Samasa3 Flashcards
वेदः एव सम्पत्
वेदसम्पत्
अवधारणा-पूर्वपद-कर्मधारयः
देवपूजकः ब्राह्मणः
देवब्राह्मणः
मध्यम-पद-लोपी-कर्मधारयः
काकेभ्यः बलिः
काकबलिः
चतुर्थी-तत्पुरुषः
महान् ईशः
महेशः
विशेषण-पूर्वपद-कर्मधारयः
जलेन मिश्रः
जलमिश्रः
तृतीया-तत्पुरुषः
अतिक्रान्तः
देवम् अतिदेवम्
प्रादिसमासः
रोगात् भयम्
रोगभयम्
पञ्चमी-तत्पुरुषः
चन्द्रगुप्तः इति राजा
चन्द्रगुप्तराजः
सम्भावना-पूर्वपद- कर्मधारयः
अविद्या एव तमः
अविद्यातमः
अवधारणा-पूर्वपद-कर्मधारयः
सर्वं जयति इति
सर्वजित्
**उपपदसमासः **
अनेकम् एकं कृत्वा
एकीकृत्य
गतिसमासः
प्रगतः पितामहः
प्रपितामहः
प्रादिसमासः
कुत्सितम् आसनम्
कदासनम्
कुसमासः
न योग्यः
अयोग्यः
नञ्-समासः
सूत्रं धरति इति
सूत्रधारः
**उपपदसमासः **
अहिनकुलम्
अहिश्च नकुलश्च अनयोः समाहारः
**समाहारद्वन्द्वः **
पञ्चगवम्
पञ्चानां गवां समाहारः
समाहारद्विगुः
नरेन्द्र:
नराणाम् इन्द्रः
षष्ठी-तत्पुरुषः
त्रिरात्रम्
त्रयाणां रात्रीणां समाहारः
समाहारद्विगुः
घटपटम्
घटश्च पटश्च अनयोः समाहारः
समाहारद्वन्द्वः
स्पष्टीकृत्य
अस्पष्टं स्पष्टं कृत्वा
** गति-समासः **
चतुर्युगम्
चतुर्णां युगानां समाहारः
समाहारद्विगुः
पुत्रपौत्रम्
पुत्रश्च पौत्रश्च अनयोः समाहारः
समाहारद्वन्द्वः
क्रीडानिपुणा
क्रीडायां निपुणा
** सप्तमी-तत्पुरुषः **
चन्द्रसुन्दरम्
चन्द्रः इव सुन्दरम्
उपमानपूर्वपद-कर्मधारयः
गोव्याघ्रम्
गौश्च व्याघ्रश्च अनयोः समाहारः
समाहारद्वन्द्वः
ग्रामनगरकाननानि
ग्रामश्च नगरञ्च काननञ्च
इतरेतर-द्वन्द्वः
काकोलूकम्
काकश्च उलूकश्च अनयोः समाहारः
समाहारद्वन्द्वः
इन्द्राग्नी
इन्द्रश्च अग्निश्च
इतरेतर-द्वन्द्वः
गङ्गायमुने
गङ्गा च यमुना च
इतरेतर-द्वन्द्वः
पिकश्च काकश्च
पिककाकौ
**इतरेतर द्वन्द्वः **
असरलं सरलं कृत्वा
सरलीकृत्य
गति-समासः
नदी च समुद्रः च एतयोः समाहारः
नदीसमुद्रम्
समाहारद्वन्द्वः
विशेषं जानाति इति
विशेषज्ञः
उपपद-समासः
माता च पिता च
मातापितरौ
**इतरेतर-द्वन्द्वः **
रामस्य सखा
रामसखः
षष्ठी-तत्पुरुषः
कृत्तिका च रोहिणी च
कृत्तिकारोहिण्यौ
**इतरेतर-द्वन्द्वः **
इन्द्रियाणि च मनश्च बुद्धिश्च
इन्द्रियमनोबुद्धयः
**इतरेतर-द्वन्द्व: **
करः किसलयः इव
करकिसलयः
** उपमानोत्तरपद-कर्मधारयः**
मुखं च नासिका च अनयोः समाहारः
