Mahabharata Story 5 - Arjuna Defeats Karna Flashcards
अर्जुनः कर्णेन सह युद्धम् अकरोत् ।
Arjuna made battle with Karṇa.
कर्णः अर्जुनस्य शिरः प्रति शरम् अक्षिपत् ।
Karṇa shot an arrow towards Arjuna’s head.
तस्मिन् एव काले तु कृष्णस्य मायया अर्जुनस्य रथः पङ्के निमग्नः
Indeed, at that time Arjuna’s chariot sank in the mud due to Kṛṣṇa’s magic.
तस्मात् कर्णस्य शरः अर्जुनस्य शिरः न अतुदत् ।
Therefore Karṇa’s arrow did not hit Arjuna’s head.
रथः तु तस्मात् पङ्कात् पुनर् निरगच्छत् ।
But the chariot came out of that mud again.
ततः कर्णस्य रथः अपि पङ्के निमग्नः ।
Then Karṇa’s chariot also sank in the mud.
रथस्य चक्रम् पङ्के अतिष्ठत् ।
The wheel of the chariot stuck in the mud.
कर्णः रथात् अवरुह्य अर्जुनम् अवदत् शरम् न क्षिप इति ।
Karṇa climbed down from the chariot and said to Arjuna, “Do not shoot an arrow.”
अर्जुनेन युद्धस्य धर्मः ज्ञातः ।
Arjuna knew the laws of battle.
ततः सः न किम् चित् अकरोत् ।
Therefore he did nothing.
कृष्णः अर्जुनम् अवदत् पूर्वम् धर्मः कर्णेन न कदा अपि कृतः ।
Kṛṣṇa said to Arjuna, “Previously, justice had never been done by Karṇa.”
धर्मः धार्मिकम् एव नरम् रक्षति इति ।
“Justice only protects the righteous man.”
तत् श्रुत्वा अर्जुनः कर्णम् व्यापादयत् ।
Hearing that, Arjuna killed Karṇa.