da_antesu_16 Flashcards
अत्ति
अद् अदँ भक्षणे अदादिः परस्मैपदी सकर्मकः अनिट् to eat to binge
अद [Printed book page 0019]
(21) “अद भक्षणे” (II-अदादिः-1011-सक-अनि. पर.)
आदकः-दिका, आदकः-दिका, 5 जिघत्सकः-त्सिका; 6 अत्ता-त्री, आदयिता-त्री, जिघत्सिता, त्री; A अदन्-ती, आदयन्-न्ती, जिघत्सन्-न्ती;
अत्स्यन्-ती-न्ती, आदयिष्यन्-ती-न्ती, जिघत्सिष्यन्-ती-न्ती;
[Page0020+ 41]
आ 1 दयमानः, आदयिष्यमाणः; सस्या 2 त्, आमात्, क्रव्यात् B 3, क्रव्या 4 दः, प्रा C णात्, आमिषा D दः; 5 जग्धम्-ग्धः-ग्धवान्, 6 अन्नम्-न्नवान्; आदितम्-तः, जिघत्सितम्-तः-तवान्, 7 घसः, अन्ना 8 दी, पुत्रादिनी, आदिवान्, जक्षि 9 वान्, अद् 10 मरः, जिघत् E सुः, अत्तव्यम्, आदयितव्यम्, जिघत्सितव्यम्; अदनीयम्, आदनीयम्, जिघत्सनीयम्; आद्यम्, आद्यम्, जिघत्स्यम्; ईषददः-दुरदः-स्वदः; अद्यमानः, आद्यमानः, जिघत्स्यमानः; 11 घासः, घसः, 12 न्यादः F, निघसः, आदः, G संघसः 13, प्रघसः, जिघत्सः; 14 अत्तुम्-आदको (वा याति), आदयितुम्, जिघत्सितुम्; [Page0021+ 34]
अदनम्, आदनम्, जिघत्सनम्;
जग्धिः, आदना, जिघत्सा, जिघत्सयिषा;
जग्ध्वा, आदयित्वा, जिघत्सित्वा;
प्रजग्ध्य, समाद्य, प्रजिघत्स्य,
आदम् 2, जग्ध्वा 2, आदम् 2, आदयित्वा 2, जिघत्सम् 2; जिघत्सित्वा 2 1 अत्त्रिः, 2 अद्रिः;
Footnote 5. ‘लुङ्सनोर्घसॢ’ (2-4-37) इति
घसॢ । ‘सस्स्यार्धधातुके’ (7-4-49)
इति सकारस्य तकारः ।
Footnote 6. ‘एकाच उपदेशे—’ (7-2-10)
इतीण्णिषेधः ।
Footnote A. ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः’ धा. का. 2. 44.
Footnote 1. ‘अदेः प्रतिषेधः’ (वा-1-3-87) इति
अस्य भक्षणार्थत्वेऽपि आत्मनेप-
दित्वमेव ।
Footnote 2. ‘अदोऽनन्ने’ (3-2-68) इति विट् ।
Footnote B. ‘व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिस्स निशाचरैः’ भ. का. 6-94.
Footnote 3. ‘क्रव्ये च’ (3-2-69) इति विट् ।
Footnote 4. ‘वाऽसरूपो—’ (3-1-94) इति न्याये-
नाणपि ।
Footnote C. ‘वालितो दूरभाग् रामः बाणं प्राणादमत्यजत्’ भ. का. 6. 123.
Footnote D. ‘तव विदितविषादो दृष्टकृत्स्नामिषादः’ भ. का. 10-17.
Footnote 5. ‘अदो जग्धिर्ल्यप् ति किति’ (2-4-36)
इति जग्ध्यादेशः ।
Footnote 6. ‘बहुलं तणि, अन्नवधक—’ (2-4-54)
इति वार्तिकात् प्रयोगोऽयमपि साधुः ।
‘अन्नाण्णः’ (4-4-85) इति
निर्देशाच्च ।
Footnote 7. ‘अच्युपसंख्यानम्-’ (वा. 2-4-37)
इति घसॢ ।
Footnote 8. ‘सुप्यजातौ—’ (3-2-78) इति णिनिः ।
Footnote 9. ‘लिट्यन्यतरस्याम्’ (2-4-40) इति
घसॢ विकल्पेन । ‘वस्वेकाज्—’
(7-2-67) इति इट् ।
Footnote 10. ‘सृघस्यदः क्मरच्’ (3-2-160)
इति तच्छीलादिषु कर्तृषु क्मरच्
प्रत्ययः ।
Footnote E. ‘जिघत्सोः नूनमापादि ध्वंसोऽयं तां निशाचरात्’ भ-का 6-31.
Footnote 11. ‘घञपोश्च’ (2-4-38) इति घसॢ ।
Footnote 12. ‘नौ ण च’ (3-3-60) इति वा अप् ।
Footnote F. ‘व्याप्नुवन्तो दिशोऽन्यादान् कुर्वन्तस्सव्यधान् हरीन्’ भ. का. 7-56.
अविद्यमानः न्यादः = आहारः येषां तान् इत्यर्थः ।
Footnote G. ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः’ भ. का. 7-56.
Footnote 13. ‘उपसर्गेऽदः’ (3-3-59) इत्यप् ।
Footnote 14. ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’
(3-3-10) इति तुमुण्ण्वुलौ ।
Footnote 1. औणादिकः त्रिन् प्रत्ययः (द. उ.
1. 37.) । ॠषिः ।
Footnote 2. औणादिकः (द. उ. 1-34.) क्रिन्
प्रत्ययः । [ID=21]
क्षुणत्ति
क्षुद् क्षुदिँर् सम्पेषणे रुधादिः उभयपदी सकर्मकः अनिट् to crush to grind to powder
क्षुदिर् [Printed book page 0328]
(314) “क्षुदिर् सम्पेषणे” (VII-रुघादिः-1443. सक. अनि. उभ.)
क्षोदकः-दिका, क्षोदकः-दिका, 1 चुक्षुत्सकः-त्सिका, चोक्षुदकः-दिका;
क्षोत्ता-त्री, क्षोदयिता-त्री, चुक्षुत्सिता-त्री, चोक्षुदिता-त्री; 2 क्षुन्दन्-ती, क्षोदयन्-न्ती, चुक्षुत्सन्-न्ती; –
क्षोत्स्यन्-न्ती-ती, क्षोदयिष्यन्-न्ती-ती, चुक्षुत्सिष्यन्-न्ती-ती; –
क्षुन्दानः, क्षोदयमानः, चुक्षुत्समानः, चोक्षुद्यमानः;
क्षोत्स्यमानः, क्षोदयिष्यमाणः, चुक्षुत्सिष्यमाणः, चोक्षुदिष्यमाणः; 3 क्षुत्-क्षुद्-क्षुदौ-क्षुदः; — — – 4 क्षुण्णः-क्षुण्णम् A -क्षुण्णवान्; क्षोदितः, चुक्षुत्सितः, चोक्षुदितः-तवान्; 5 क्षुदः, 6 प्रक्षोदी, क्षोदः, चुक्षुत्सुः, चोक्षुदः;
क्षोत्तव्यम्, क्षोदयितव्यम्, चुक्षुत्सितव्यम्, चोक्षुदितव्यम्;
क्षोदनीयम्, क्षोदनीयम्, चुक्षुत्सनीयम्, चोक्षुदनीयम्;
क्षोद्यम्, क्षोद्यम्, चुक्षुत्स्यम्, चोक्षुद्यम्;
ईषत्क्षोदः-दुःक्षोदः-सुक्षोदः; — –
क्षुद्यमानः, क्षोद्यमानः, चुक्षुत्स्यमानः, चोक्षुद्यमानः;
क्षोदः, क्षोदः; चुक्षुत्सः, चोक्षुदः;
क्षोत्तुम्, क्षोदयितुम्, चुक्षुत्सितुम्, चोक्षुदितुम्;
क्षुत्तिः, क्षोदना, चुक्षुत्सा, चोक्षुदा;
क्षोदनम्, क्षोदनम्, चुक्षुत्सनम्, चोक्षुदनम्;
क्षुत्त्वा, क्षोदयित्वा, चुक्षुत्सित्वा, चोक्षुदित्वा;
[Page0329+ 26]
प्रक्षुद्य, प्रक्षोद्य, प्रचुक्षुत्स्य, प्रचोक्षुद्य;
क्षोदम् 2, क्षुत्त्वा 2, क्षोदम् 2, क्षोदयित्वा 2, चुक्षुत्सम् 2, चुक्षुत्सित्वा 2, चोक्षुदम् 2; चोक्षुदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । चर्त्वम् ।
Footnote 2. ‘रुधादिभ्यः श्नम्, (3-1-78) इति श्नम्, श्नमो मित्त्वात् अन्त्यादचः परो भवति ।
‘श्नसोरल्लोपः’ (6-4-111) इत्यकारलोपः ।
Footnote 3. ‘वाऽवसाने’ (8-4-56) इति चर्त्वविकल्पः ।
Footnote 4. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठातकारस्य, धातुदकारस्य
च नत्वम् । णत्वम्, ष्टुत्वं च ।
Footnote A. ‘तैर्वृक्णरुग्णसंभुग्नक्षुण्णभिन्नविपन्नकैः ।
निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी ॥’ भ. का. 4-42.
