Story Week 2 Flashcards

1
Q

एकस्मिन् वने एकः शृगालः अस्ति | एकस्मिन् दिने सः बहु बुभुक्षितः भवति | अत्र पश्यति, भोजनं नास्ति | तत्र पश्यति, भोजनं नास्ति | सर्वत्र पश्यति, भोजनं नास्ति | शृगालः दूरं दूरं गच्छति | तत्र एकां द्राक्षलतां पश्यति | द्राक्षाफलानि बहु उपरि सन्ति | शृगालः एकवारं कूर्दति | द्राक्षफलं न प्राप्नोति | सः द्विवारं कूर्दति | द्राक्षफलं न प्राप्नोति | पुनः पुनः कूर्दति | परन्तु द्राक्षफलं न प्राप्नोति | अतः शृगालः “द्राक्षाफलानि मधुराणि न सन्ति| द्राक्षाफलानि आम्लानि सन्ति “ इति वदति | अनन्तरं ततः धावति |

A

In a forest lives a fox. One day the fox becomes hungry. He sees here, there is no food. He sees there, there is no food. He looks everywhere, there is no food. The fox goes very far. There he sees a grape climber. The grapes were at the top. The fox jumps once. He doesn’t get the grapes. He jumps twice. He doesn’t get the grapes. Again, and again he jumps. But he doesn’t get the grapes. So, the fox says “the grapes aren’t sweet. The grapes are sour”. Then he runs from there.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly