pa-anteshu_13 Flashcards
आप्नोति
आपॢँ व्याप्तौ (to obtain-to pervade-to occupy)-स्वादिः-आप्नु-आप्नोति
आपॢ [Printed book page 0057]
(59) “आपॢ व्याप्तौ” (V-स्वादिः-1260. सक. अनिट्-पर.)
“आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे । व्याप्त्यर्थस्यास्य तु
स्वादेराप्नोतीति पदं भवेत् ॥” (137) इति देवः ।
आपकः-प्रापकः-पिका, आपकः-पिका, ईप्सकः 3 प्सिका;
आप्ता-प्त्री, प्रापयिता-त्री, ईप्सिता-त्री; 4 आप्नुवन्-वती, प्रापयन्-न्ती, ईप्सन्-न्ती;
[Page0058+ 28]
आप्स्यन्-न्ती-ती, आपयिष्यन्-न्ती-ती, ईप्सिष्यन्-न्ती-ती;
— प्रापयमाणः, प्रापयिष्यमाणः;
आपः 1; — –
आप्तः- A संप्राप्तः-प्तम्-प्तवान्, प्रापितम्, B ईप्सितः-तवान्;
आपः, आपः, व्यापी-व्यापिनी, C ईप्सुः, आपिपयिषुः; –
आप्तव्यम्, आपयितव्यम्, ईप्सितव्यम्;
आपनीयम्, प्रापणीयम्, ईप्सनीयम्;
D संप्राप्यः,
आप्यम्, — प्राप्यम्, — ईप्स्यम्;
ईषदापः-दुरापः-स्वापः; — –
प्राप्यमानः, प्राप्यमानः, ईप्स्यमानः;
आपः, आपः, ईप्सः;
आप्तुम्, आपयितुम्, ईप्सितुम्; 2 आप्तिः, प्रापणा, ईप्सा, आपिपयिषा;
प्रापणम्, आपनम्, ईप्सनम्;
आप्त्वा, आपयित्वा, ईप्सित्वा;
प्राप्य, E प्रापय्य 3 = प्राप्य, प्रेप्स्य;
[Page0059+ 25]
आपम् 2, आप्त्वा 2, आपम् 2, आपयित्वा 2, ईप्सम् 2; ईप्सित्वा 2;
Footnote 3. सनि ‘आप्ज्ञपृधामीत्’ (7-4-55) इतीत्वे, द्वित्वे, ‘अत्र लोपोऽभ्यासस्य’ (7-4-58)
इत्यभ्यासलोपः ।
Footnote 4. ‘स्वादिभ्यः—’ (3-1-73) इति श्नुप्रत्यये उवङ् ।
Footnote 1. ‘आप्नोतेर्ह्रस्वश्च’ (द. उ. 7-1.) इति क्विप्सन्नियोगेन ह्रस्वत्वे, ‘अप्तृन्—’
(6-4-11) इति सर्वनामस्थाने दीर्घः । ‘आपः स्त्री भूम्नि वार्वारि—’ इति
अमरकोशात् नित्यं बहुवचनम् ।
Footnote A. ‘तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशंवदः’ भ. का. 6-100.
Footnote B. ‘अन्वयादिविभिन्नानां यथासंख्यमनीप्सितम्’ भ. का. 9. 132.
Footnote C. ‘दिग्व्यापिनीर्लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः’ भ. का. 2-13.
Footnote D. ‘संप्राप्यो निजशक्तिराद्धतपसः साधोः स देवोऽपि तामृज्वीकर्तुमुपानशे सुकृतिनीं
प्रस्तिध्नुवानः खलान् ॥’ धा. का. 2-69.
Footnote 2. ‘क्तिन् आबादिभ्यः निष्ठायामनिड्भ्यः’ (वा. 3-3-94) इति क्तिन् । ‘गुरोश्च हल’
(3-3-103) इत्यस्यापवादः ।
Footnote E. ‘प्रापय्य शौरिमथ तां भगिनीं च वाक्यैरक्षीणसौहृदमपेतशुचाऽवतानीत्’ वा. वि.
3-56.
Footnote 3. ‘विभाषाऽऽपः’ (6-4-57) इति णेरयादेशो वा । [ID=59]
आपयति
आपॢँ लम्भने (to obtain-to get-to receive)-चुरादिः-आपय-आपयति
[Printed book page 0059]
(60) “आपॢ लम्भने” (X-चुरादिः-1840-सक. सेट्. उभ.)
आधृषीयः । लम्भनम् = प्राप्तिः—इति क्षीरस्वामी ।
‘आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे । व्याप्त्यर्थस्यास्य तु स्वादे-
राप्नोतीति पदं भवेत् ॥’ (137) इति देवः ।
आधृषीयत्वात् णिचो वैकल्पिकत्वम् । णिच्पक्षे रूपाणि पूर्वं लिखि-
तस्याप्नोतेरिव (59) ज्ञेयानि । णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’
(1-3-78) इति परस्मैपदित्वमेव । तत्र शतरि A ‘आपन्-न्ती’ इत्येव रूपम्;
शप औत्सर्गिकत्वात् । ईप्सकः-इत्यादि च रूपम् । ण्यन्तात् सनि तु–
आपिपयिषकः-षिका, आपिपयिष्यम्;
आपिपयिषिता-त्री, आपिपयिष्यमाणः;
आपिपयिषन्-न्ती, आपिपयिषितुम्;
आपिपयिषिष्यन्-न्ती-ती, आपिपयिषः;
आपिपयिषमाणः, आपिपयिषा;
आपिपयिषिष्यमाणः, आपिपयिषणम्;
आपिपयिषितः-तं-तवान्, आपिपयिषित्वा;
आपिपयिषुः, समापिपयिष्य;
आपिपयिषितव्यम्; आपिपयिषणीयम्; आपिपयिषम् 2; आपिपयिषित्वा 2; इति रूपाणि ज्ञेयानि ।
Footnote A. “आपन् खेदमरिं तनञ्जनहितं चिक्रीड गोपेर्हरिः तूर्योत्थो वितनन् ध्वनिर्दिवमगात्
दतो यथा वादितः” धा. का. 3-51. [ID=60]
क्षिपति
क्षिपँ प्रेरणे (to throw)-तुदादिः-क्षिप-क्षिपति
[Printed book page 0322]
(307) “क्षिप प्रेरणे” (VI-तुदादिः-1285. सक. अनि. उभ.)
‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे ।’ (श्लो. 130) इति देवः ।
क्षेपकः-पिका, क्षेपकः-पिका, चिक्षिप्सकः-प्सिका, चेक्षिपकः-पिका,
क्षेप्ता-त्री; 3 क्षिपन् C -न्ती-ती, D अभिक्षिपन् 4 प्रतिक्षिपन्-अतिक्षिपन्-न्ती-ती;
[Page0323+ 27]
क्षिपमाणः, इत्यादीनि रूपाण्यस्येति विशेषः । अन्यानि रूपाणि सर्वाण्यपि
दैवादिकक्षिप्यतिवत् (306) ज्ञेयानि ।
Footnote 3. ‘तुदादिभ्यः शः’ (3-1-77) इति शः विकरणप्रत्ययः । तस्य ङिद्वद्भावात् अङ्गस्य
न गुणः । स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुमो वैकल्पिकत्वम् । तेन
रूपद्वयम् ।
Footnote C. ‘तुदन् कुचरिताञ् शुभे प्रणुदमान इष्टं दिशन्
प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः ।’ धा. का. 2-72.
Footnote D. ‘सुखाहरैर्वर्महरैः सगर्भ्यैः प्रलम्बमुख्यैश्च सहाश्रवैस्तैः ।
अभिक्षिपन् अक्षमकोऽर्चनार्हान् दृष्ट्वा स्वसुर्दीप्तिमखिन्त कंसः ॥’ वा. वि. 2-59.
Footnote 4. ‘अभिप्रत्यतिभ्यः क्षिपः’ (1-3-80) इत्यनेन कर्तृगामिनि क्रियाफलेऽपि परस्मै-
पदमेव । न शानच् । तेन शतरि रूपम् । [ID=307]
क्षिप्यति
क्षिपँ प्रेरणे (to throw)-दिवादिः-क्षिप्य-क्षिप्यति
क्षिप [Printed book page 0321]
(306) “क्षिप प्रेरणे” (IV-दिवादिः-1121. सक. अनि. पर.) [अ]
प्रेरणम् = निरसनम्—इति धातुकाव्यव्याख्याता ।
‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे ॥’ (श्लो. 130) इति देवः ।
क्षेपकः-पिका, क्षेपकः-पिका, 1 चिक्षिप्सकः-प्सिका, चेक्षिपकः-पिका;
क्षेप्ता-त्री, क्षेपयिता-त्री, चिक्षिप्सिता-त्री, चेक्षिपिता-त्री; 2 क्षिप्यन्-न्ती, क्षेपयन्-न्ती, चिक्षिप्सन्-न्ती; –
क्षेप्स्यन्-न्ती-ती, क्षेपयिष्यन्-न्ती-ती, चिक्षिप्सिष्यन्-न्ती-ती; – 3 व्यतिक्षिप्यमाणः, क्षेपयमाणः, — चेक्षिप्यमाणः;
— क्षेपयिष्यमाणः, — चेक्षिपिष्यमाणः;
प्रक्षिप्-प्रक्षिपौ-प्रक्षिपः; — –
क्षिप्तम्-तः A -तवान्, क्षेपितः, चिक्षिप्सितः, चेक्षिपितः-तवान्;
क्षिपः 4, क्षिपका 5, 6 परिक्षेपी, 7 क्षिप्णुः B, 8 परिक्षेपकः, क्षेपः, चिक्षिप्सुः, चेक्षिपः;
[Page0322+ 29]
क्षेप्तव्यम्, क्षेपयितव्यम्, चिक्षिप्सितव्यम्, चेक्षिपितव्यम्;
क्षेपणीयम्, क्षेपणीयम्, चिक्षिप्सनीयम्, चेक्षिपणीयम्;
क्षेप्यम्, क्षेप्यम्, चिक्षिप्स्यम्, चेक्षिप्यम्;
ईषत्क्षेपः-दुःक्षेपः-सुक्षेपः; — –
क्षिप्यमाणः, क्षेप्यमाणः, चिक्षिप्स्यमानः, चेक्षिप्यमाणः;
क्षेपः-आक्षेपः-विक्षेपः-सुक्षेपः-सङ्क्षेपः-प्रक्षेपः, परिक्षेपः, क्षेपः, चिक्षिप्सः, चेक्षेपः;
क्षेप्तुम्, क्षेपयितुम्, चिक्षिप्सितुम्, चेक्षिपितुम्; 1 क्षिपा, क्षेपणा, चिक्षिप्सा, चेक्षिपा;
क्षेपणम्, क्षेपणम्, चिक्षिप्सनम्, चेक्षिपणम्;
क्षिप्त्वा, क्षेपयित्वा, चिक्षिप्सित्वा, चेक्षिपित्वा; A सङ्क्षिप्य, परिक्षिप्य, परिक्षेप्य, परिचिक्षिप्स्य, परिचेक्षिप्य; B भ्रूविक्षेपम् 2 [कथयति]
क्षेपम् 2, क्षिप्त्वा 2, क्षेपम् 2, क्षेपयित्वा 2, चिक्षिप्सम् 2, चिक्षिप्सित्वा 2, चेक्षिपम् 2, चेक्षिपित्वा 2,
Footnote [अ] अस्य धातोर्दिवादौ नव्यः पाठ इति क्षीरस्वामिमतम् । तन्न समीचीनम् ।
‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे ।’ इति दैवे (130) उक्तम् । प्रयोगश्च
‘द्वाविमावम्भसि क्षिप्य गले बद्ध्वा महाशिलाम् । धनिनं चाप्रदातारं दरिद्रं
चाप्रवासिनम् ॥’ (महाभारते उद्योगपर्वणि 33-60) इति प्रयोगात् । तत्र
क्षिप्य इति लोण्मध्यमपुरुषैकवचनम्—इति पुरुषकारे श्रीकृष्णलीलाशुकः ।
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वान्न गुणः । एवं सन्नन्ते सर्वत्र बोध्यम् ।
Footnote 2. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन् । श्यनो ङिद्वद्भावादङ्गस्य गुणो न ।
स्त्रियाम् ‘शप्श्यनोर्नित्यम्’ (7-1-81) इति नित्यं नुम् ।
Footnote 3. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् ।
Footnote A. ‘वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्पशाखिनः ।
प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः ॥’ भ. का. 9-25.
Footnote 4. ‘इगुपधज्ञाप्रीकिरः कः’ (3-1-135) इति कर्तरि कः प्रत्ययः ।
Footnote 5. क्षिपशब्दात् अज्ञाताद्यर्थे तद्धितप्रत्यये कनि सति, ‘क्षिपकादीनां च’
(वा. 7-3-44) इति इत्त्वनिषेधे ‘क्षिपका’ इति भवति ।
Footnote 6. ‘सम्पृचानु—’ (3-2-142) इत्यादिना घिनुण् ताच्छीलिकः ।
Footnote 7. ‘त्रसिगृघिधृषिक्षिपेः क्नुः’ (3-2-140) इति क्नुः ताच्छीलिकः ।
केचित्तु ‘क्षुभ्नादिषु च’ (8-4-39) इति णत्वं नेच्छन्ति ।
Footnote B. ‘विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षितात्मा ।
अध्यापिपद्गाधिसुतो यथावन्निघातयिष्यन् युधि यातुधानाम् ॥’ भ. का. 2-21.
Footnote 8. ‘निन्दहिंसक्लिशखाद—’ (3-2-146) इत्यादिना वुञ् ताच्छीलिकः ।
Footnote 1. ‘भिदादि—’ (3-3-104) पाठात् अङ् । ‘अजाद्यतः—’ (4-1-4) इति स्त्रियां टाप् ।
Footnote A. ‘अनेकशो निर्जितराजकस्त्वं पितॄनतार्प्सीः नृपरक्ततोयैः ।
संक्षिप्य संरम्भमसद्विपक्षं काऽऽस्थाऽर्भकेऽस्मिंस्तव राम रामे ॥’ भ. का. 2-52.
Footnote B. ‘अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम् ।
वदन् बह्वङ्गुलिस्फोटं भ्रूविक्षेपं विलोकयन् ॥’ भ. का. 5-63.
Footnote 2. ‘स्वाङ्गेऽध्रुवे’ (3-4-54) इति द्वितीयान्ते उपपदे णमुल्प्रत्ययो भवति । [ID=306]
छुपति
छुपँ स्पर्शे (to touch)-तुदादिः-छुप-छुपति
छुप [Printed book page 0542]
(571) “छुप स्पर्शे” (VI-तुदादिः-1418. सक. अनि. पर.)
छोपकः-पिका, छोपकः-पिका, चुच्छुप्सकः-प्सिका, 1 चोच्छुपकः-पिका;
इत्यादीनि सर्वाण्यपि साधारणरूपाणि दैवादिकक्षिप्यतिवत् (306) ज्ञेयानि । 2 छुपन्-न्ती-ती, इति शतरि रूपम् । A छुप्तम् ।
Footnote 1. ‘गुणो यङ्लुकोः’ (7-4-82) इत्यभ्यासस्य गुणः । न चात्र प्रथमतः तुकि
अभ्यासस्येगन्तत्वाभावात् ‘गुणो यङ्लुकोः’ (7-4-82) इति गुणो न स्यादिति
शङ्क्यम् । परत्वात् गुणे कृते, ‘दीर्घात्’ (6-1-75) इत्यनेन तुक्प्रवृत्तेः ।
एवमेवाशङ्क्य, परत्वेन गुणप्रवृत्तिः ‘दीर्थोऽकितः’ (7-4-83) इत्यत्र भाष्ये
साधिता ।
Footnote 2. ‘तुदादिभ्यः—’ (3-1-77) इति शः विकरणप्रत्ययः । तस्य ङिद्वद्भावादङ्गस्य
गुणो न । स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम्विकल्पः ।
Footnote A. ‘रोषच्छुप्तधियाऽथ रोष्टुमभितो योधान् द्विषद्रेशकान्
आलिष्टानजितो जघान धनुषः खण्डेन मर्मस्पृशा ।’ धा. का. 2. 84. [ID=571]
तपति
तपँ सन्तापे (to be angry-to burn -to shine-to perform penance)-भ्वादिः-तप-तपति
तप [Printed book page 0648]
(703) “तप सन्तापे” (I-भ्वादिः-985. सक. सेट्. पर.)