Footnote 5. ‘इगुपध—’ (3-1-135) इति कर्तरि कः ।
Footnote 6. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये गम्यमाने णिनिः । [ID=314]
खिन्ते
खिद् खिदँ दैन्ये रुधादिः आत्मनेपदी अकर्मकः अनिट् to be sad to be distressed to have sorrow
खिद्यते
खिद् खिदँ दैन्ये दिवादिः आत्मनेपदी अकर्मकः अनिट् to be sad to be displeased to be distressed
खिद [Printed book page 0353]
(349) “खिद दैन्ये” (IV-दिवादिः-1170. अक. अनि. आत्म.)
‘दैन्येऽर्थे खिद्यते खिन्ते, परिघाते[तापे] तु खिन्दति ।’ (श्लो. 112) इति देवः ।
खेदकः-दिका, खेदकः-दिका, 1 चिखित्सकः-त्सिका, 2 चेखिदकः-दिका;
खेत्ता-त्त्री, खेदयिता-त्री, चिखित्सिता-त्री, चेखिदिता-त्री;
खेदयन्-न्ती, खेदयिष्यन्-न्ती-ती; — – 3 खिद्यमानः, खेदयमानः, चिखित्समानः, चेखिद्यमानः;
खेत्स्यमानः, खेदयिष्यमाणः, चिखित्सिष्यमाणः, चेखिदिष्यमाणः;
खित्-खिद्-खिदौ-खिदः; — – 4 खिन्नम्-खिन्नः-खिन्नवान्, खेदितः, चिखित्सितः, चेखिदितः-तवान्; 5 खिदः, खेदनः 6, खेदः, चिखित्सुः, चेखिदः;
खेत्तव्यम्, खेदयितव्यम्, चिखित्सितव्यम्, चेखिदितव्यम्;
खेदनीयम्, खेदनीयम्, चिखित्सनीयम्, चेखिदनीयम्;
खेद्यम्, खेद्यम्, चिखित्स्यम्, चेखिद्यम्;
ईषत्खेदः-दुष्खेदः-सुखेदः; — –
[Page0354+ 24]
खिद्यमानः, खेद्यमानः, चिखित्स्यमानः, चेखिद्यमानः; A खेदः, खेदः, चिखित्सः, चेखिदः;
खेत्तुम्, खेदयितुम्, चिखित्सितुम्, चेखिदितुम्; 1 खिदा, खेदना, चिखित्सा, चेखिदा;
खेदनम्, खेदनम्, चिखित्सनम्, चेखिदनम्;
खित्त्वा, खेदयित्वा, चिखित्सित्वा, चेखिदित्वा;
सङ्खिद्य, सङ्खेद्य, प्रचिखित्स्य, प्रचेखिद्य;
खेदम् 2, खित्त्वा 2, खेदम् 2, खेदयित्वा 2, चिखित्सम् 2, चिखित्सित्वा 2, चेखिदम् 2; चेखिदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । तेनाङ्गस्य गुणो न ।
Footnote 2. ‘गुणो यङ्लुकोः’ (7-4-82) इत्यभ्यासस्य गुणः ।
Footnote 3. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन्विकरणप्रत्ययः ।
Footnote 4. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति धातुदकारनिष्ठातकारयोः
मत्वम् ।
Footnote 5. ‘इगुषधज्ञाप्रीकिरः कः’ (3-1-135) इति कर्तरि कः प्रत्ययः ।
Footnote 6. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिको युच् ।
Footnote A. ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गकाः भृत्याः सुनद्धं बहुरक्तमंशुकम् ।
विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान् ॥’ धा. का. 2-61.
Footnote 1. भिदादिपाठात् (3-3-104) खिदा इत्यत्राङ् । [ID=349]
[Printed book page 0354]
(350) “खिद परिघाते” (VI-तुदादिः-1436. सक. अनि. पर.)
‘परितापे’ इति क्षीरस्वामी । मुचादिः ।
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे (घाते) तु खिन्दति ।’ (श्लो-112) इति देवः । 2 खिन्दन्-न्ती-ती, B खेत्स्यन्-न्ती-ती, C परिखेदितम्, इत्यादीनि रूपाण्यस्य
घातोः विशेषः । अन्यानि सर्वाण्यपि रूपाणि दैवादिकदैन्यार्थक (349)
खिद्यतिवत् ज्ञेयानि ।
Footnote 2. ‘तुदादिभ्यः शः’ (3-1-77) इति शः विकरणप्रत्ययः । ‘शे मुचादीनाम्’
(7-1-59) इति नुम् । ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुमो वैकल्पिकत्वम् ।
Footnote B. ‘मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चन् भियं
गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन् ।
भुक्त्वा गोरससिक्तमन्नमजितः कंसस्य कृन्तन् मुदं
तं खेत्स्यन् पिशिताशदारुणमसौ मोदेन निन्ये निशाम् ॥’ धा. का. 2-85.
Footnote C. ‘परिखेदितविन्ध्यवीरुधः परिपीतामलनिर्झराम्भसः ।
दुधुवुर्मधुकाननं ततः कपिनागा मुदिताङ्गदाज्ञया ॥’ भ. का. 10. 28. [ID=350]
(351) “खिद दैन्ये” (VII-रुधादिः-1449. अक. अनि. आत्म.)
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे (घाते) तु खिन्दति ।’ (श्लो. 112) इति देवः ।
[Page0355+ 28]
1 खिन्दानः, आ खेत्स्यमानः, खेदः B;
इति रूपाणीति विशेषः । अन्यानि सर्वाणि रूपाणि दैन्यार्थकदैवादिक-
खिद्यतिवत् (349) ज्ञेयानि ।
Footnote 1. शानचि, ‘रुधादिभ्यः श्नम्’ (3-1-78) इति श्नम् । ‘श्नसोरल्लोपः’ (6-4-111)
इति लोपः ।
Footnote आ.‘यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम् ।
शुष्कपेषं पिनष्म्युर्वीम् अखिन्दानः स्वतेजसा ॥’ भ. का. 6. 37.
Footnote B. ‘सञ्छृण्णगात्रमथ शात्रवतर्दिनस्ते चाणूरमुष्टिकमुखा वसनान्यकृन्तन् ।
इन्धानखेदमुदविन्त विशिष्टलोकः पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु ॥’ धा. का. 3. 2. [ID=351]
छिनत्ति
छिद् छिदिँर् द्वैधीकरणे रुधादिः उभयपदी सकर्मकः अनिट् to cut to grind to truncate to incise
छिदिर् [Printed book page 0540]
(567) “छिदिर् द्वैधीकरणे” (VII-रुधादिः-1440. सक. अनि. उभ.) 1 छेदकः-दिका, छेदकः-दिका, 2 चिच्छित्सकः-त्सिका, 3 चेच्छिदकः-दिका;
छेत्ता-त्री, छेदयिता-त्री, चिच्छित्सिता-त्री, चेच्छिदिता-त्री; 4 छिन्दन्-ती, छेदयन्-न्ती, चिच्छित्सन्-न्ती; – 5 छेत्स्यन्-न्ती-ती, छेदयिष्यन्-न्ती-ती, चिच्छित्सिष्यन्-न्ती-ती; –
छिन्दानः, छेदयमानः, चिच्छित्समानः, चेच्छिद्यमानः;
छेत्स्यमानः, चेदयिष्यमाणः, चिच्छित्सिष्यमाणः, चेच्चिदिष्यमाणः; 6 रज्जुच्छित्-रज्जुच्छिदौ-रज्जुच्छिदः, A शोकच्छित्; – 7 छिन्नम् B -छिन्नः-छिन्नवान्, छेदितः, चिच्छित्सितः, चेच्छिदितः-तवान्; 8 छिदः, 9 छिदुरः C, 10 चिच्छिद्वान्, छेदः, चिच्छित्सुः, चेच्छिदः;
[Page0541+ 26]
छेत्तव्यम्, छेदयितव्यम्, चिच्छित्सितव्यम्, चेच्छिदितव्यम्;
छेदनीयम्, छेदनीयम्, चिच्छित्सनीयम्, चेच्छिदनीयम्;
छेद्यम्, 1 छिदेलिमः [जीर्णरज्जुः], छेद्यम्, चिच्छित्स्यम्, चेच्छिद्यम्;
ईषच्छेदः-दुश्छेदः-सुच्छेदः; — — – A छिद्यमानः, छेद्यमानः, चिच्छित्स्यमानः, चेच्छिद्यमानः;
छेदः, छेदः, चिच्छित्सः, चेच्छिदः;
छेत्तुम्, छेदयितुम्, चिच्छित्सितुम्, चेच्छिदितुम्;
विच्छित्तिः- 2 छिदा, छेदना, चिच्छित्सा, चेच्छिदा;
छेदनम्, छेदनम्, चिच्छित्सनम्, चेच्छिदनम्;
छित्त्वा, छेदयित्वा, चिच्छित्सित्वा, चेच्छिदित्वा;
प्रच्छिद्य, प्रच्छेद्य, प्रचिच्छित्स्य, प्रचेच्छिद्य;
छेदम् 2, छित्त्वा 2, छेदम् 2, छेदयित्वा 2, चिच्छित्सम् 2, चिच्छित्सित्वा 2, चेच्छिदम् 2; चेच्छिदित्वा 2; 3 छिदिः, 4 छिदिरम्, 5 छिद्रम्.
