footnote 4. औणादिके [द. उ. 1. 95] उप्रत्यये रूपमेवम् ।
Footnote 5. औणादिके [द. उ. 8. 26] किरच्प्रत्यये, प्रत्ययस्य कित्त्वेनोपधानकारलोपे च
रूपमेवम् । बद्धमस्य श्रवणेन्द्रियमिति बधिरः = श्रोत्रेन्द्रियहीनः ।
Footnote 6. ‘बन्धेर्ब्रधिबुधि च’ (द. उ. 5-38) इति नक्प्रत्यये ब्रधि-बुधि-इत्यादेशयोश्च
रूपे सिद्ध्यतः । कित्त्वादुपधानकारलोपः । ब्रध्नः = सूर्यः । बुध्नः = सङ्कल्पो मनः,
देवो वा ।
Footnote 7. बाहुलकादौणादिके उरच्प्रत्यये रूपम् । ‘बन्धूर बन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु ।’
इति रन्तिदेववचनाद् दीर्घमध्यमोऽप्यस्तीति विज्ञायते ।
Footnote 8. औणादिके (द. उ. 3-46) ऊकप्रत्यये रूपम् । बन्धूकम् = पुष्पविशेषः । [ID=1098]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

बन्धयति

A

चुरादिः बन्धय बन्धँ संयमने (to bind to restrain to control)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

युध्यते

A

दिवादिः युध्य युधँ सम्प्रहारे (to fight)

