New GCSE Mahabharata Story 1 Flashcards
आसीत् नृपः शान्तनुः नाम ।
There was a king called Śāntanu.
सः अतीव साधुः नृपः सुखेन अजीवत् ।
He was a very good king and lived happily.
तस्य तु एकः दोषः । तस्य दोषः कामः ।
However, he had one fault. His fault was desire.
एकदा शान्तनुः नद्याः समीपे अचरत् ।
Once, Śāntanu walked near a river.
सः नार्या सह अमिलत् ।
He met a lady.
सा नारी देवी गङ्गा नाम । सा अतीव सुन्दरी नारी ।
That lady was a goddess called Gaṅgā. She was a very beautiful lady.
मम भार्या भव दयया इति शान्तनुः अवदत् ।
“Please become my wife,” Śāntanu said.
गङ्गा अवदत् अहम् तव भार्या भविष्यामि ।
Gaṅgā said, “I will become your wife.”
किम् करोषि इति न कदापि माम् पृच्छ ।
“Never ask me ‘what are you doing?’”
यदि तत् पृच्छसि तर्हि त्वाम् त्यजामि इति ॥
“If you ask that, then I will leave you.”