Footnote 1. ‘पुगन्तलघूपधस्य च’ (7-3-86) इत्युपधायाः गुणः । एवं णिचि परतोऽपि सर्वत्र
ज्ञेयम् । तव्यदादिष्वपि गुणो यथासम्भवमेवमूह्यः ।
Footnote 2. धातोरनुदात्तत्वात्, ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इत्यनेनेण्णिषेधः ।
अभ्यासस्य तुगागमः । उत्तरखण्डे दकारस्य चर्त्वम् । ‘हलन्ताच्च’ (1-2-10)
इति सनः कित्त्वान्न लघूपधगुणः । एवं सर्वत्र सनि बोध्यम् ।
Footnote 3. ‘दीर्घात्’ (6-1-75) इति अभ्यासस्य तुगागमः । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 4. ‘रुधादिभ्यः—’ (3-1-78) इति श्नम् विकरणप्रत्ययः । ‘श्नसोरल्लोपः’ (6-4-111)
इत्यकारलोपः । एवं छिन्दानः इत्यत्रापि प्रक्रिया ज्ञेया ।
Footnote 5. इडभावः, लघूपधगुणश्च । ‘खरि च’ (8-4-55) इति दकारस्य चर्त्वेन तकारः ।
Footnote 6. ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (3-2-61) इति
कर्मण्युपपदे क्विप् ।
Footnote A. ‘एष शोकच्छिदो वीरान् प्रभो सम्प्रति वानरान् ।’ भ. का. 7-27.
Footnote 7. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठानत्वम् ।
Footnote B. ‘रुन्धन् दिशो दिनमुखेऽथ जगन्ति भिन्दन्
प्रच्छिन्नसंशयमतिर्मुदमाशु रिञ्चन् ।’ धा. का. 3-1.
Footnote 8. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कः ।
Footnote 9. ‘विदिभिदिछिदेः कुरच्’ (3-2-162) इति ताच्छीलिकः कुरच् प्रत्ययः ।
प्रत्ययस्य कित्त्वान्न गुणः ।
Footnote C. ‘पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न छिदुरोऽपि हारः ॥’ रघुवंशे– 16. 62.
Footnote 10. लिटः क्वसुः । द्विर्वचनम् । क्वसोः क्रादिनियमप्राप्त इडागमः, ‘वस्वेकाजाद्घ-
साम्’ (7-2-67) इति नियमान्न भवति ।
Footnote 1. ‘केलिमर उपसंख्यानम्’ (वा. 3-1-96) इति केलिमर्प्रत्ययः । प्रत्ययस्य
कित्त्वान्न गुणः ।
Footnote A. ‘विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या ॥’ भ. का. 3-52.
Footnote 2. ‘छिदा द्वैधीभावे’ (गणसूत्रम् 3-3-104) इति वचनात् अङ् । अन्यत्र विच्छित्तिः
इति क्तिन्नपि भवति ।
Footnote 3. ‘इगुपधात् कित्’ [द. उ. 1-48] इति इन् प्रत्ययः, किद्वद्भावश्च । छिनत्तीति
छिदिः = परशुः ।
Footnote 4. ‘इषिमदिमुदिखिदिछिदि—’ [द. उ. 8-26] इति किरच्प्रत्ययः ।
छिदिरम् = शस्त्रम् ।
Footnote 5. औणादिके [द. उ. 8-31] रक्प्रत्यये रूपम् । छिद्यते तदिति छिद्रम् = विवरम् । [ID=567]
तुदति
तुद् तुदँ व्यथने तुदादिः उभयपदी सकर्मकः अनिट् to wound to strike to pain to irritate to hut to cause pain to attack
तुद [Printed book page 0667]
(741) “तुद व्यथने” (VI-तुदादिः-1281. सक. अनि. उभ.)
तोदकः-दिका, तोदकः-दिका, 1 तुतुत्सकः-त्सिका, तोतुदकः-दिका;
तोत्ता-त्री, तोदयिता-त्री, तुतुत्सिता-त्री, तोतुदिता-त्री; A तुदन्-न्ती-ती, तोदयन्-न्ती, तुतुत्सन्-न्ती; –
तोत्स्यन्-न्ती-ती, तोदयिष्यन्-न्ती-ती, तुतुत्सिष्यन्-न्ती-ती; –
तुदमानः, तोदयमानः, तुतुत्समानः, तोतुद्यमानः;
तोत्स्यमानः, तोदयिष्यमाणः, तुतुत्सिष्यमाणः, तोतुदिष्यमाणः;
तुत्-तुद्-तुदौ-तुदः; — — – 2 तुन्नम्-तुन्नः-तुन्नवान्, तोदितः, तुतुत्सितः, तोतुदितः-तवान्;
तुदः, 3 विधुन्तुदः B - C अरुन्तुदः- 4 तिलन्तुदः, तोदः, तुतुत्सुः, तोतुदः;
तोत्तव्यम्, तोदयितव्यम्, तुतुत्सितव्यम्, तोतुदितव्यम्;
तोदनीयम्, तोदनीयम्, तुतुत्सनीयम्, तोतुदनीयम्;
[Page0668+ 26]
तोद्यम्, तोद्यम्, तुतुत्स्यम्, तोतुद्यम्;
ईषत्तोदः-दुस्तोदः-सुतोदः; — –
तुद्यमानः, तोद्यमानः, तुतुत्स्यमानः, तोतुद्यमानः; 1 प्रतोदः, तोदः, तुतुत्सः, तोतुदः;
तोत्तुम्, तोदयितुम्, तुतुत्सितुम्, तोतुदितुम्;
तुत्तिः, तोदना, तुतुत्सा, तोतुदा; 2 तोत्त्त्रम्-तोत्त्त्री, तोदनम्, तोदनम्, तुतुत्सनम्, तोतुदनम्;
तुत्त्वा, तोदयित्वा, तुतुत्सित्वा, तोतुदित्वा;
प्रतुद्य, प्रतोद्य, प्रतुतुत्स्य, प्रतोतुद्य;
तोदम् 2, तुत्त्वा 2, तोदम् 2, तोदयित्वा 2, तुतुत्सम् 2, तुतुत्सित्वा 2, तुतुत्सित्वा 2, तोतुदम् 2; तोतुदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । तेनाङ्गस्य गुणो न । एवं सन्नन्ते
सर्वत्र ज्ञेयम् ।
Footnote A. ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन्
प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः ।’ धा. का. 2. 72.
Footnote 2. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठानत्वम् ।
Footnote 3. ‘विध्वरुषोस्तुदः’ (3-2-35) इति खशूप्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्’
(6-3-67) इति मुम् । विधुन्तुदः = राहुः । ‘संयोगान्तस्य लोपः’ (8-2-23)
इति अरुषः सकारस्य लोपः । अरुः = मर्म तुदति = व्यथतीति अरुन्तुदः =
मर्मावित् ।
Footnote B. ‘अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुन्तुदया च तया बहु ।’ नैषधे. 4. 43.
Footnote C. ‘अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥’ रघुवंशे 1. 71.
Footnote 4. ‘वातशुनीतिलशर्धेषु अजधेट्तुदजहातीनामुपसंख्यानम्’ (वा. 3-2-28) इति
खशू । ‘अरुर्द्विषदजन्तस्य—’ (6-3-67) इति मुमागमः । तिलन्तुदः =
वणिजां तैलनिष्पादकं दारु ।
Footnote 1. प्रतुद्यतेऽनयेति करणे ‘हलश्च’ (3-3-121) इति संज्ञायां घञ् ।
Footnote 2. ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (3-2-182) इति करणे
ष्ट्रन् प्रत्ययो भवति । षित्त्वात् स्त्रियां ङीष् । [ID=741]
नुदति
नुद् णुदँ प्रेरणे तुदादिः उभयपदी सकर्मकः अनिट् to inspire
णुद [Printed book page 0633]
(684) “णुद प्रेरणे” (VI-तुदादिः-1282. सक. अनि. उभ.)
नोदकः-दिका, नोदकः-दिका, 4 नुनुत्सकः-त्सिका, नोनुदकः-दिका; 5 नोत्ता-त्री, नोदयिता-त्री, नुनुत्सिता-त्री, नोनुदिता-त्री;
[Page0634+ 27]
1 नुदन् ती-न्ती, नोदयन्-न्ती, नुनुत्सन्-न्ती; –
नोत्स्यन्-न्ती-ती, नोदयिष्यन्-न्ती-ती, नुनुत्सिष्यन्-न्ती-ती; –
नुदमानः, A प्रणुदमानः, नोदयमानः, नुनुत्समानः, नोनुद्यमानः;
नोत्स्यमानः, नोदयिष्यमाणः, नुनुत्सिष्यमाणः, नोनुदिष्यमाणः;
अपनुत्-अपनुद्-अपनुदौ-अपनुदः; — – 2 नुन्नः-नुत्तः- B प्रणुन्नम्-नुत्तम्-नुन्नम्-नुन्नवान्-नुत्तवान्, नोदितः, नुनुत्सितः, नोनुदितः-तवान्; 3 नुदः, 4 शोकापनुदः, C 5 शोकापनोदः, विनोदी, नोदः, D नुनुत्सुः, नोनुदः;
नोत्तव्यम्, नोदयितव्यम्, नुनुत्सितव्यम्, नोनुदितव्यम्;
नोदनीयम्, नोदनीयम्, नुनुत्सनीयम्, नोनुदनीयम्;
नोद्यम्, नोद्यम्, नुनुत्स्यम्, नोनुद्यम्;
ईषन्नोदः-दुर्नोदः-सुनोदः; — –
नुद्यमानः, नोद्यमानः, नुनुत्स्यमानः, नोनुद्यमानः;
नोदः-विनोदः, 6 काकुदः [तालु], नुनुत्सः, नोनुदः;
[Page0635+ 28]
नोत्तुम्, नोदयितुम्, नुनुत्सितुम्, नोनुदितुम्;
नुत्तिः, नोदना, नुनुत्सा, नोनुदा;
नोदनम्, नोदनम्, नुनुत्सनम्, नोनुदनम्;
नुत्त्वा, नोदयित्वा, नुनुत्सित्वा, नोनुदित्वा;
प्रणुद्य, प्रणोद्य, प्रणुनुत्स्य, प्रणोनुद्य;
नोदम् 2, नुत्त्वा 2, नोदम् 2, नोदयित्वा 2, नुनुत्सम् 2, नुनुत्सित्वा 2, नोनुदम् 2; नोनुदित्वा 2; 1 नौः.
Footnote 4. धातोरनुदात्तत्वेनेडभावे, ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वे, लघूपधगुणो न ।
एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 5. ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इति इण्णिषेधे, ‘पुगन्तलघूपधस्य च’
(7-3-86) इति गुणः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘तुदादिभ्यः—’ (3-1-77) शः विकरणप्रत्ययः । शस्य ङिद्वद्भावादङ्गस्य गुणो
न । स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम् वा ।
Footnote A. ‘तुदन् कुचरितान् शुमे प्रणुदमान इष्टं दिशन्
प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः ।’ धा. का. 2. 72.
Footnote 2. ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (8-2-56) इत्यनेन निष्ठातकारस्य धातुदकारस्य
च नत्वविकल्पः तेन रूपद्वयम् ।
Footnote B. ‘दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥’ शि. व. 9. 71.
Footnote 3. ‘इगुपध—’ (3-1-135) इति कर्तरि कप्रत्ययः ।
Footnote 4. ‘तुन्दशोकयोः परिमृजापनुदोः’ (3-2-5) इत्यत्र ‘आलस्य सुखाहरणयोरिति
वक्तव्यम्’ (वा. 3-2-5) इति वचनात् शोकनिवृत्तिपूर्वकं सुखसम्पादके पुत्रादौ
शोकापनुद इति कप्रत्ययो भवति । कर्मण्यणोऽपवादः ।
Footnote C. ‘पौरा निवर्तध्वमिति न्यगादीत् तातस्य शोकापनुदा भवेत ।’ भ. का. 3. 15.
Footnote 5. केवलं शोकमात्रं यः अपनुदति, न तु सुखस्याहर्ता, तत्र ‘कर्मण्यण्’ (3-2-1)
इत्यणेव ।
Footnote D. ‘यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् ।’ नैषधे– 2. 11.
Footnote 6. काकुः = जिह्वा । सा अस्मिन् नुद्यते इति काकुदम् = तालु । घञर्थे कविधानम् ।
पृषोदरादित्वात्— (6-3-109) नुशब्दस्य{??} लोपः ।
Footnote 1. ‘ग्लानुदिभ्यां डौः’ [द. उ. 2-12] इति डौप्रत्ययः । टिलोपः । नुदति, नुद्यते
घा नौः = प्लवः । [ID=684]
[Printed book page 0635]
(685) “णुद प्रेरणे” (VI-तुदादिः-1426. सक. अनि. पर.)
नोदकः-दिका, नोदकः-दिका, नुनुत्सकः-त्सिका, नोनुदकः-दिका;
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखिततौदादिकनुदतिवत् (684) ज्ञेयानि ।
अस्य घातोः परस्मैपदिषु पाठात् शानच्प्रत्ययो न भवति । तुदादावेव पुनः
पाठफलं तु—कर्तृगामिन्यपि क्रियाफले परस्मैपदित्वमिति बोध्यम् । [ID=685]
पद्यते
पद् पदँ गतौ दिवादिः आत्मनेपदी सकर्मकः अनिट् to go to attain
पद [Printed book page 0845]
(972) “पद गतौ” (IV-दिवादिः-1169. सक. अनि. आत्म.)