मुखनासिकम्
समाहारद्वन्द्वः
महत् च तत् काव्यम् च
महाकाव्यम्
विशेषणपूर्वपद-कर्मधारयः
सप्तानाम् अह्नां समाहारः
सप्ताहः
समाहारद्विगुः
कमलनयनम्
कमलम् इव नयनम्
उपमानपूर्वपद-कर्मधारयः
नवानां रात्रीणां समाहारः
नवरात्रम्
समाहारद्विगुः
अष्टानाम् अध्यायानां समाहारः
अष्टाध्यायी
समाहारद्विगुः
अनश्वा
न विद्यते अश्वः यस्याः सा
**नञ्-बहुव्रीहिः **
ससीतः
सीतया सह वर्तते इति
सह-पूर्वपद-बहुव्रीहिः
चन्द्रमौलिः
चन्द्रः मौलौ यस्य सः
व्यधिकरण-बहुव्रीहिः
सुन्दरबाहुः
सुन्दरौ बाहू यस्य स:
समानाधिकरण-बहुव्रीहिः
धनुष्पाणिः
धनुः पाणौ यस्य सः
व्यधिकरण-बहुव्रीहिः
दशाननेन
दश आननानि यस्य सः, तेन
**समानाधिकरण-बहुव्रीहिः **
दण्डहस्तम्
दण्डः हस्ते यस्य सः, तम्
**व्यधिकरण-बहुव्रीहिः **
पीताम्बराय
पीतम् अम्बरं यस्य सः, तस्मै
**समानाधिकरण-बहुव्रीहिः **
पतितपर्णः
पतितानि पर्णानि यस्मात् सः
**समानाधिकरण-बहुव्रीहिः **
अधनाः
न विद्यते धनं येषां ते
**नञ्-बहुव्रीहिः **
सहरिः
हरिणा सह वर्तते इति
**सह-पूर्वपद-बहुव्रीहिः **
अनिद्र:
न विद्यते निद्रा यस्य सः
**नञ्-बहुव्रीहिः **
चक्रपाणि:
चक्रं पाणौ यस्य सः
व्यधिकरण-बहुव्रीहिः
बहुफल:
बहूनि फलानि यस्मिन् सः
समानाधिकरण-बहुव्रीहिः
दामोदर:
दाम उदरे यस्य सः
व्यधिकरण-बहुव्रीहिः
मित्रैः सह वर्तते इति
समित्रः
सहपूर्व-पद-बहुव्रीहिः
शरेण सह वर्तते इति
सशरः
सहपूर्व-पद-बहुव्रीहिः
आरूढं यानं येन सः
आरूढयानः
समानाधिकरण-बहुव्रीहिः
न दृष्टम्
अदृष्टम्
नञ्-समासः
प्रसन्नं वदनं यस्य सः, तस्मिन्
प्रसन्नवदने
समानाधिकरण-बहुव्रीहिः
न विद्यते व्ययं यस्य तत्
अव्ययम्
नञ्-बहुव्रीहिः
धृतानि वस्त्राणि यया सा, तस्याः
धृतवस्त्रायाः
समानाधिकरण बहुव्रीहिः
पत्न्या सह वर्तते इति
सपत्नीकः
सहपूर्व-पद-बहुव्रीहिः
निर्गतः गजः यस्मात् तत्
निर्गतगजम्
समानाधिकरण-बहुव्रीहिः
पराजिताः रिपवः येन सः
पराजितरिपुः
समानाधिकरण-बहुव्रीहिः
न विद्यते प्रजा यस्य सः
अप्रजः
नञ्-बहुव्रीहिः
ज्ञातः धर्मः येन सः
ज्ञातधर्मः
समानाधिकरण-बहुब्रीहिः
शशी शेखरे यस्य सः
शशीशेखरः
व्यधिकरण-बहुव्रीहिः
कुटुम्बेन सह वर्तते इति
सकुटुम्ब:
सहपूर्व-पद-बहुव्रीहिः
न विद्यते कार्यं यस्य सः
अकार्यः
नञ्-बहुव्रीहिः