युध [Printed book page 1086]
(1354) “युध सम्प्रहारे” (IV-दिवादिः-1173. अक. अनि. आत्म.)
‘सम्प्रहारः = हननम् ।’ इति क्षीरस्वामी ।
योधकः-धिका, योधकः-धिका, युयुत्सकः-त्सिका, योयुधकः-धिका;
योद्धा-योद्ध्री, योधयिता-त्री, युयुत्सिता-त्री, योयुघिता-त्री;
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् (315) ज्ञेयानि । 3 राजयुध्वा, 4 सहयुध्वा, C 5 चापयोधी, 6 प्रतियोधी, 7 युध्यमानः,
[Page1087+ 31]
1 योधः-यौधः, 2 आयुधम्, 3 युद्धम्, 4 ईषद्योधनः-दुर्योधनः-सुयोधनः, 5 ईषद्योधः-
दुर्योधः-सुयोधः, 6 युयुधानः, 7 योधयन्-न्ती, 8 युधानः, 9 युध्मः, A युयुत्सा, आयोधनम्, इत्यादीनि रूपाण्यस्माद् भवन्तीति विशेषः ।
Footnote 3. ‘राजनि युधिकृञः’ (3-2-95) इति कर्मण्युपपदे क्वनिप्प्रत्ययः । राजानं योधितवान्
राजयुध्वा । अत्रान्तर्भावितण्यर्थाद् धातोः सकर्मकत्वमिति बोध्यम् । ‘भूते’
(3-2-84) इत्यधिकारे प्रत्ययस्यास्य विधानात् भूतकालिकत्वम् । स्त्रियाम्, ‘वनो
न हशः—’ (वा. 4-1-7) इति निषेधाद् ङीब्रेफौ न ।
Footnote 4. ‘सहे च’ (3-2-96) इत्यनेन सहशब्द उपपदे धातोः क्वनिप् । सह योधितवान्
सहयुध्वा ।
Footnote C. ‘संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ ।’ भ. का. 5. 37.
Footnote 5. ‘बहुलमाभीक्ष्ण्ये’ (3-2-81) इति णिनिः । चापयोधी = किरातादि-जातिविशेषः ।
Footnote 6. गम्यादिषु (3-3-3) पाठात् भविष्यत्काल औणादिको णिनिः । प्रतियोधी = यः
प्रतिद्वन्द्वितया युद्धं करिष्यति स उच्यते ।
Footnote 7. शानचि दिवादित्वाच्छ्यनि रूपमेवम् । युध्यति इत्यादिप्रयोगाणामुपपत्तिस्तु–
‘सुप आत्मनः क्यच्’ (3-1-8) इति क्यजन्तत्वेन, दिवादेरवृत्कृतत्वेनाकृतिगण-
त्वाद्वा साधुत्वमिति बोध्यम् ।
Footnote 1. प्रज्ञादिषु (5-4-38) योधशब्दस्य पाठात् इगुपधलक्षणं कप्रत्ययं बाधित्वा,
पचादिपाठपरिकल्पनेनाच् । स्वार्थे तद्धितेऽणि विकल्पेन प्रवृत्ते तु योधः—यौधः
इति रूपद्वयस्योपपन्नत्वं ज्ञेयम् ।
Footnote 2. आदाय युध्यन्तेऽनेनेति आयुधम् । ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्य-
र्थम्’ (वा. 3-3-58) इति वचनात् घञर्थे करणे कप्रत्यये, कित्त्वेन गुणनिषेधे च
रूपमेवम् ।
Footnote 3. ‘क्तिच्क्तौ च संज्ञायाम्’ (3-3-174) इति संज्ञायां क्तप्रयये धत्व-जश्त्वयोश्च रूपम् ।
Footnote 4. ईषदाद्युपपदेषु, ‘भाषायां शासियुधि—’ (वा. 3-3-130) इति खलपवादो
युच्प्रत्ययः । अत्रापि अन्तर्भावितण्यर्थाद्धातोः, विवक्षया वा सकर्मकत्वं बोध्यम् ।
कर्मणि प्रत्ययोऽयम् ।
Footnote 5. ‘भाषायां शासियुधि—’ (वा. 3-3-130) इति युच् वा—इति प्रक्रियाकौ-
मुदी । तन्मते युजभावपक्षे खल्प्रत्यये रूपाणामेषां सिद्धिर्बोध्या ।
Footnote 6. ‘बाहुलकादानचि द्वित्वम् ।’ इति मा. धा. वृत्तिः । बाहुलकादेव प्रत्ययस्य
कित्त्वमपि बोध्यम् । तेन न गुणः ।
Footnote 7. ‘बुधयुध—’ (1-3-86) इति कर्तृगामिन्यपि क्रियाफले ण्यन्तात् परस्मैपदमेव ।
“ये चात्राकर्मकाः, तेषाम्, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (1-3-88) इत्येव
परस्मैपदे सिद्धे वचनमिदम्—अचित्तवत्कर्तृकार्थम् ॥” इति काशिका
(1-3-86) अत्रानुसन्धेया ।
Footnote 8. ‘युधिबुधिदृशिभ्यः किच्च’ [द. उ. 5-33] इत्यानच्प्रत्यये, तस्य कित्त्वेन गुणनिषेधे
च युधानः इति सिद्ध्यति । युधानः = रिपुः ।
Footnote 9. ‘इषियुधि—’ [द. उ. 7-31] इति मक्प्रत्ययः । युध्यतेऽस्मिन् राजेति
युध्मः = शरत्कालः ।
Footnote A. ‘युयुत्सारहितो रामं ममारापहरन् वने ॥’ भ. का. 9. 125. [ID=1354]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

अनुरुध्यते

A

दिवादिः अनुरुध्य रुधँ कामे (to pity to be compassionate)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

रुणद्धि

A

रुधादिः रुनध् रुधिँर् आवरणे (to obstruct to surround to besiege)

रुधिर् [Printed book page 1131]
(1424) “रुधिर् आवरणे” (VII-रुधादिः-1438. सक. अनि. उभ.)
‘आवरणम् = व्याप्तिः ।’ इति क्षीरस्वामी ।
‘रुन्धे रुणध्यावरणे, कामेऽनावनुरुध्यते ॥’ (श्लो. 121) इति देवः ।
रोधकः-धिका, रोधकः-धिका, रुरुत्सकः-त्सिका, रोरुधकः-धिका;
रोद्धा-रोद्ध्री, रोधयिता-त्री, रुरुत्सिता-त्री, रोरुधिता-त्री;
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभिन्दतिवत् (1160) ज्ञेयानि । 2 अङ्गरोधी-उपरोधी, 3 प्रतिरोधी, 4 अनुरोधी, 5 व्रजे उपरुध्य-व्रजोपरोधं, B कारोपरोधम् वा गाः-पाययति, 6 रोधनः, 7 मार्गरुत् C -द्-रुधौ-रुधः, 8 विरोधी,
[Page1132+ 24]
1 गां व्रजमवरुन्धन्, 2 रुधिरम्, 3 रोधः, इतीमान्यस्माद् भवन्तीति विशेषः ।
Footnote 2. अङ्गानि रुणद्धीति अङ्गरोधी । ग्रह्यादिषु (3-1-134) कर्मण्यणोऽपवादो णिनिप्रत्ययः ।
एवम् उपरुणद्धीति उपरोधी इत्यत्रापि ग्रह्यादित्वादेव णिनिः ।
Footnote 3. ‘भविष्यति गम्यादयः’ (3-3-3) इत्यत्र गणे पाठात् भविष्यत्काले औणादिको
णिनिरत्र ।
Footnote 4. ‘सम्पृचानुरुध—’ (3-2-142) इत्यादिना ताच्छीलिको घिनुण्प्रत्ययः ।
Footnote 5. ‘सप्तम्यां चोपपीडरुधकर्षः’ (3-4-49) इति सप्तम्यन्ते तृतीयान्ते चोपपदे
उपपूर्वकादस्मात् णमुल् । ‘तृतीयाप्रभृतीनि—’ (2-2-21) इति समासविकल्पः ।
Footnote B. ‘तं शूरसूनुं सह जाययोग्रः कारोपरोधं निगलैरसेष्ट ॥’ वा. वि. 2. 40.
Footnote 6. नन्द्यादिषु पाठपरिकल्पनादत्र कर्तरि ल्युप्रत्ययः ।
Footnote 7. मार्गं रुणद्धीति मार्गरुध्, ‘क्विप् च’ (3-2-76) इति कर्मण्युपपदे क्विप् ।
Footnote C. ‘निरुध्यमाना यदुभिः कथञ्चित् मुहुर्यदुच्चिक्षुपुरग्रपादान् ।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्ध्य गन्तुं तुरगास्तदीषुः ॥’ शि. व. 3-29.
Footnote 8. विशेषेण रुणद्धीति विरोधी, ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये णिनिः ।
Footnote 1. अयं द्विकर्मकः । तेन, अत्र ‘अकथितं च’ (1-4-51) इति कर्मसंज्ञायां द्वितीया ॥
Footnote 2. ‘इषिमदिमुदि—’ (द. उ. 8 26) इत्यादिना किरच्प्रत्यये रूपमेवम् । रुधिरम् =
रक्तम् ।
Footnote 3. ‘असुन्’ (द. उ. 9-49) इत्यसुन्प्रत्यये रूपम् । रोधः = जलप्रवाहः । सकारान्तः । [ID=1424]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

राध्यति

A

दिवादिः राध्य राधँ वृद्धौ (to grow)

राध [Printed book page 1114]
(1395) “राध संसिद्धौ” (IV-दिवादिः-1180. अक. अनि. पर.) [अ]
‘राध्नोति संसिद्ध्यर्थे श्नौ, राध्येद् वृद्धावकर्मकात् ।’ (श्लो. 122) इति देवः ।
“अस्य तु सिद्धिद्रोहदैवपर्यालोचनादयोऽर्थाः ।” इति धा. का. व्याख्या (2-63) ।
राधकः-धिका, राधकः-धिका, रिरात्सकः-त्सिका, राराधकः-धिका;
राद्धा-राद्ध्री, राधयिता-त्री, रिरात्सिता-त्री, राराधिता-त्री;
इतीमानि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् (315) बोध्यानि ।
देवदत्ताय 1 राध्यन्-न्ती-ती, 2 राध्यन् ओदनः स्वयमेव, 3 राद्धिः, इतीमान्य-
स्माद् भवन्ति ।
[Page1115+ 26]

Footnote [अ] ‘राधोऽकर्मकाद् वृद्धावेव’ (ग. सू.) इति दिवादिषु पठ्यते । अस्यायमर्थः-
एवकारो भिन्नकमः । अस्मादकर्मकादेव श्यन् । वृद्धिग्रहणं तु उदाहरणप्रदर्शनार्थम्
यथा वृद्धावकर्मकः, एवमकर्मकेषु सर्वत्राप्यर्थेषु श्यनं लभतेऽयमिति । ततश्च,
‘वृद्धिक्षय-भय-जीवित-मरणं लज्जा-सत्ता-स्थिति-जागरणम् ।
शयन-क्रीडा-रुचि-दीप्त्यर्थं धातुगणं तमकर्मकमाहुः ॥’ इत्युपात्तानामर्थानाम् वृद्धिशब्द
उपलक्षक इति भावः । एवञ्च, ‘राध्येद् वृद्धावकर्मकात् ।’ इति देववचने
(श्लो 1. 22) वृद्धिग्रहणं तु अकर्मकक्रियोदाहरणमात्रमिति पुरुषकारे व्यक्तम् ।
धातुकाव्यव्याख्यायां तु (2-63) एवकारस्य इवार्थकत्वमाश्रित्य, ‘वृद्धावेव =
वृद्ध्यर्थ इव ।’ इति विवृतम् । काश्यपस्तु एवकारस्य यथाश्रुतान्वयमिच्छन्
वृद्ध्यर्थ एव श्यन् इत्यभ्युपगतवानिति माधवधातुवृत्तितो ज्ञायते । सिद्ध्यर्थे
‘राध्यत्योदनः स्वयमेव’ इति भाष्य (3-1-87) प्रयोगात्, ‘देवदत्ताय
राध्यति’ इति दैवपर्यालोचनार्थे काशिकायां (1-4-37) प्रयुक्तत्वात्,
‘— यन्मह्यमपराध्यति ।’ (शिशुपालवधे 2-11) इति द्रोहार्थे माघप्रयोगाच्च
काश्यपोक्तिर्न समीचीना; उपात्तस्थलेषु सर्वत्राकर्मकत्वे मति वृद्ध्यर्थत्वाभावात् ।
विस्तरस्तु अन्यत्र ।
Footnote 1. ‘राधोऽकर्मकाद् वृद्धावेव’ (ग. सू. दिवादिषु) इति श्यन् । स्त्रियाम्,
‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम्विकल्पः । ‘राधीक्ष्योर्यस्य विप्रश्नः’
(1-4-39) इति चतुर्थी । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयन् इत्यर्थः ।
Footnote 2. कर्मकर्तरि प्रयोगः । अत्र ‘राध्यतेर्विक्लित्तिवचनत्वात्…’ इति भाष्यप्रदीपः ।
तेनात्र सामान्यतः सिद्ध्यर्थकत्वेऽपि सिद्धिविशेषरूपपाकोऽपि धातूनामनेकार्थकत्वाद्
बोध्यः ।
Footnote 3. हलन्तलक्षणाकारप्रत्ययापवादः ‘क्तिन् आबादिभ्यः…’ (वा. 3-3-94) इति क्तिन् । [ID=1395]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

राध्नोति

A

स्वादिः राध्नु राधँ संसिद्धौ (to accomplish)

