New GCSE Mahabharata Story 5 Flashcards
कर्णः कुन्त्याः एव पुत्रः ।
Karṇa was Kuntī’s only son.
सा तु तम् बालकम् अल्पायाम् नौकायाम् अत्यजत् ।
However, she abandoned him as a boy in a small boat.
कर्णः सूतेन नद्याः रक्षितः सूतस्य पुत्रः अभवत् च ।
Karṇa was rescued from the river by a charioteer and became the charioteer’s son.
वीरः भूत्वा कर्णः परशुरामम् नाम गुरुम् अगच्छत् ।
Having become a warrior, Karṇa went to a teacher called Paraśurāma.
क्षत्रियाः परशुरामाय न अरोचन्त ।
The warrior caste did not please Paraśurāma.
तस्मात् ब्राह्मणः अहम् इति कर्णः परशुरामम् अवदत् ।
Therefore, Karṇa said to Paraśurāma, “I am a priest.”
शिष्यः भूत्वा कर्णः सर्वम् धनुःशास्त्रस्य ज्ञानम् गुरोः अलभत ।
Having become a student, Karṇa gained all of the knowledge of the science of weapons from his teacher.
एकदा तु परशुरामः कर्णस्य ऊरौ निद्राम् अकरोत् ।
However, once Paraśurāma fell asleep on the thigh of Karṇa.
कृमिः कर्णस्य ऊरुम् प्राविशत् ।
A worm entered Karṇa’s thigh.
कर्णः तु न अक्रोशत् ।
However, Karṇa did not cry out.
बुद्ध्वा परशुरामः कृमिम् कर्णस्य ऊरौ अपश्यत् ।
Having become awake, Paraśurāma saw the worm on Karṇa’s thigh.
त्वम् क्षत्रियः एव त्वम् न ब्राह्मणः इति परशुरामः कर्णम् अवदत् ॥
“You are in truth a warrior. You are not a priest,” Paraśurāma said to Karṇa.