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।
ऐश्वर्ये वा दिवादित्वात् तप्यते तपतीति च ॥’ (श्लो. 131) इति देवः ।
तापकः-पिका, तापकः-पिका, 1 तितप्सकः-प्सिका, तातपकः-पिका;
तप्ता 2 निष्टप्ता-निस्तप्ता-त्री, तापयिता-त्री, तितप्सिता-त्री; तातपिता-त्री; 3 उत्तपन्-निष्टपन्-[वा सुवर्णं] न्ती, तापयन्-न्ती, तितप्सन्-न्ती; –
तप्स्यन्-न्ती-ती, तापयिष्यन्-न्ती-ती, तितप्सिष्यन्-न्ती-ती; – 4 उत्तपमानः A -वितपमानः, 5 उत्तपमानः [पृष्ठम्], तापयमानः — तातप्यमानः;
उत्तप्स्यमानः-वितप्स्यमानः-तापयिष्यमाणः, — तातपिष्यमाणः;
संतप्-सन्तपौ-संतपः; — — –
तप्तः- B सन्तप्तः, तप्तम्, तापितः, तितप्सितः, तातपितः-तवान्; 6 तपनः, 7 ललाटन्तपः C [आदित्यः],
[Page0649+ 28]
1 द्विषत्तापः, 2 संतापी, 3 द्विषन्तपः;
द्विषतीतापः, A परन्तपः, 4 शत्रुन्तपः 5 अभितापी, B तापः, तितप्सुः, तातपः;
तप्तव्यम्, निष्टप्तव्यम्, तापयितव्यम्, तितप्सितव्यम्, तातपितव्यम्;
तपनीयम्, तापनीयम्, तितप्सनीयम्, तातपनीयम्; 6 तप्यम्, ताप्यम्, तितप्स्यम्, तातप्यम्; –
ईषत्तपः-दुस्तपः-सुतपः; — — –
तप्यमानः, ताप्यमानः, तितप्स्यमानः, तातप्यमानः;
तापः-सन्तापः, 7 आतपः, तापः, तितप्सः, तातपः;
तप्तुम्, तापयितुम्, तितप्सितुम्, तातपितुम्;
[Page0650+ 26]
तप्तिः- 1 तपस्या, तापना, तितप्सा, तातपा;
तपनम्, तापनम्, तितप्सनम्, तातपनम्;
तप्त्वा, तापयित्वा, तितप्सित्वा, तातपित्वा;
सन्तप्य, सन्ताप्य, संतितप्स्य, संतातप्य;
तापम् 2, तप्त्वा 2, तापम् 2, तापयित्वा 2, तितप्सम् 2, तितप्सित्वा 2, तातपम् 2; तातपित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वात् न गुणः । एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 2. ‘निसस्तपतावनासेवने’ (8-3-102) इति षत्वम् । आसेवनम् = पुनः पुनः
करणम् । “‘निष्टप्तं रक्षो निष्टप्ता अरातयः ।’ इत्यत्र सदप्यासेवनं न
विवक्ष्यते । छान्दसो वा वर्णविकारः ।” इति काशिका (8-3-102) । आसेवने
तु निस्तप्ता इत्येव ।
Footnote 3. ‘उद्विभ्यां तपः’ (1-3-27) इत्यत्र ‘अकर्मकाच्च’ (1-3-26) इत्यनुवृत्तेः
सकर्मकात् परस्मैपदमेव ।
Footnote 4. ‘उद्विभ्यां तपः’ (1-3-27) इति शानच् ।
Footnote A. ‘तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः ।’ भ. का. 8-15.
Footnote 5. ‘स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा. 1-3-27) इत्युक्तेरत्रापि शानच् ।
Footnote B. ‘सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम् ॥’ भ. का. 3. 3.
Footnote 6. ‘सहितपिदमेः संज्ञायाम्’ (ग. सू. 3-1-134) इति नन्द्यादिषु पाठात् कर्तरि
ल्युः । तपनः = सूर्यः ।
Footnote 7. ‘असूर्यललाटयोर्दृशितपोः’ (3-2-36) इति खश् । ‘अरुर्द्विषदजन्तस्य—’
(6-3-67) इति मुम् । ललाटं तपतीति ललाटन्तपः = सूर्यः ।
Footnote C. ‘शमयेदपि सङ्ग्रामे यो ललाटन्तपं रविम् ॥’ भ. का. 6-100.