[Printed book page 1115]
(1396) “राध संसिद्धौ” (V-स्वादिः-1262. सक. अनि. पर.)
‘राध्नोति संसिद्ध्यर्थे श्नौ राध्येद् वृद्धावकर्मकात् ।’ (श्लो. 122) इति देवः ।
राधकः-धिका, राधकः-धिका, 1 आरिरात्सकः-प्रतिरित्सकः-त्सिका, राराधकः-
धिका; राद्धा-राद्ध्री, राधयिता-त्री, आरिरात्सिता-त्री, राराधिता-त्री; 2 राध्नुवन्-ती, राधयन्-न्ती, आरिरात्सन्-प्रतिरित्सन्-न्ती; –
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् (315) ज्ञेयानि । 3 अपरेधिवान् ।
Footnote 1. संसिद्ध्यर्थे रूपमेवम् । धातूनामनेकाथत्वात् हिंसार्थे तु ‘राधो हिंसायां सनीम्
वाच्यः’ (वा. 7-4-54) इति सनि इस् । ‘अत्र लोपोऽभ्यासस्य’ (7-4-53)
इत्यभ्यासलोपः । ‘स्कोः—’ (8-2-29) इति सकारस्य लोपः । इदमेव वार्तिकं
(वा. 7-4-54) धातोरस्य हिंसार्थत्वे ज्ञापकम् । हिंसार्थे सकर्मकोऽयं धातुः ।
Footnote 2. धातोः सकर्मकत्वे ‘स्वादिभ्यः—’ (3-1-73) इति श्नुः । अकर्मकत्वे तु
‘राधोऽकर्मकाद् वृद्धावेव’ (ग. सू. दिवादौ) इति श्यनेव ।
Footnote 3. कर्तरि लिटः क्वसौ, ‘राधो हिंसायाम्’ (6-4-123) इति एत्वाभ्यासलोपौ ।
अत्रापि धातोर्हिसार्थकत्वस्यानूद्यमानत्वात् धातोरनेकार्थत्वमिति ज्ञेयम् । हिंसाभि-
न्नार्थेषु तु रराधिवान् इति क्वसुप्रत्यये रूपमिति ज्ञेयम् । [ID=1396]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

विध्यति

A

दिवादिः विध्य व्यधँ ताडने (to strike to hurt)

व्यध [Printed book page 1270]
(1654) “व्यध ताडने” (IV-दिवादिः-1181. सक. अनि. पर.)
‘— ताडनं—प्रायेण विदारणपर्यन्तम्’ इति धा. का. व्या. (2-63) ।
व्याधकः-धिका, व्याधकः-धिका, विव्यत्सकः-त्सिका, 2 वेविधकः-धिका;
व्यद्धा-व्यद्ध्री, व्याधयिता-त्री, विव्यत्सिता-त्री, वेविधिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि प्लीधातुवत् (1081) बोध्यानि । 3 मृगावित्- B मर्मावित्-दैत्यावित्-हृदयावित्, व्यद्धा, 4 व्यधः, आव्याधः, 5 आविधम्, विध्यन्,
[Page1271+ 28]
1 व्याधः, णमुलि-व्याधं-व्याधम् A, 2 विधुः, 3 विधुरः इमानि रूपाण्यधिकान्यत्रेति
विशेषः । यगन्ते B विध्यमानः आविद्धम्-आविद्धः, आविद्धवान्, विद्धिः, विद्ध्वा ।
Footnote 2. यङन्ते ‘ग्रहिज्यावयिव्यधि—’ (6-1-16) इति सम्प्रसारणम् । तच्च ‘न सम्प्र-
सारणे सम्प्रसारणम्’ (6-1-37) इति निषेधात् पूर्वस्य वकारस्य न । यकारस्य
सम्प्रसारणे पूर्वरूपादिकेषु च कृतेषु रूपमेवम् ।
Footnote 3. मृगं आविध्यतीति मृगावित् । ‘ग्रहिज्यावयिव्यधि—’ (6-1-16) इति
संप्रसारणे, ‘नहिवृतिवृषिव्यधिरुचि—’ (6-3-116) इति क्विप्प्रत्ययान्तेषु उत्तर-
पदेषु पूर्वपदस्य दीर्घः संहितायां विषये । दैत्यावित् इत्यादिष्वपि एवमेव प्रक्रिया
ज्ञेया ।
Footnote B. ‘तापिञ्छनीकाशरुचिप्रतीचि स्वर्वैरिमर्माविधि पुंसि रागात् ।’ वा. वि. 3-21.
Footnote 4. ‘व्यधजपोरनुपसर्गे’ (3-3-61) इति अनुपसर्गे अप्प्रत्ययः । घञोऽपवादः ।
उपसर्गे तु आव्याधः इति ।
Footnote 5. ‘घञर्थे कविधानं स्थास्नापाव्यधि—’ (वा. 3-8-58) इति अकर्तरि च कारके
संज्ञायाम् कप्रत्ययो भवति । घञोऽपवादः । सम्प्रसारणादिकम् । आविध्यन्ति
अनेनेत्याविधम् शस्त्रम् ।
Footnote 1. ‘श्याद्व्यध—’ (3-1-141) इत्यनुपसर्गे धातोः णप्रत्ययो भवति ।
Footnote A. ‘व्याधं व्याधममूढौ तौ यमसाच्चक्रतुर्विषौ ॥’ भ. का. 5-3.
Footnote 2. ‘पॄभिदिव्यधि—’ (द. उ. 1-108) इति कुप्रत्यये संप्रसारणे च रूपमेवम् ।
विध्यतीति विधुः = आयुधः, विष्णुशशिवाय्वग्नयश्च ।
Footnote 3. ‘विदिभिदि—’ (3-2-162) इत्यत्र ‘व्यधेः संप्रसारणं कुरच्च’ (वा. 3-2-162)
इति कुरच्प्रत्यये संप्रसारणे च विधुरः इति रूपं भवति । प्रक्रियासर्वस्वे तु
औणादिके कुरच्प्रत्यये रूपमिदं साधितम् ।
Footnote B. ‘मर्माविद्भिस्तमस्काण्डैः विध्यमानोऽप्यनेकधा ॥’ भ. का. 9-66. [ID=1653]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