‘पदॢ—’ इति पुरुषकारसम्मतः पाठः ।
‘—श्यनि गत्यर्थे पद्यते पदयेत णौ ॥’ (श्लो. 109) इति देवः ।
पादकः-दिका, पादकः-दिका, 1 पित्सकः-त्सिका, 2 पनीपदकः-दिका;
पत्ता-पत्त्री, पादयिता-त्री, पित्सिता-त्री, पनीपदिता-त्री;
— पादयन्-न्ती, पादयिष्यन्-न्ती-ती; — – 3 प्रणिपद्यमानः, पादयमानः, पित्समानः, पनीपद्यमानः;
पत्स्यमानः, पादयिष्यमाणः, पित्सिष्यमाणः, पनीपदिष्यमाणः; 4 पत्-पद्-पदौ-पदः; — — – 5 प्रपन्नः-पन्नवान्, पादितः, पित्सितः, पनीपदितः-तवान्;
पदः, 6 उत्पदिष्णुः, 7 पदनः, 8 पादुकः- A पादुका, 9 पादः, 10 सम्पद्यः,
[Page0846+ 29]
सम्पादी, 1 प्रणिपेदिवान्, A पादः, पित्सुः, पनीपदः;
पत्तव्यम्, पादयितव्यम्, पित्सितव्यम्, पनीपदितव्यम्;
पदनीयम्, पादनीयम्, पित्सनीयम्, पनीपदनीयम्;
पाद्यम्, पाद्यम्, पित्स्यम्, पनीपद्यम्;
ईषत्पदः-दुष्पदः-सुपदः; — — –
पद्यमानः, पाद्यमानः, पित्स्यमानः, पनीपद्यमानः;
पादः, 2 पदम्, 3 आस्पदम्, B 4 गोष्पदम्, पादः, पित्सः, पनीपदः;
पत्तुम्, पादयितुम्, पित्सितुम्, पनीपदितुम्; 5 सम्पत्-सम्पत्तिः, विपत्-प्रतिपत्-आपत्, 6 पद्या, पादना, पित्सा, पनीपदा;
पदनम्, आपादनम्, पित्सनम्, पनीपदनम्;
पत्त्वा, पादयित्वा, पित्सित्वा, पनीपदित्वा;
प्रणिपद्य, सम्पाद्य, प्रपित्स्य, प्रपनीपद्य;
[Page0847+ 25]
1 गेहानुप्रपादम्, गेहंगेहमनुप्रपादम्, गेहमनुप्रपादमनुप्रपादमास्ते;
पादम् 2, पत्त्वा 2, पादम् 2, पादयित्वा 2, पित्सम् 2, पित्सित्वा 2, पनीपदम् 2; पनीपदित्वा 2; 2 पादूः, 3 पद्मम्-पद्मिनी ।
Footnote 1. ‘सनि मीमाघुरभलभशकपतपदामच इस्’ (7-4-54) इति सन्नन्ते सर्वत्र इस् ।
‘अत्र लोपोऽभ्यासस्य’ (7-4-58) इत्यभ्यासलोपः । ‘स्कोः संयोगाद्योरन्ते च’
(8-2-29) इति सकारलोपः । ‘इको झल्’ (1-2-9) इति सनः कित्त्वम् ।
‘खरि च’ (8-4-55) इति दकारस्य चर्त्वं भवति ।
Footnote 2. यङन्ताण्ण्वुलि, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (7-4-84) इत्यभ्यासस्य
नीगागमः । अभ्यासदीर्घापवादः । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 3. ‘नेर्गदनदपतपद—’ (8-4-17) इत्यादिना नेर्णत्वम् ।
Footnote 4. पद्यतेऽनेनेति पत् = पादः । क्विबन्ते चर्त्वविकल्पः ।
Footnote 5. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठातकारधातुदकारयोर्नत्वे रूपम् ।
Footnote 6. ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पद—’ (3-2-136) इत्यादिना इष्णुच् प्रत्ययः
तच्छीलादिषु कर्तृषु भवति—इति माधवः । एतच्च प्रकृतसूत्रे (3-2-136),
उत्पद इति पाठाश्रयणेन साध्यते । परं तु—पतॢधातौ (968) स्वयमेव
माधवेन उत्पत इत्येतस्मादेव इष्णुच् साधितः । पदधातौ तु “केचित्तु
‘उत्पत’ इति पततिं पठन्ति” इति वदतः को वाऽत्र स्वाभिमतः पाठ इति न
ज्ञायते ।
Footnote 7. ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः’ (3-2-150) इत्यादिना ताच्छी-
लिको युच्प्रत्ययः ।
Footnote 8. ‘लषपतपद—’ (3-2-154) इत्यादिना तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः ।
अदन्तत्वात् स्त्रियां टाप् ।
Footnote A. ‘प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम् ।’ शि. व. 20-39.
Footnote 9. ‘पदरुजविशस्पृशो घञ्’ (3-3-16) इति कर्तरि घञ् ।
Footnote 10. सम्पूर्वकादस्मात् कर्तरि शप्रत्यये, दिवादित्वात् श्यनि, पररूपे, रूपमेवम् ।
शप्रत्ययसद्भावे निदानं तु ‘कृभ्वस्तियोगे सम्पद्यकर्तरि—’ (5-4-50) इति सूत्रे
सम्पद्य इति निर्देश एव ।
Footnote 1. ‘पपुष आगतं पपिवद्रूप्यम्’ इति भाष्य (4-3-24) प्रयोगात्, छान्दसोऽपि
क्वसुः क्वचिद् भाषायां भवति इति ज्ञायते । तेन क्वसौ, एत्वाभ्यासलोपयोः,
‘वस्वेकाजाद्धसाम्’ (7-2-67) इति इडागमे च रूपमेवम् ।
Footnote A. ‘प्रायेण प्रणिपेदुषां निजमसौ योगं स्वयं शिक्षयन् ।’ कामासिकाष्टके 5.
Footnote 2. ‘खनो घ च’ (3-3-125) इत्यत्र चकारात् संज्ञायामन्यत्रापि घप्रत्ययो भवति
इति ज्ञायते-इत्याश्रयणेन घप्रत्यये रूपम् ।
Footnote 3. आङ्पूर्वकादस्मात् संज्ञायां घप्रत्यये, ‘आस्पदं प्रतिष्ठायाम्’ (6-1-146)
इत्यत्र निपातनात् सुडागमः ।
Footnote B. ‘कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।’ शि. व. 3-34.
Footnote 4. ‘गोष्पदं सेवितासेवितप्रमाणेषु’ (6-1-145) इत्यनेन सेविते असेविते प्रमाणे च
विषये सुट् निपात्यते । षत्वं च भवति ।
Footnote 5. ‘सम्पदादिभ्यः—’ (वा. 3-3-94) इत्यनेन स्त्रियां भावादौ क्विप् । ‘क्तिन्न-
पीष्यते’ (भाष्येष्टिः 3-3-94) इति वचनात् क्तिनि सम्पत्तिः इत्यादिकमपि
साध्वेव । प्रतिपत् = ज्ञानम्, प्रथमा तिथिश्च ।
Footnote 6. ‘संज्ञायां समजनिषदनिपत—’ (3-3-99) इत्यत्र ‘निपद’ इति क्षीर-
स्वामिपाठमाश्रित्यात्र क्यप् बोध्यः । पद्या = काव्यविशेषः । ‘एकप्रघट्टकं
पद्या मुक्तकानां निबन्धनम् ।’ इति तल्लक्षणम् । अत्र पक्षे ‘उपेयिवान्—’
(3-2-109) इत्यत्र ‘उप’ इत्यस्येव अत्र ‘नि’ इत्यस्याविवक्षितत्वं ज्ञेयम् ।
Footnote 1. ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (3-4-56) इति सोपपदात्
णमुल् । ‘तृतीयाप्रभृतीनि—’ (2-2-21) इति समासविकल्पः । समासे, ‘नित्य-
वीप्सयोः’ (8-1-4) इति द्विर्वचनं न भवति । समासेनैव नित्यवीप्सार्थयोरुक्तत्वात् ।
Footnote 2. ‘णिच्च कसि पद्यर्त्तेः’ [द. उ. 1-168] इत्यूप्रत्ययः, प्रत्ययस्य णित्त्वं च । पद्यते
इति पादूः = पादुका । ‘पादुका’ इत्यत्र संज्ञायां कनि, ‘केऽणः’ (7-4-13)
इति ह्रस्वो ज्ञेयः ।
Footnote 3. औणादिके [द. उ. 7-26] मन्प्रत्यये रूपम् । पद्यते मधुकरैरिति पद्मम् =
कमलम् । अर्शआद्यजन्ते मत्वर्थीये पद्मा = लक्ष्मीः । मत्वर्थीय एव इनिप्रत्यये
पद्मिनी इति च । [ID=972]
भिनत्ति
भिद् भिदिँर् विदारणे रुधादिः उभयपदी सकर्मकः अनिट् to cut to break to divide
भिदिर् [Printed book page 0952]
(1160) “भिदिर् विदारणे” (VII-रुधादिः-1439. सक. अनि. उभ.)
भेदकह्-दिका, भेदकः-दिका, 1 बिभित्सकः-त्सिका, 2 बेभिदकः-दिका;
भेत्ता-भेत्री, भेदयिता-त्री, बिभित्सिता-त्री, बेभिदिता- B त्री; 3 भिन्दन्- C ती, भेदयन्-न्ती, बिभित्सन्-न्ती; –
भेत्स्यन्-न्ती, भेदयिष्यन्-न्ती-ती, बिभित्सिष्यन्-न्ती-ती; –
भिन्दानः, भेदयमानः, बिभित्समानः, बेभिद्यमानः;
भेत्स्यमानः, भेदयिष्यमाणः, बिभित्सिष्यमाणः, बेभिदिष्यमाणः; 4 गोत्रभिद्, काष्ठभिद्, उद्भित्, प्रभित्-प्रभिदौ-प्रभिदः; 5 भित्तम् [शकलम्], भित्तः, 6 भिन्नम्-भिन्नवान्, भेदितम्-तः, बिभित्सितः, बेभिदितः-तवान्;
[Page0953+ 28]
1 उद्भिदः, 2 भिदेलिमाः, 3 भिदुरम्, A 4 भिद्यः B [नदः], 5 कर्णभेदी, C 6 काष्ठभेदः, 7 बिभिद्वान्, 8 भेदनः-भेदः, बिभित्सुः, बेभिदः;
भेत्तव्यम्, भेदयितव्यम्, बिभित्सितव्यम्, बेभिदितव्यम्;
भेदनीयम्, भेदनीयम्, बिभित्सनीयम्, बेभिदनीयम्;
भेद्यम्, भेद्यम्, बिभित्स्यम्, बेभिद्यम्;
भिद्यमानः, भेद्यमानः, बिभित्स्यमानः, बेभिद्यमानः;
ईषद्भेदः-दुर्भेदः-सुभेदः; — –
भेदः, उद्भेदः, भेदः, बिभित्सः, बेभिदः;
भेत्तुम्, भेदयितुम्, बिभित्सितुम्, बेभिदितुम्;
[Page0954+ 27]
1 भिदा, भित्तिः-भिदिः, भेदना, बिभित्सा, बेभिदा;
भेदनम्, भेदनम्, बिभित्सनम्, बेभिदनम्;
भित्त्वा, भेदयित्वा, बिभित्सित्वा, बेभिदित्वा;
संभिद्य, संभेद्य, प्रबिभित्स्य, प्रबेभिद्य, 2 प्रबेभिदय्य गतः;
भेदम् 2, भित्त्वा 2, भेदम् 2, भेदयित्वा 2, बिभित्सम् 2, बिभित्सित्वा 2, बेभिदम् 2; बेभिदित्वा 2; 3 भिदुः, 4 भिदिरम्, 5 भिद्रः ।
Footnote 1. सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वे, द्विर्वचनादिषु कृतेषु
धातुदकारस्य चर्त्वेन तकारः । एवमुत्तरत्रापि प्रक्रिया ज्ञेया ।
Footnote 2. यङन्ते द्विर्वचनादिकेषु कृतेषु, ‘गुणो यङ्लुकोः’ (7-4-82) इत्यभ्यासे गुणः
सर्वत्र बोध्यः ।
Footnote B. ‘आत्तायुधाहितजनैः सह संयतित्री शत्रोर्मनोरथशतान्यथ बेभिदित्री ।’ वा. वि. 3. 51.
Footnote 3. शतरि, ‘रुधादिभ्यः—’ (3-1-78) इति श्नम् विकरणप्रत्ययः । स च अन्त्यादचः
परो भवति । ‘श्नसोरल्लोपः’ (6-4-111) इति श्नमोऽकारस्य लोपः । एवमेव
शानजन्तेऽपि प्रक्रिया ज्ञेया ।
Footnote C. ‘निहतश्च स्थितिं भिन्दन् दानवोऽसौ बलद्विषा ।’ भ. का. 7. 68.
Footnote 4. ‘सत्सूद्विषद्रुहयुजविदभिद—’ (3-2-61) इत्यादिना कर्मण्युपपदे, उपसर्गे
उपपदेऽपि क्विप्प्रत्ययः । गोत्रं भिनत्तीति गोत्रभित् = इन्द्रः । उद्भित् =
लतागुल्मादिः ।
Footnote 5. क्तप्रत्यये शकलेऽभिधेये ‘भित्तं शकलम्’ (8-2-59) इत्यनेन निष्ठानत्वाभावो
निपात्यते । भित्तमिति शकलपर्यायो रूढिशब्दः । अत्र भिदिक्रिया शब्दव्युत्पत्ते-
र्निमित्तम् । स्पष्टमिदं प्रकृतसूत्रे भाष्यादिषु ।
Footnote 6. शकलादन्यत्र, ‘रदाभ्यां निष्ठातो नः, पूर्वस्य च दः’ (8-2-42) इत्यनेन निष्ठात-
कार-धातुदकारयोर्नत्वे रूपमेवम् ।
Footnote 1. ‘इगुपध—’ (3-1-135) इत्यादिना कर्तरि कप्रत्ययः । कित्त्वान्न गुणः ।
Footnote 2. ‘केलिमर उपसंख्यानम्’ (वा. 3-1-96) इत्यनेन केलिमर्प्रत्ययः । धातोरस्य
सकर्मकत्वादयं कर्मणि सम्पद्यते । वृत्त्यादिषु तु ‘कर्मकर्तरि चायमिष्यते’
(काशिका. 3-1-96) इत्युक्तम् । ‘भिदेलिमाः सरलाः—भेत्तव्याः ।’ इति भाष्ये
(3-1-96) कर्मार्थकेन तव्यप्रत्ययेन विवरणात् कर्मार्थकत्वमेवास्य प्रत्ययस्येति
बोध्यम् ।
Footnote 3. ‘विदिभिदिच्छिदेः कुरच्’ (3-2-162) इति ताच्छीलिकः कुरच्प्रत्ययः । कर्म-
कर्तरि प्रत्ययोऽयमिति वृत्तौ लक्ष्यते । भेदनकर्तुः वज्रायुधस्य ‘भिदुरम्’ इत्य-
भिधानात् शुद्धकर्तर्येवायं प्रत्यय इति प्रतिभाति ।
Footnote A. ‘अयशो भिदुरालोके कोपधामरणादृते ।’ शि. व. 19. 58.
Footnote 4. भिनत्ति कूलमित्यर्थे नदेऽभिधेये कर्तरि ‘भिद्योद्ध्यौ नदे’ (3-1-115) इति क्यप्
निपात्यते । भिद्यः = नदः; अधुना ‘जम्मू’ राज्ये ‘बई’ इति देशभाषया
व्यवह्रियते ।
Footnote B. ‘तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं बिचेष्टितम् ॥’ रघुवंशे 11. 8.
Footnote 5. कर्ण भिनत्तीति कर्णभेदी = रूक्षध्वनिः, पिशुनश्च । ताच्छील्ये णिनिप्रत्यये रूपमेवम् ।
Footnote C. ‘तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिः ।’ भ. का. 9. 21.
Footnote 6. कर्मण्युपपदेऽणि रूपमेवम् । ‘कर्मण्यण्’ (3-2-1) इत्यत्र भाष्ये एवं प्रयुक्तम् ।
Footnote 7. लिटः क्वसौ द्विर्वचनादिकेषु कृतेषु रूपमेवम् । ‘वस्वेकाजाद्घसाम्’ (7-2-67)
इत्यत्र कृतद्विर्वचनस्य एकाच एव ग्रहणादत्र नेडिति ज्ञेयम् ।
Footnote 8. नन्द्यादेराकृतिगणत्वात्, ‘कृत्यल्युटो बहुलम्’ (3-3-113) इति बहुलग्रहणाद्वा
कर्तरि ल्युः ल्युट् वा प्रत्ययः । भेदनः = रोगविशेषः, वराहश्च ।
Footnote 1. स्त्रियाम्, ‘भिदा विदारणे’ (ग. सू. 3-3-104) इति भिदादिपाठाद् भावादौ
अङ् । अन्यत्र भित्तिः इत्येव । भित्तिः = कुड्यम् । स्वार्थे कन्प्रत्यये भित्तिका
इति भवति । ‘इक् कृष्यादिभ्यः’ (वा. 3-3-108) इतीक्प्रत्यये भिदिः इत्यपि
भवति ।
Footnote 2. यङन्तात् णिचि ल्यपि, ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः । काशि-
कायाम् (6-4-56) उदाहृतोऽयम् ।
Footnote 3. ‘पॄभिदि—’ (द. उ. 1-108) इति कुप्रत्ययः । भिदुः = वज्रम् ।
Footnote 4. ‘इषिमदिमुदिखिदिच्छिदिभिदि—’ (द. उ. 8-26) इति किरच्प्रत्यये रूपमेवम् ।
भिदिरम् = भेदः ।
Footnote 5. औणादिके (द. उ. 8-31) रक्प्रत्यये रूपमेवम् । भिद्रः = शरः । [ID=1160]
विद्यते
विद् विदँ सत्तायाम् दिवादिः आत्मनेपदी अकर्मकः अनिट् to exist
[Printed book page 1235]
(1603) “विद सत्तायाम्” (IV-दिवादिः-1171. अक. अनि. आत्म.)
‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे ।’ (श्लो. 111) इति देवः ।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका;
वेदिता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यति (349) वत् बोध्यानि ।
शानचि-विद्यमानः, णिनिप्रत्यये-वेदी, क्तिनि-वित्तिः, इमानि रूपाणि विशेषेण
भवन्ति । [ID=1602]
विन्दति
विद् लाभे तुदादिः उभयपदी सकर्मकः सेट् to obtain to receive
विदॢ [Printed book page 1236]
(1606) “विदॢ लाभे”
(VI-तुदादिः-1432. सक. अनि. उभ.) मुचादिः ।
‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि ॥’ (श्लो. 111) इति देवः ।
व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता इति ।
[Page1237+ 30]
वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-[विवित्सकः]-षिका, वेविदकः-दिका;
वेदिता, [वेत्ता]-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री,
वेविदिता-त्री; इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् (193) ज्ञेयानि ।
शतरि 1 विन्दः A, 2 गोविन्दः-कुविन्दः, B अरविन्दम् 3, 4 वित्तम्- [धनम्],
विन्नं [लब्धम्], 5 परिवेत्ता, विविद्वान् 6 -विविदिवान्, 7 वेदना C
[Page1238+ 28]
1 परिवित्तिः, 2 ब्राह्मणवेदं [भोजयति], 3 यावद्वेदं [भोजयति], 4 चोरवेदं
निहन्त्यसौ] ।
Footnote 1. ‘अनुपसर्गाल्लिम्पविन्द—’ (3-1-138) इति शप्रत्यये मुचादित्वात् ‘शे मुचा-
दीनाम्’ (7-1-59) इति नुमि शपि पररूपे च रूपमेवम् ।
Footnote A. ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत् ।’ भ. का. 1-15.
Footnote 2. ‘गवादिषु विन्देः संज्ञायाम्’ (वा. 3-1-138) इति शः । गां विन्दतीति
गोविन्दः । एवं कुविन्दह् इति प्रक्रियासर्वस्वे ।
Footnote B. ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।’ शि. व. 3-65
Footnote 3. अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति
— लभत इत्यर्थः । भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते । ‘कर्मण्यण्’
(3-2-1) बाधनाय इदम् इति बृ. शेखरे ।
Footnote 4. ‘वित्तो भोगप्रत्यययोः’ (8-2-58) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो
निपात्यते । वित्तोऽयं मनुष्यः । प्रतीत इत्यर्थः । वित्तम् धनम्, वित्तं प्रसिद्धम्,
भुज्यत इति भोगो धनम् । प्रतीयत इति प्रत्ययः प्रसिद्धम् । अन्यत्र
विन्नम् ।
Footnote 5. तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द. उ. 2-1) इति
संज्ञायां गम्यमानायामनिटौ भवतः । ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’
इत्यमरः । ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते ।
क्वसुप्रत्यये ‘विभाषा गमहनविद—’ (7-2-68) इतीड्विकल्पनात्, निष्ठायाम्,
‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । तेन निष्ठानत्वपक्षे, नत्वाभा-
वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम् । कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात्
तेषां मते निष्ठायामिण्निषेधः सिद्ध एव । भाष्यादिषु तु धातुरयं सेडित्येव
सम्मतः । विस्तरस्तु माधवीये द्रष्टव्यः ।
Footnote 6. ‘विभाषा गमहनविदविशाम्’ (7-2-68) इति क्वसौ विकल्पेन इडागमो भवति ।
तेन रूपद्वयम् । विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् ।
Footnote 7. ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (3-3-107) इति युचि रूपमेवम् ।
Footnote C. ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम् ॥’ भ. का. 7-73
Footnote 1. ‘क्तिच्क्तौ च संज्ञायाम्’ (3-3-174) इति क्तिच् । ‘परिवित्तिस्तु तज्ज्यायान्’
इत्यमरः ।
Footnote 2. ‘कर्मणि दृशिविदोः साकल्ये’ (3-4-29) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल्
भवति । यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः ।
अत्र सत्तार्थस्यैकस्य न ग्रहः; अकर्मकत्वात् ।
Footnote 3. ‘यावति विन्दजीवोः’ (3-4-30) इति णमुल्प्रत्ययः । यावत् लभते तावद्
भुङ्क्त इत्यर्थः ।
Footnote 4. चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि
हन्तीत्यर्थे ‘कर्मणि दृशिविदोः—’ (3-4-20) इति णमुल् । ‘चोरवेदं निह-
न्त्यसौ—’ इति प्र. सर्वस्वे । [ID=1605]
शीयते
शद् शदॢँ शातने भ्वादिः परस्मैपदी अकर्मकः अनिट् to perish to fall to wither to decay to wear off to fall to wane to throw down
शदॢ [Printed book page 1284]
(1681) “शदॢ शातने” (I-भ्वादिः-855. सक. अनि. पर.)
ज्वलादिः । ‘— अवशातने’ इति जैनः । शातनम्-तनूकरणमिति क्षीरस्वामी ।
‘— शातनम्-तीक्ष्णीभावः । विशीर्णतायामित्येके । 2 गतावप्यस्ति’ इति
धा. का. व्याख्यायाम् (2-24) । “‘— विशातने’ विशीर्णतायां वर्तते,
शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा. धा. वृत्तिः ।
शादकः-दिका, शादकः-दिका, पुष्पाणां 3 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका;
शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ (968) धातुवत् ऊह्यानि । 4 शादः, शदः, शाद्वलम्,
[Page1285+ 28]
शद्रुः, 2 शत्रुः । 3 शीयमानः ।
Footnote 2. ‘शदेरगतौ तः’ (7-3-42) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य
गतिरप्यर्थ इति ।
Footnote 3. णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (7-3-42) इति दकारस्य तकारः । गत्यर्थकत्वे तु
‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे न तकारः । ‘पुष्पाणि शातयन्’
इत्यादिषु तु भवत्येव । एवं सर्वत्र ज्ञेयम् ।
Footnote 4. संज्ञायां घञ् । शादः = तृणविशेषः । शद इति तु आयुधविशेषः । संज्ञायामत्र
घः । शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’
(4-2-88) इति मत्वर्थीयो ड्वलच्प्रत्ययः । प्रत्ययस्य डित्त्वात् टिलोपः ।
Footnote 2. शातयतीति शत्रुः = अरिः । णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः
‘रुशदिभ्यां त्रुन्’ (द. उ. 1-159) इति त्रुन्प्रत्ययः; बाहुलकात् णेर्लोपः, वृद्ध्य-
भावश्च । प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः; इत्यादिकमूह्यम् ।
Footnote 3. ‘शदेः शितः’ (1-3-60) इति आत्मनेपदम् । शिद्भावी यः शदिधातुः स तङं
लभते इति निष्कृष्टोऽर्थः । विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः । ‘पाघ्राघ्मास्था-
म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (7-3-78)
इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः । एवञ्चास्य धातोः शता
नेति अवधेयम् । [ID=1680]
शीयत
े शद् शदॢँ शातने तुदादिः परस्मैपदी अकर्मकः अनिट् to go to lose energy to move to be sad
[Printed book page 1285]
(1682) “शदॢ शातने” (VI-तुदादिः-1428. सक. अनि. पर.)
शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-
दिका; शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् (1681)
ज्ञेयानि । भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः । ‘शदेः शितः’
(1-3-60) इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते,
येन ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम्विकल्पः प्रयोजयितुं शक्येत ।
ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः ।
वस्तुतस्तु शपः-शप्रत्ययस्य च प्रसक्त्यभावात्—शब्निमित्तकः पित्स्वरोऽनुदात्तः,
शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं
शक्यमित्यास्तां तावत् । [ID=1681]
सीदति
सद् षदॢँ विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट् to go to lose power to be tired to dry up to destroy to wither to despond to lose interest
षदॢ [Printed book page 1335]
(1814) “षदॢ विशरणगत्यवसादनेषु”
(I-भ्वादिः-854-सक. अनिट्. पर.) ज्वलादिः ।
‘ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके ।
पद्यतेरर्थ आसीदेद् आसादयति चाङि यौ ॥’ (श्लो. 108) देवः ।
“— ‘विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः ।’ इति च श्लोकधातु-
पाठः ।” इति पुरुषकारः ।
सादकः-दिका, सादकः-दिका, सिषत्सकः-त्सिका, 6 सासदकः-दिका; 7 सत्ता-सत्त्री, सादयिता-त्री, सिषत्सिता-त्री, सासदिता-त्री;
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकखदतिवत् (338) ज्ञेयानि । 8 निषीदन्-प्रतिसीदन्-न्ती,
[Page1336+ 33]
1 निषादः, सादः-सदः, 2 प्रासादः, 3 उपनिषत्-परिषत्-शुचिषत्-द्युसत्-दिविषत्, 4 बृसी, 5 विषण्णः-विषण्णवान्, 6 निषिषत्सुः, 7 सेदिवान्, 8 सद्रुः, 9 निषद्या, 10 सादी, 11 सेदिः; 12 सदः, 13 निषद्वरः, 14 सादिः,
[Page1337+ 29]
1 सत्त्रम् इतीमानि विशेषरूपाणि ।
Footnote 6. ‘लुपसद—’ (3-1-24) इति भावगर्हायां यङ् । भावगर्हा = धात्वर्थे कुत्साविशिष्ट-
त्वम् । गर्हितं सीदति सासद्यते । अयं यङ् ‘धातोरेकाचः—’ (3-1-22) इति
औत्सर्गिकयङोऽपवादः इति प्राञ्चः । नेति नव्याः ।
Footnote 7. धातोरनिट्त्वम् । दकारस्य चर्त्वेन तकारः । एवं तव्यदादिष्वपि ।
Footnote 8. शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छ-
धौशीयसीदाः’ (7-3-78) इति सीद इति सर्वादेशः । ‘सदिरप्रतेः’ (8-3-66)
इति इणन्तादुपसर्गात् परस्य सदिसकारस्य षत्वे रूपमेवम् । ‘अप्रतेः’ इत्युक्तत्वात्
प्रतिसीदन् इत्यत्र न षत्वम् । उपसर्गप्रकरणात् ‘नि’ इति कर्मप्रवचनीयस्य
न षत्वम् ।
Footnote 1. ‘ज्वलितिकसन्तेभ्यः—’ (3-1-140) इति कर्तरि णः । निषादः वन्यजातिविशेषः ।
पक्षे पचाद्यचि सदः इत्यपि साधुः । माधवस्तु “निषीदत्यस्मिन् पापमिति
निषादः । ‘हलश्च’ (3-3-121) इति अधिकरणे घञ्” इत्याह । संज्ञाऽत्रेति
विशेषः ।
Footnote 2. ‘अकर्तरि च कारके संज्ञायाम्’ (3-3-19) इत्यधिकरणे घञ् । प्रसीदन्ति धनिनो-
स्मिन् इति प्रासादः धनिनां वासः । ‘उपसर्गस्य घञि—’ (6-3-122) इति ‘प्र’
इत्यस्य दीर्घः । संज्ञायामेव मनुष्यभिन्नेऽपि स्थले दीर्घः; अन्यत्र न; ततश्च
‘प्रसादः’ इत्यत्र न ।
Footnote 3. उप निषीदन्ति, उप निषादयन्ति वा इति उपनिषत् । स्त्रियां सम्पदादित्वात्
(वा. 3-3-108) क्विपि षत्वे च रूपमेवम् । एवं परिषत् इत्यादयोऽपि ।
द्युसत्, दिविषत्, शुचिषत् इत्यादयस्तु ‘सत्सूद्विष—’ (3-2-61) इत्यादिना
क्विपि सम्पद्यन्ते । पर्षत् इति तु पृषोदरादित्वात् (6-3-109) परेरिकारलोपे
साधुः । दिविषत् इत्यत्र ‘तत्पुरुषे कृति—’ (6-3-14) इति सप्तम्या अलुक् ।
सुषामादित्वात् (8-3-98) षत्वम् । ये स्त्रीलिङ्गशब्दाः संसत् इत्यादयः, ते
सम्पदादिक्विबन्ताः; ये तु पुँल्लिङ्गशब्दाः, ते ‘सत्सू—’ (3-2-61) इति निष्पन्नाः
इति वैयाकरणसम्प्रदायः ।
Footnote 4. ब्रुवन्तः सीदन्त्यस्यामिति बृसी = मुनीनामासनम् । पृषोदरादित्वात् ब्रुवच्छब्दस्य
‘बृ’ इत्यादेशः । सदेरधिकरणे डट्प्रत्ययः । टित्त्वात् स्त्रियां डीप् ।
Footnote 5. ‘रदाभ्यां—’ (8-2-42) इति निष्ठातकारस्य धातुदकारस्य च नकारः । षत्वम्,
णत्वं च ।
Footnote 6. सन्नन्तादुप्रत्ययः । ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (8-3-64) इति पूर्वोत्तरखण्डयोः
षत्वम् ।
Footnote 7. लिटः ‘भाषायां सदवस—’ (3-2-108) इति क्वसुप्रत्ययः; एत्वाभ्यासलोपः ।
‘वस्वेकाच्—’ (7-2-67) इतीडागमः ।
Footnote 8. ‘दाधेट्सिशदसदो रुः’ (3-2-159) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः ।
Footnote 9. स्त्रियां ‘संज्ञायां समजनिंषद—’ (3-3-99) इत्यादिना अकर्तरि क्यप्प्रत्ययः ।
निषद्या = वासस्थानम् ।
Footnote 10. साधुकारिणि णिनिप्रत्ययः । सादी = अश्वस्योपरि स्थित्वा युघ्यमानः ।
Footnote 11. ‘सदादिभ्यो दर्शनात्’ (वा. 3-2-171) इति वचनात् भाषायां किप्रत्ययः ।
छन्दस्येवायम् । प्रत्ययस्य लिड्वद्भावात् एत्वाभ्यासलोपौ ।
Footnote 12. औणादिकेऽसुन्प्रत्यये रूपम् । सदः सभा ।
Footnote 13. ‘नौ सदेः’ (द. उ. 8-48) इति वरच्प्रत्ययः । निषद्वरः = कामः, कर्दमश्च ।
Footnote 14. ‘इण् अजादिभ्यः’ (वा. 3-3-108) इति इण् । सादिः अश्वस्थो योद्धा ।
Footnote 1. औणादिके (द. उ. 8-89) त्रप्रत्यये रूपम् । धातुदकारस्य चर्त्वेन तकारः । सत्त्रम् =
यागविशेषः, अन्नशाला च । [ID=1813]
स्विद्यति
स्विद् ञिष्विदाँ अव्यक्ते शब्दे दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः ( to sweat, to perspire )
ष्विदा [Printed book page 1370]
(1894) “ञि ष्विदा गात्रप्रस्रवणे”
(I-भ्वादिः-744. अक. सेट्. आत्म.)
‘गात्रप्रक्षरणे स्विद्येत् स्वेदते स्नेहमोकयोः ।’ (श्लो. 107) इति देवः ।
‘गात्रप्रक्षरणे’ इति माधवादयः । उभयथाऽपि स्वेदस्य = घर्माम्भसो विवक्षाऽत्र ।
‘स्नेहनमोचनयोः’ इति हरदत्तादयः (पदमञ्जरी 1-2-19) । सामान्यरूपाणि
भौवादिकक्ष्वेदतिवत् (326) बोध्यानि । 1 स्निन्नः, 2 प्रस्वेदितः-प्रस्वेदितम्, 3 सिस्वेदयिषुः ।
Footnote 1. ‘ञीतः क्तः’ (3-2-187) इति वर्तमाने क्तः । ‘आदितश्च’ (7-2-16) इति
निष्ठायामिण्निषेधः । ‘रदाभ्यां—’ (8-2-42) इति निष्ठातकारस्य, धातुदकारस्य च
नकारः ।
Footnote 2. ‘विभाषा भावादिकर्मणोः’ (7-2-17) इति इड्विकल्पः । ‘निष्टा शीङ्स्विदि—’
(1-2-19) इति सेटो निष्ठायाः कित्त्वनिषेधः ।
Footnote 3. ण्यन्तात् सनि उप्रत्यये रूपमेवम् । ‘सः स्विदि—’ (8-3-62) इति अभ्यासात्
परस्य सकारः । ‘स्तौतिण्योरेव षणि—’ (8-3-61) इत्यस्यापवादः । [ID=1893]
(1895) “ष्विदा गात्रप्रक्षरणे”
(IV-दिवादिः-1188. अक. अनि. पर.)
‘गात्रप्रक्षरणे स्विद्येत, स्वेदते स्नेहमोकयोः ।’ (श्लो. 107) इति देवः ।
सर्वाण्यपि रूपाणि दैवादिकक्रुध्यतिवत् (277) बोध्यानि । ‘निष्ठा शीङ्-
स्विदि—’ (1-2-19) इत्यत्र ञीतां क्ष्विदादीनां साहचर्यात् ञीतो भौवादिकस्यैव
ग्रहणमिति पदमञ्जरी । अयमपि ञीत् इति न्यासकारः । तत्तु पुरुषकारे
धातुवृत्तौ च खण्डितम् । भावादिकर्मणोः प्रस्वेदितम्-प्रस्वेदितः इत्यस्यापि रूपे ।
आदित्त्वमस्य सर्वसम्मतम् । अयं परस्मैपदी, भौवादिकस्तु आत्मनेपदीति;
अयमनिट्, भौवादिकः सेट् इति च विशेषः । [ID=1894]