Footnote 1. असंज्ञायां द्विषन्तं तपतीति विग्रहे शुद्धाद्धातोः ‘कर्मण्यण्’ (3-2-1) इत्यणि रूपम् ।
Footnote 2. सम्यक् तप्तुं शीलमस्येति सन्तापी । ताच्छील्ये णिनिः ।
Footnote 3. द्विषन्तं तापयतीति विग्रहे ‘द्विषत्परयोस्तापेः’ (3-2-39) इति खच्प्रत्ययः ।
खचि ‘णेरनिटि’ (6-4-51) णिलोपे, ‘खचि ह्रस्वः’ (6-4-94) इति उपधायाः
ह्रस्वः । द्विषतस्तकारस्य मुमि संयोगान्तलोपः । एवं परं तापयतीति विग्रहे
परन्तपः इति भवति । सूत्रे द्वितकारनिर्देशात् तकारान्त एव द्विषच्छब्दे
उपपदेऽयं प्रत्ययः, न तु लिङ्गविशिष्टपरिभाषया द्विषतीशब्दे उपपदे; तत्र
‘कर्मण्यण्’ (3-2-1) इत्यणि द्विषतीताप इत्येव भवति ।
Footnote A. ‘प्रियंवदोऽपि नैवाहं ब्रुवे मिथ्या परन्तप ।
सख्या तेन दशग्रीवं निहन्ताऽसि द्विषन्तपम् ॥’ भ. का. 6. 102.
Footnote 4. ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (3-2-46) इति खच्प्रत्ययः संज्ञायाम् ।
शत्रून् तापयतीति विग्रहे, खचि, मुमागमे, णिलोपे, ‘खचि ह्रस्वः’ (6-4-94)
इति उपधायाः ह्रस्वे, रूपम् ।
‘विश्वम्भरा, साम रथन्तराख्यम्, पतिंवरा चापि धनञ्जयश्च ।
शत्रुंसहः कोऽपि, वसुन्धरा च, शत्रुन्तपोऽरिन्दम एवमूह्यम् ॥’ इति प्रक्रियासर्वस्वे ।
Footnote 5. ‘बहुलमाभीक्ष्ण्ये’ (3-2-81) इति णिनिः । असकृत् अभितपतीत्यर्थः ।
Footnote B. ‘द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान् महत्तपः ॥’ किरातार्जुनीये 12. 34.
Footnote 6. ‘पोरदुपधात्’ (3-1-98) इति यत्प्रत्ययः ।
Footnote 7. आ = समन्तात् तपतीति आतपः = सूर्यप्रभा । ‘पुंसि संज्ञायां धः प्रायेण’
(3-3-118) इति घः । यद्वा, पचाद्यच् ।
Footnote 1. ‘असुन्’ [द. उ. 9. 49] इत्यसुन्प्रत्यये तपः = तपति शरीरमिति कायक्लेशात्मकः
शुद्धाचारः । ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’ (3-1-15) इति क्यङ् ।
‘सनाद्यन्ता धातवः’ (3-1-32) इति धातुसंज्ञा । ‘अ प्रत्ययात्’ (3-3-102)
इति स्त्रियां भावादौ अकारप्रत्ययः । टाप् । तपस्या = तपः । [ID=703]
तप्यति
तपँ ऐश्वर्ये (to be powerful)-दिवादिः-तप्य-तप्यति
[Printed book page 0650]
(704) “तप ऐश्वर्ये” (IV-दिवादिः-1159. अक. अनि. आत्म.)
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।
ऐश्वर्ये वा दिवादित्वात् तप्यते तपतीति च ॥’ (श्लो. 131) इति देवः ।
अयं धातुः ऐश्वर्येऽर्थे विकल्पेन तङ्श्यनौ लभते । तदभावे शब्विकरणः
पस्स्मैपदी बोद्धव्यः । केचित्तु ‘वा’ इति पदं ‘वृतु वरणे’ इत्यनन्तरं
पठिष्यमाणस्य धातोः आद्यावयवमिच्छन्ति । अत एव ‘ततो वावृत्यमाना
सा रामशालां न्यविक्षत ।’ [भ. का. 4-28] इति भट्टिप्रयोगः संगच्छते ।
तन्मते ऐश्वर्येऽर्थे अस्माद् धातोः तङ्श्यनौ नित्यमेव भवतः । ‘पत’ इति,
अस्यैव पाठान्तरं केचिदिच्छन्ति । अत एव ‘द्युतद्यामा नियुतः पत्यमानः’
इति प्रयोगस्योपपत्तिर्भवति । निरुक्तेऽपि ‘इरज्यति पत्यते क्षयति राजतीति
चत्वार ऐश्वर्यकर्माणः’ इत्युक्तम् । तापकः-पिका, तापकः-पिका, तितप्सकः,
प्सिका, तातपकः-पिका; तप्ता-त्री, तापयिता-त्री, तितप्सिता-त्री,
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतपतिवत् (703) बोध्यानि ।
दिवादिषु आत्मनेपदमध्ये पाठात् शानचि संतप्यमानः A, तप्स्यमानः,
तितप्समानः, तितप्सिष्यमाणः; इत्यादीनि रूपाणि भवन्तीति विशेषः ।
[Page0651+ 28]
Footnote A. ‘गूर्णेऽस्मिन् बहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः
शौरिः शूरकगर्वचूरणपरः सन्तप्यमानः सताम् ।’ धा. का. 2. 60. [ID=704]
तापयति
तपँ दाहे (to become hot-to glow-to burn-to be jealous)-चुरादिः-तापय-तापयति
[Printed book page 0651]
(705) “तप दाहे” (X-चुरादिः-1819. सक. सेट्. उभ.)
आधृषीयः ।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।’ (श्लो. 131) इति देवः ।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम् । ण्यन्तात्, शुद्धात्,
सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् (704) सर्वाण्यपि रूपाणि
ज्ञेयानि । अस्योभयपदित्वात् शानचि—तपमानः-तप्स्यमानः, तितप्समानः,
तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः । A चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये । ण्यन्तात् सनि इमानि रूपाणि–
यथा—तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता-
पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्-
यिषौ-यिषः; तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्,
तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता-
पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा,
तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् 2, तिता-
पयिषित्वा 2.
Footnote A. ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि ।’ धा. का. 3. 49. [ID=705]
तेपते
[Printed book page 0651]
(705) “तप दाहे” (X-चुरादिः-1819. सक. सेट्. उभ.)
आधृषीयः ।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।’ (श्लो. 131) इति देवः ।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम् । ण्यन्तात्, शुद्धात्,
सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् (704) सर्वाण्यपि रूपाणि
ज्ञेयानि । अस्योभयपदित्वात् शानचि—तपमानः-तप्स्यमानः, तितप्समानः,
तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः । A चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये । ण्यन्तात् सनि इमानि रूपाणि–
यथा—तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता-
पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्-
यिषौ-यिषः; तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्,
तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता-
पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा,
तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् 2, तिता-
पयिषित्वा 2.
Footnote A. ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि ।’ धा. का. 3. 49. [ID=705]क्षरणे (to drop-to ooze-to sprinkle)-भ्वादिः-तेप-तेपते
तृप्यति
तृपँ प्रीणने (to satisfy)-दिवादिः-तृप्य-तृप्यति is counted
तृप [Printed book page 0687]
(770) “तृप प्रीणने” (IV-दिवादिः-1195. सक. वेट्. पर.) रधादिः ।
प्रीणनम् = तृप्तिः, तर्पणं च । आद्येऽकर्मकः, द्वितीये—सकर्मकः ।
[Page0688+ 24]
‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत् ॥’ (श्लो. 133) इति देवः ।
1 तर्पकः-र्पिका, तर्पकः-र्पिका, 2 तितर्पिषकः-षिका, तितृप्सकः-प्सिका, 3 तरीतृपकः-पिका; 4 तर्पिता-तर्प्ता-त्रप्ता-त्री, A तर्पयिता-त्री, तितर्पिषिता-तितृप्सिता-त्री, तरीतृपिता-त्री; 5 तृप्यन्- B न्ती, तर्पयन्-न्ती, तितर्पिषन्-तितृप्सन्-न्ती; –
तर्पिष्यन्-तर्प्स्यन्- 6 त्रप्स्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-तितृप्सिष्यन्-न्ती-ती; 7 व्यतितृप्यमाणः, तर्पयमाणः, 8 व्यतितितर्पिषमाणः-व्यतितितृप्समानः, 9 तरीतृप्यमाणः;
[Page0689+ 21]
व्यतितर्पिष्यमाणः-व्यतितर्प्स्यमानः-व्यतित्रप्स्यमानः, तर्पयिष्यमाणः, व्यतितितर्पिषिष्यमाणः-व्यतितितृप्सिष्यमाणः, तरीतृपिष्यमाणः;
सुतृप्-सुतृब्-सुतृपौ-सुतृपः; — — – 1 तृप्तम्-[फलानां] 2 तृप्तः-तृप्तवान्, तर्पितः, तितर्पिषितः-तितृप्सितः, तरीतृपितः-तवान्;
तृपः, 3 सन्तर्पी, तर्पः, तितर्पिषुः-तितृप्सुः, तरीतृपः;
तर्पितव्यम्-तर्प्तव्यम्-त्रप्तव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्-तितृप्सितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्-तितृप्सनीयम्, तरीतृपणीयम्; 4 तृप्यम्, तर्प्यम्, तितर्पिष्यम्-तितृप्स्यम्, तरीतृप्यम्,
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — –
तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः-तितृप्स्यमानः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः-तितृप्सः, तरीतृपाः;
तर्पितुम्-तर्प्तुम्-त्रप्तुम्, तर्पयितुम्, तितर्पिषितुम्-तितृप्सितुम्, तरीतृपितुम्;
तृप्तिः, तर्पणा, तितर्पिषा-तितृप्सा, तरीतृपा; A तर्पणम्, तर्पणम्, तितर्पिषणम्-तितृप्सनम्, तरीतृपणम्; 5 तर्पित्वा-तृप्त्वा, तर्पयित्वा, तितर्पिषित्वा-तितृप्सित्वा, तरीतृपित्वा;
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य-प्रतितृप्स्य, प्रतरीतृप्य;
तर्पम् 2, तर्पित्वा 2-तृप्त्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2-तितृप्सम् 2, तितर्पिषित्वा 2-तितृप्सित्वा 2, तरीतृपम् 2; तरीतृपीत्वा 2;
[Page0690+ 26]
1 तृप्रः, 2 तृपला.