शुध्यति

A

दिवादिः शुध्य शुधँ शौचे (to become pure)

शुध [Printed book page 1307]
(1732) “शुध शौचे” (IV-दिवादिः-1191. सक. अनि. पर.)
शौचम् = नैर्मल्यम् इति क्षीरस्वामी ।
‘शुद्धौ शुन्धति भूवादेः शुधेः शोचे तु शुध्यति ॥’ (श्लो. 117) इति देवः ।
शोधने, व्यवस्थिते, अन्वेषणे नाशने च दृश्यते । यदाह मनुः ‘वेदाभ्यासेन
शुध्यति ।’ (11-46) इति । ‘अत्र नश्यति इत्यर्थः’ इति कुल्लूकभट्टः ।
शोधकः-धिका, शोधकः-धिका, शुशुत्सकः-त्सिका, शोशुधकः-धिका;
शोद्धा-शोद्ध्री, शोधयिता-त्री, शुशुत्सिता-त्री, शोशुधिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकक्षुध्यतिवत् (315) ऊह्यानि । [ID=1730]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

साध्नोति

A

स्वादिः साध्नु साधँ संसिद्धौ (to accomplish)

साध [Printed book page 1372]
(1902) “साध संसिद्धौ” (V-स्वादिः-1261. अक. अनि. पर.)
साधकः-धिका, साधकः-धिका, 1 सिसात्सकः-त्सिका, सासाधकः-धिका;
साद्धा-साद्ध्री, साधयिता-त्री, सिसात्सिता-त्री, सासाधिता-त्री; इत्यादिकानि
रूपाणि सर्वाण्यपि दैवादिकक्षुध्यतिवत् (315) ज्ञेयानि । ण्यन्तात् नन्द्यादित्वात्
ल्युप्रत्यये साधनः, औणादिके [द. उ. 1-86] उणूप्रत्यये साधुः इति रूपम् ।
[Page1373+ 27]
1 मातरि साधुः । तुमुनि-प्रसाधयितुम् A ।
Footnote 1. अत्र ‘आदेशप्रत्यययोः’ (8-3-59) इति षत्वे सिषात्सकः इति रूपमाह
माधवः । वस्तुतोऽत्र प्रयोगे आदेशभूतसकारस्य, प्रत्ययावयवसकारस्य वा
अभावात् इणः परत्वेऽपि षत्वं नैव प्राप्तमिति चिन्त्यमिदम् ।
Footnote 1. “‘साध्वसाधुप्रयोगे सप्तमी वक्तव्या’ (वा. 2-3-43) इति सप्तमी । अनर्चार्थ-
मिदं वार्त्तिकम् । अर्चायां तु ‘साधुनिपुणाभ्यामर्चायाम्’ (2-3-43) इत्येव
सिद्धम् । तस्मादत्र अर्चाग्रहणं निपुणार्थं संपद्यते । ‘साधुर्भृत्यो राज्ञः’ इत्यत्र
मृत्यापेक्षया षष्ठी, न साध्वपेक्षयेति वाक्यार्थज्ञा आहुः’ इति कैयटादौ प्रतिपा-
दितम्” इति माधवः ।
Footnote A. ‘… धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।’ शि. व. 5-60. [ID=1901]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

सेधति

A

भ्वादिः सेध षिधँ गत्याम् (to regulate to punish)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

सेधति

A

भ्वादिः सेध षिधूँ शास्त्रे माङ्गल्ये च (to rule to be auspicious)

17
Q

सिध्यति

A

दिवादिः सिध्य षिधुँ संराद्धौ (to be thoroughly prepared to be accomplished)

18
Q

सिध्यति

A

सिध्

षिधुँ संराद्धौ( to be thoroughly prepared, to be accomplished, to be achieved, to be ready )

दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः

षिधु [Printed book page 1344]
(1836) “षिधु संराद्धौ” (IV-दिवादिः-1192. सक. अनि. पर.)
‘सिधेः सिध्यति संराद्धौ—’ (श्लो. 116) इति देवः ।
संराद्धिः = निष्पत्तिः । “केचिदूदितं पठन्ति; तदसत् । अनुदात्तोपदेशवै-
यर्थ्यात्” इति माधवः । 1 सिद्ध्यः, 2 सिधित्वा-सेधित्वा-सिद्ध्वा, 3 सिद्धः, 4 साङ्काश्यसिद्धः, 5 अन्नं साधयन्,
तपः सेधयन्, इति विशेषरूपाणि । इतराणि सर्वाण्यपि पूर्वधातुवत् ज्ञेयानि ।
Footnote 1. ‘पुष्यसिंद्ध्यौ नक्षत्रे’ (3-1-116) इति निपातनात् नक्षत्रविशेषे वाच्ये सति
धातोः क्यप् । ण्यतोऽपवादः । सिद्ध्यति अस्मिन्नुपक्रान्तं कार्यमिति सिद्ध्यः =
पुष्यनक्षत्रः । अन्यत्र सेध्यम् इति ण्यदेव ।
Footnote 2. उदित्त्वादिड्विकल्पः, ‘रलो व्युपधात्—’ (1-2-26) इति कित्त्वविकल्पः । तेन
रूपत्रयम् ।
Footnote 3. उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायामिण्निषेधः । संज्ञायां क्तप्रत्ययोऽयम् ।
सिद्धा इति देवयोनिविशेषाः ।
Footnote 4. सांकाश्ये सिद्धः सांकाश्यसिद्धः । ‘सिद्धशुष्कपक्वबन्धैश्च’ (2-1-41) इति
सप्तमीसमासः । ‘नेन्सिद्धबध्नातिषु च’ (6-3-19) इति सप्तम्या अलुको निषेधः;
अन्यथा, ‘साङ्काश्ये—’ इति सप्तम्याः ‘तत्पुरुषे कृति—’ (6-3-14) इति
अलुक् श्रूयेत । तत्र सूत्रे बहुलग्रहणादेव क्वचिदलुकोऽप्रवृत्तौ तु नात्र सिद्धग्रहणं
करणमित्यास्तां तावत् ।
Footnote 5. ‘सिद्ध्यतेरपारलौकिकेऽर्थे’ (6-1-149) इति णावात्वम् । परलोकसाधनभूते तु
‘तपः सेधयन्’ इत्यत्र न आत्वम् । [ID=1835]