Footnote 1. ‘सार्वधातुकार्धधातुकयोः’ (7-3-84) इति गुणः । स च ‘उरण् रपरः’ (1-1-51)
इति रेफविशिष्टो भवति । एवमुत्तरत्रापि ज्ञेयम् ।
Footnote 2. ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इत्यत्रानिट्कारिकासु, ‘—लिपिं लुपिं
तृप्यतिदृप्यती सृपिम् ।’ (काशिका 7-2-10) इति पाठात् वलाद्यार्धधातुकेषु
इडागमोऽस्य धातोर्यद्यपि न भवेत्—तथापि, ‘रधादिभ्यश्च’ (7-2-45)
इत्यत्र पाठात् इड्विकल्पः । अनुदात्तत्वफलं तु अमागम इति ज्ञेयम् । इट्पक्षे
तु— ‘इको झल्’ (1-2-9) इति सनः कित्त्वान्न गुणः, नापि अमागमः, अमाग-
मविधायके सूत्रे, ‘सृजिदृशोः—’ (6-1-58) इत्यतः, ‘अकिति’ इत्यनुवृत्तेः ।
Footnote 3. ‘रीगृदुपधस्य च’ (7-4-90) इति रीगागमः । एवं यङन्ते सर्वत्र बोध्यम् ।
Footnote 4. ‘रधादिभ्यश्च’ (7-2-45) इतीड्विकल्पः । इडभावपक्षे, ‘अनुदात्तस्य च
ऋदुपधस्यान्यतरस्याम्’ (6-1-59) इति अमागमविकल्पः । ‘मिदचोऽन्त्यात्
परः’ (1-1-47) इति अम् ऋकारात् परो भवति । ‘इको यणचि’ (6-1-77)
इति यण् । लघूपधगुणापवादोऽयममागमः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote A. ‘दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन् ।’ भ. का. 18. 40.
Footnote 5. ‘दिवादिभ्यः—’ (3-1-69) श्ति श्यन् विकरणप्रत्ययः । तस्य सार्वधातुकत्वेन
ङिद्वद्भावादङ्गस्य गुणो न ।
Footnote B. ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्गुहेऽस्मै ।’ धा. का. 2. 64.
Footnote 6. स्यप्रत्ययेऽपि अकित्त्वात् अमागमो भवति । अमागमपक्षे रूपमेवम् ।
Footnote 7. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानचि रूपम् ।
Footnote 8. ‘पूर्ववत् सनः’ (1-3-62) इति सन्नन्तात् शानचि रूपम् ।
Footnote 9. यङन्ताच्छानचि, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा. 8-4-1) इति णत्वम् ।
Footnote 1. रधादित्वेनास्य धातोर्वलाद्यार्धधातुकेषु वैकल्पिकेट्कत्वात् निष्ठायाम्, ‘यस्य
विभाषा’ (7-2-15) इतीण्णिषेधः ।
Footnote 2. ‘फलानां तृप्तः’ इत्यत्र, ‘पूरणगुणसुहितार्थ—’ (2-2-11) इत्यादिना
षष्ठीसमासनिषेधः । सुहितार्थः = तृप्त्यर्थः ।
Footnote 3. ताच्छील्ये णिनिप्रत्ययः ।
Footnote 4. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति क्यपि रूपम् ।
Footnote A. ‘जप्तदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥’ शि. व. 13. 52.
Footnote 5. रधादित्वेनेड्विकल्पः । इट्पक्षे, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधात्
गुणो भवति । इडभावपक्षे प्रत्ययस्य कित्त्वेन गुणोऽमागमश्च न ।
Footnote 1. ‘स्फायितञ्चि—’ [द. उ. 8-31] इति रक्प्रत्ययः । तृप्रः = पुरोडाशः ।
Footnote 2. ‘कलस्तृपश्च’ [द. उ. 8-107] इति कलप्रत्ययः । तृपला = लताविशेषः । [ID=770]
तृप्नोति
तृपँ प्रीणने (to satisfy)-स्वादिः-तृप्नु-तृप्नोति
[Printed book page 0690]
(771) “तृप प्रीणने” (V-स्वादिः-1271. सक. सेट्. पर.) [अ]
‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
तृप्तावन्यतरस्यां णौ स्याताम् तर्पति तर्पयेत् ॥’ (श्लो. 133) इति देवः ।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका;
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री; 3 तृप्नुवन्-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती; –
तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती; –
— तर्पयमाणः, तर्पयिष्यमाणः, — तरीतृप्यमाणः, तरीतृपिष्यमाणः;
प्रतृप्-प्रतृब्-प्रतृपौ-प्रतृपः; — — –
तृपितम्-तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्;
तृपः, तर्पः, तितर्पिषुः, तरीतर्पः;
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्; 4 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्;
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — — –
[Page0691+ 24]
तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः, तरीतृपः;
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्; 1 तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा;
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्; 2 तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा;
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य;
तर्पम् 2, तर्पित्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2, तितर्पिषित्वा 2, तरीतृपम् 2; तरीतृपित्वा 2.
Footnote [अ] स्वादिषु केषाञ्चिन्मतेनास्य धातोः पाठः । ‘स्वादौ क्षुभ्नादित्वात् (8-4-39) पाठ
उन्नेयः ।’ इति क्षीरस्वामी । देघोऽपि स्वादिषु पाठमनुमेने । अनिट्कारि-
कासु ‘तृप्यतिदृप्यती सृपिम्’ (काशिका 7-2-10) इति श्यना निर्देशव्यावर्त्यत्वेन
‘तुदादिषु यौ तृपिदृपी, तावुदात्तौ’ इति वृत्तिकारेणाभिधानात् तदनुसारिणो
न्यासकारादयः स्वादिपाठं नेच्छन्ति । क्षुभ्नादिषु णत्वनिषेधार्थं ‘तृप्नु’ इति
पाठे व्यत्ययेन श्नुः इति न्यासकारादीनां मतम् । देवश्लोकपरामर्शनेन देवस्य
तुदादिष्वेव पाठोऽस्य धातोरनभिमत इति प्रतीयते । सिद्धान्तकौमुद्याद्यनुसारेणा-
स्माभिरयं धातुर्लिखितः ।
Footnote 3. शतरि, ‘स्वादिभ्यः—’ (3-1-73) इति श्नुः विकरणप्रस्ययः । ‘अचि श्नुधातु—’
(6-4-77) इत्युवङ् । ‘क्षुभ्नादिषु च’ (8-4-39) इति णत्वनिषेधः ।
Footnote 4. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति क्यप्प्रत्ययः ।
Footnote 1. ‘तितुत्र—’ (7-2-9) इति इण्णिषेधः ।
Footnote 2. धातोरस्य सेट्त्वात्, क्त्वायाम्, ‘न क्त्वा सेट्’ (1-2-18) इति कित्त्वनिषेधाद्
गुणः । [ID=771]
तृपति
तृपँ तृप्तौ (to satisfy)-तुदादिः-तृप-तृपति
[Printed book page 0691]
(772) “तृप तृप्तौ” (VI-तुदादिः-1307. अक. सेट्. पर.)
‘तृफ’ इति क्षीरस्वामिप्रभृतयः पठन्ति ।
‘तृप्नोति तृप्यतीत्येके प्रीणने श्नौ श्यनि क्रमात् ।’ (श्लो. 133) इति देवः ।
अत्र पुरुषकारे— ‘तृप तृप्तौ’ तुदादिश्चायम् ।’ इत्युक्तम् ।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका;
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री; 3 तृपन्-न्ती-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती; –
तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती; – 4 व्यतितृपमाणः, तर्पयमाणः, — तरीतृप्यमाणः;
व्यतितृपिष्यमाणः, तर्पयिष्यमाणः, — तरीतृपिष्यमाणः;
सुतृप्-सुतृब्-सुतृपौ-सुतृपः; — –
तृपितम्- A तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्;
[Page0692+ 25]
तृपः, सन्तपीं, तृपः, तितर्पिषुः, तरीतृपः;
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्;
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्; 1 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्;
ईषत्तर्पः-दुस्तर्पः-सुतर्पः; — –
तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः;
तर्पः, तर्पः, तितर्पिषः, तरीतृपः;
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्;
तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा;
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्;
तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा;
प्रतृप्य, प्रतर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य;
तृपम् 2, तर्पित्वा 2, तर्पम् 2, तर्पयित्वा 2, तितर्पिषम् 2, तितर्पिषित्वा 2, तरीतृपम् 2; तरीतृपित्वा 2.
Footnote 3. ‘तुदादिभ्यः—’ (3-1-77) इति शः विकरणप्रत्ययः । तस्य ङिद्वद्भावादङ्गस्य
गुणो न ।
Footnote 4. ‘कर्तरि कर्मव्यतीहारे’ (1-3-14) इति शानच् ।
Footnote A. ‘शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोफार्थिनो
राज्ञो नित्यमतुम्पकात् वितुफती बन्धूंश्च सन्तुम्फती ।’ धा. का. 2. 74.
Footnote 1. ‘ऋदुपधाच्चाकॢपिचृतेः’ (3-1-110) इति भावकर्मणोः क्यप् । [ID=772]
दृप्यति
दृपँ हर्षमोहनयोः (to be glad-to be proud)-दिवादिः-दृप्य-दृप्यति
दृप [Printed book page 0762] IS COUNTED
(859) “दृप हर्षमोहनयोः” (IV-दिवादिः-1196. अक. वेट्. पर.)
रधादिः ।
‘हर्षमोचनयोः’ इति मैत्रेयः । ‘मोहनम् = गर्वः’ इति स्वामी ।
धातोरस्यानुदात्तत्वेऽपि नात्मनेपदित्वम्, न वा इण्णिषेधः । किं तु ‘अनु-
दात्तस्य च ऋदुपधस्य—’ (6-1-59) इत्यत्र ग्रहणार्थमेवानुदात्तत्वम् ।
‘रधादिभ्यश्च’ (7-2-45) इत्यनेन, तेनेड्विकल्पः । ‘रधादित्वादिमौ-
वेट्कावमर्थमनुदात्तता ।’ इति वचनमिह स्मर्तव्यम् ।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका-दिदृप्सकः-प्सिका,
दरीदृपकः-पिका; दर्पिता-द्रप्ता-दर्प्ता-त्रीं, इत्यादीनि सर्वाण्यपि रूपाणि
दैवादिकतृप्यतिवत् (770) ज्ञेयानि । 1 दर्पणः ।
Footnote 1. दर्पयति = हर्षयतीत्यर्थे ण्यन्तादस्मात् नन्द्यादित्वात् (3-1-134) कर्तरि ल्युप्रत्यये,
अनादेशे च रूपमेवम् । दर्पणः = आदर्शः । [ID=859]
दृपति
दृपँ उत्क्लेशे (to give pain-to injure)-तुदादिः-दृप-दृपति
860) “दृप उत्क्लेशे” (VI-तुदादिः-1313. अक. सेट्. पर.)
‘दृफ’ इति द्वितीयान्तोऽयमित्येके ।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका;
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् (772) ज्ञेयानि । [ID=860]
दर्पयति
दृपँ सन्दीपने (to ignite-to set on fire)-चुरादिः-दर्पय-दर्पयति
[Printed book page 0763]
(861) “दृप सन्दीपने”
(X-चुरादिः-1821. सक. सेट्. उभ. आधृषीयः ।)
‘तृप तृप्तौ’ (773) इत्यस्य पाठान्तरोऽयम् । दर्पकः-र्पिका, दिदर्पयिषकः-
षिका; दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका; इत्यादीनि
सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् (554) बोध्यानि । [ID=861]